हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०३७

विकिस्रोतः तः
← अध्यायः ०३६ हरिवंशपुराणम्
अध्यायः ०३७
वेदव्यासः
अध्यायः ०३८ →
जरासंधस्य पुनराक्रमणात् शङ्कितानां यादवानां सभायां विकद्रोः भाषणम् - राज्ञः हर्यश्वस्य चरित्रं, तस्मात् यदोः एवं यादवानां उत्पत्तेः वर्णनम्

सप्तत्रिंशोऽध्यायः

वैशम्पायन उवाच
स कृष्णस्तत्र बलवान् रौहिणेयेन संगतः ।
मथुरां यादवाकीर्णां पुरीं तां सुखमावसत् ।। १ ।।
प्राप्तयौवनदेहस्तु युक्तो राजश्रिया विभुः ।
चचार मथुरां प्रीतः सवनाकरभूषणाम् ।। २ ।।
कस्यचित् त्वथ कालस्य राजा राजगृहेश्वरः ।
सस्मार निहतं कंसं जरासंधः प्रतापवान् ।। ३ ।।
युद्धाय योजितो भूयो दुहितृभ्यां महीपतिः ।
दश सप्त च संग्रामाञ्जरासंधस्य यादवाः ।
ददुर्न चैनं समरे हन्तुं शेकुर्महारथाः ।। ४ ।।
ततो मागधराट् श्रीमांश्चतुरङ्गवलान्वितः ।
भूयोऽप्यष्टादशं कर्तुं संग्रामं स समारभत् ।। ५ ।।
वैलक्ष्यात् पुनरेवासौ राजा राजगृहेश्वरः ।
जरासंधो बली श्रीमान् पाकशासनविक्रमः ।। ६ ।।
स साधनेन महता बृहद्रथसुतो बली ।
कृष्णस्य वधमन्विच्छन् भूयो वै संन्यवर्तत ।। ७ ।
तं श्रुत्वा सहिताः सर्वे निवृत्तं मगधेश्वरम् ।
यादवा मन्त्रयामासुर्जरासंधभयार्दिताः ।। ८ ।।
ततः प्राह महातेजा विकद्रुर्नयकोविदः ।
कृष्णं कमलपत्राक्षमुग्रसेनस्य शृण्वतः ।। ९ ।।
श्रूयतां तात गोविन्द कुलस्यास्य समुद्भवः ।
श्रूयतामभिधास्यामि प्राप्तकालमहं ततः ।
युक्तं चेन्मन्यसे साधो करिष्यसि वचो मम ।। 2.37.१० ।।
यादवस्यास्य वंशस्य समुद्भवमशेषतः ।
यथा मे कथितः पूर्वं व्यासेन विदितात्मना ।। ११ ।।
आसीद् राजा मनोर्वंशे श्रीमानिक्ष्वाकुसम्भवः ।
हर्यश्व इति विख्यातो महेन्द्रसमविक्रमः ।। १२ ।।
तस्यासीद् दयिता भार्या मधोर्दैत्यस्य वै सुता ।
देवी मधुमती नाम यथेन्द्रस्य शची तथा ।। १३ ।।
सा यौवनगुणोपेता रूपेणाप्रतिमा भुवि ।
मनोरथकरी राज्ञः प्राणेभ्योऽपि गरीयसी ।। १४ ।ऽ।
दानवेन्द्रकुले जाता सुश्रोणी कामरूपिणी ।
एकपत्नीव्रतधरा खेचरा रोहिणी यथा ।। १५ ।।
सा तमिक्ष्वाकुशार्दूलं कामयामास कामिनी ।
स कदाचिन्नरश्रष्ठो भ्रात्रा ज्येष्ठेन माधव ।। १६ ।।
राज्यान्निरस्तो विश्वस्तः सोऽयोध्यां सम्परित्यजत् ।
स तदाल्पपरीवारः प्रियया सहितो वने ।। १७ ।।
रेमे समेत्य कालज्ञः प्रियया कमलेक्षणः ।
भ्रात्रा विनिष्कृतं राज्यात् प्रोवाच कमलेक्षणा ।। १८ ।।
एह्यागच्छ नरश्रेष्ठ त्यज राज्यकृतां स्पृहाम् ।
गच्छावः सहितौ वीर मधोर्मम पितुर्गृहम् ।। १९ ।।
रम्यं मधुवनं नाम कामपुष्पफलद्रुमम् ।
सहितौ तत्र रंस्यावो यथा दिवि गतौ तथा ।। 2.37.२० ।।
पितुर्मे दयितस्त्वं हि मातुर्मम च पार्थिव ।
मत्प्रियार्थं प्रियतरो भ्रातुश्च लवणस्य वै ।। २१ ।।
रंस्यावस्तत्र सहितौ राज्यस्थाविव कामगौ ।
तत्र गत्वा नरश्रेष्ठ ह्यमराविव नन्दने ।
भद्रं ते विहरिष्यावो यथा देवपुरे तथा ।। २२ ।।
तं त्यजाव महाराज भ्रातरं तेऽभिमानिनम् ।
आवयोर्द्वेषिणं नित्यं मत्तं राज्यमदेन वै ।। २३ ।।
धिगिमं गर्हितं वासं भृत्यवच्च पराश्रयम् ।
गच्छावः सहितौ वीर पितुर्मे भवनान्तिकम् ।। २४ ।।
तस्य सम्यक्प्रवृत्तस्य पूर्वजं भ्रातरं प्रति ।
कामार्तस्य नरेन्द्रस्य पत्न्यास्तद् रुरुचे वचः ।। २५ ।।
ततो मधुपुरं राजा हर्यश्वः स जगाम च ।
भार्यया सह कामिन्या कामी पुरुषपुङ्गवः ।। २६ ।।
मधुना दानवेन्द्रेण स साम्ना समुदाहृतः ।
स्वागतं वत्स हर्यश्व प्रीतोऽस्मि तव दर्शनात् ।। २७ ।।
यदेतन्मम राज्यं वै सर्वं मधुवनं विना ।
ददामि तव राजेन्द्र वासश्च प्रतिगृह्यताम् ।। २८ ।।
वनेऽस्मिँल्लवणश्चायं सहायस्ते भविष्यति ।
अमित्रनिग्रहे चैव कर्णधारत्वमेष्यति ।। २९ ।।
पालयैनं शुभं राष्ट्रं समुद्रानूपभूषितम् ।
गोसमृद्धं श्रिया जुष्टमाभीरप्रायमानुषम् ।। 2.37.३० ।।
अत्र ते वसतस्तात दुर्गं गिरिपुरं महत् ।
भविता पार्थिवावासः सुराष्ट्रविषयो महान् ।। ३१ ।।
अनूपविषयश्चैव समुद्रान्ते निरामयः ।
आनर्तं नाम ते राष्ट्रं भविष्यत्यायतं महत् ।। ३२ ।।
तद् भविष्यमहं मन्ये कालयोगेन पार्थिव ।
अध्यास्यतां यथाकालं पार्थिवं वृत्तमुत्तमम् ।। ३३ ।।
यायातमपि वंशस्ते समेष्यति च यादवम् ।
अनु वंशं च वंशस्ते सोमस्य भविता किल ।। ३४ ।।
एष मे विभवस्तात तवेमं विषयोत्तमम् ।
दत्त्वा यास्यामि तपसे सागरं लवणालयम् ।। ३५ ।।
लवणेन समायुक्तस्त्वमिमं विषयोत्तमम् ।
पालयस्वाखिलं तात स्वस्य वंशस्य वृद्धये ।। ३६ ।।
बाढमित्येव हर्यश्वः प्रतिजग्राह तत् पुरम् ।
स च दैत्यस्तपोवासं जगाम वरुणालयम् ।। ३७ ।।
हर्यश्वश्च महातेजा दिव्ये गिरिवरोत्तमे ।
निवेशयामास पुरं वासार्थममरोपमः ।। ३८ ।।
आनर्तं नाम तद् राष्ट्रं सुराष्ट्रं गोधनायुतम् ।
अचिरेणैव कालेन समृद्धं प्रत्यपद्यत ।। ३९ ।।
अनूपविषये चैव वेलावनविभूषितम् ।
विचित्रं क्षेत्रसस्याढ्यं प्राकारग्रामसंकुलम् ।। 2.37.४० ।।
शशास नृपतिः स्फीतं तद् राष्ट्रं राष्ट्रवर्द्धनः ।
राजधर्मेण यशसा प्रजानां नन्दिवर्द्धनः ।। ४१ ।।
तस्य सम्यक प्रचारेण हर्यश्वस्य महात्मनः ।
व्यवर्धत तदक्षोभ्य राष्ट्रं राष्ट्रगुणैर्युतम् ।। ४२ ।।
स हि राजा स्थितो राज्ये राजवृत्तेन शोभितः ।
प्राप्तः कुलोचितां लक्ष्मीं वृत्तेन च नयेन च ।। ४३ ।।
तस्यैव च सुवृत्तस्य पुत्रकामस्य धीमतः ।
मधुमत्यां सुतो जज्ञे यदुर्नाम महायशाः ।। ४४ ।।
सोऽवर्धत महातेजा यदुर्दुन्दुभिनिःस्वनः ।
राजलक्षणसम्पन्नः सपत्नैर्दुरतिक्रमः ।। ४ ५।।
यदुर्नामाभवत् पुत्रो राजलक्षणपूजितः ।
यथास्य पूर्वजो राजा पूरुः स सुमहायशाः ।।४६ ।।
स एक एव तस्यासीत् पुत्रः परमशोभनः ।
ऊर्जितः पृथिवीभर्ता हर्यश्वस्य महात्मनः ।। ४७ ।।
दस वर्षसहस्राणि स कृत्वा राज्यमव्ययम् ।
जगाम त्रिदिवं राजा धर्मेणाप्रतिमो भुवि ।। ४८ ।।
ततो यदुरदीनात्मा प्रजाभिस्त्वभ्यषिच्यत ।
पितर्युपरते श्रीमान् क्रमेणार्क इवोदितः ।। ४९ ।।
शशास चेमां वसुधां प्रशान्तभयतस्कराम् ।
यदुरिन्द्रप्रतीकाशो नृपो येनास्य यादवाः ।। 2.37.५० ।।
स कदाचिन्नृपश्चक्रे जलक्रीडां महोदधौ ।
दारैः सह गुणोदारैः सतार इव चन्द्रमाः ।। ५१ ।।
स तत्र सहसा क्षिप्तस्तितीर्षुः सागराम्भसि ।
धूम्रवर्णेन नृपतिः सर्पराजेन वीर्यवान् ।। ५२ ।।
सोऽपाकृष्यत वेगेन जले सर्पपुरं महत् ।
मणिस्तम्भगृहद्वारं मुक्तादामविभूषितम् ।। ५३ ।।
कीर्णं शङ्खकुलैः शुभ्रै रत्नराशिविभूषितम् ।
प्रवालाङ्कुरपत्राढ्यैः पादपैरुपशोभितम् ।। ५४ ।।
कीर्णं पन्नगनार्योघैः समुद्रोदरवासिभिः ।
स्वर्णवर्णेन भास्वन्तं स्वस्तिकेनेन्दुवर्चसा ।। ५५ ।।
स तं ददर्श राजेन्द्रो विमले सागराम्भसि ।
पन्नगेन्द्रपुरं तोये जगत्यामिव निर्मितम् ।। ५६ ।।
स्वच्छं चैव पुरं तत्र प्रविवेश नृपो यदुः ।
अगाधं तोयदाकारं पूर्णं सर्पवधूगणैः ।। ५७ ।।
तस्य दत्तं मणिमयं जलजं परमासनम् ।
स्वास्तीर्णं पद्मपत्रैश्च पद्मसूत्रोत्तरच्छदम् ।। ५८ ।।
तमासीनं नृपं तत्र परमे पन्नगासने ।
द्विजिह्वपतिरव्यग्रो धूम्रवर्णोऽभ्यभाषत ।। ५९ ।।
पिता ते स्वर्गतिं प्राप्तः कृत्वा वंशमिमं महत् ।
भवन्तं तेजसा युक्तमुत्पाद्य वसुधाधिपम् ।। 2.37.६० ।।
यादवानामयं वंशस्त्वन्नाम्ना यदुपुङ्गव ।
पित्रा ते मङ्गलार्थाय स्थापितः पार्थिवाकरः ।। ६१ ।।
वंशे चास्मिंस्तव विभो देवानां तनयाव्ययाः ।
ऋषीणामुरगाणां च उत्पत्स्यन्ते नृयोनिजाः ।। ६२ ।।
तन्ममेमाः सुताः पञ्च कुमार्यो वृत्तसम्मताः ।
उत्पन्ना यौवनाश्वस्य भगिन्यां नृपसत्तम ।। ६३ ।।
प्रतीच्छेमाः स्वधर्मेण प्राजापत्येन कर्मणा ।
वरं च ते प्रदास्यामि वरार्हस्त्वं मतो मम ।। ६४ ।।
भैमाश्च कुकुराश्चैव भोजाश्चान्धकयादवाः ।
दाशार्हा वृष्णयश्चेति ख्यातिं यास्यन्ति सप्त ते।। ६५ ।।
स तस्मै धूम्रवर्णो वै कन्याः कन्याव्रते स्थिताः ।
जलपूर्णेन योगेन ददाविन्द्रसमाय वै ।। ६६ ।।
वरं चास्मै ददौ प्रीतः स वै पन्नगपुङ्गवः ।
श्रावयन् कन्यकाः सर्वा यथाक्रममदीनवत् ।। ६७ ।।
एतासु ते सुताः पञ्च सुतासु मम मानद ।
उत्पत्स्यन्ते पितुस्तेजो मातुश्चैव समाश्रिताः ।। ६८ ।।
अस्मत्समयबद्धाश्च सलिलाभ्यन्तरेचराः ।
तव वंशे भविष्यन्ति पार्थिवाः कामरूपिणः ।। ६९ ।।
स वरं कन्यकाश्चैव लब्ध्वा यदुवरस्तदा ।
उदतिष्ठत् वेगेन सलिलाच्चन्द्रमा इव ।। 2.37.७० ।।
स पञ्चकन्यामध्यस्थो ददृशे तत्र पार्थिवः ।
पञ्चतारेण संयुक्तो नक्षत्रेणेव चन्द्रमाः ।। ७१ ।।
स तदन्तःपुरं सर्वं ददर्श नृपसत्तमः ।
वैवाहिकेन वेषेण दिव्यस्रगनुलेपनः ।। ७२ ।।
समाश्वास्य च ताः सर्वाः स पत्नीः पावकोपमाः।
जगाम स्वपुरं राजा प्रीत्या परमया युतः ।। ७३ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि विकद्रुवाक्यं नाम सप्तत्रिंशोऽध्यायः ।। ३७ ।।