दनमर्थापत्तेर्विषयः ’ इति निरस्तम् । अवच्छिन्नानवच्छि- न्नयोर्विरोधाभावात् । उदाहरणान्तराणि चार्थापत्तेरेव- मेवानुमाने ऽन्तभवणीयानि । तस्मान्नानुमान प्रमाण न्तरमर्थापत्तिरिति सिद्धम् ।
एवमभावो ऽपि प्रत्यक्षमेव । न हि भूतलस्प परिण
स्पदानि न परस्परविरुद्धानि (अविरुद्धानि) अविरुद्धार्थतात्पर्यक-
त्वात्संमतवत्’ इत्याद्यनुमानमत्रापि सम्भवतीत्यर्थः । तच्छद्बार्थमाह ।
अवच्छिन्नेति । मीमांसकैः-बृहद्दीपिकायां दिवा भुञ्जानस्य चै-
त्रस्य पीनत्वेन रात्रिभोजनकल्पनं, सर्पनकुलयोरेकस्य जयेनन्यस्य
पराजयेन वोत्तरत्र जयपराजयकल्पनं, बीजे सत्यङ्कुरोत्पत्तेर्मूषका-
घ्रातेऽङ्गुरानुत्पत्तेर्दर्शनात् तत्र कारणत्वाकारणत्वव्यघातपरिजि-
हीर्षया शक्तिकल्पनमिन्याद्युदाहरणान्तराण्युक्तानि तान्यप्यनुमाने
ऽन्तर्भवणीयानीत्याह । उदाहरणान्तराणि चेति । तथा च
'पीनश्चैत्रो रात्रौ भुङ्क्ते दिवाऽभुञ्जनत्वे सति पीनत्वात व्यतिरेके
निराहारवत्' इति । एवमन्यान्यपि स्वयमन्तर्भावणीयानीति ।
'अभावनिष्ठविषयतानिरूपित-विषयतासम्बन्धेन तदधिकरण विषयक-तदिन्द्रियजन्य-तत्संसर्गावच्छिन्नतदभचलैकिकप्रत्यक्ष त्वधच्छिन्नं प्रति तत्सम्बन्धावच्छिन्नप्रतियोगिनिष्ठव्याप्यताइरू- पितव्यापकताश्रयीभूत-तदिन्द्रियजन्य-तत्संसर्गक-तद्विषयकानु- भवस्य विषयतासम्बन्धावच्छिन्नप्रतियोगिताकाभावरूप-योग्यानु- पलब्धिः कारणं; स च -जलपरमाणौ पृथिवीवाद्यभावप्रत्यक्ष- वरणायाऽऽलोकवदिन्द्रियसहकारिणी" इति नैय्यायिकाः।
भट्टानुयायिनस्तु "‘इन्द्रियस्याभावप्रत्यक्षकरणत्वे चासून्निकृष्टस्य तस्य प्रमाजनकत्वभावेन विशेषणता प्रत्यासत्तेस्तत्करणत्वान्तरस्य च कल्पने गौरवापत्तेः, तथा च सर्वसिद्धायास्तस्याः प्रमाणान्तरत्वं कल्प्यते इत्याहुः। तद्दूषयति । एवमभावोपीति । नन्वेवं जलप-