दृष्टस्वलक्षणसामान्यविषयं यत्तत्पूर्ववत् , पूर्वं-प्रसिद्धं- दृष्टस्वलक्षणसमान्यमिति यावत्, तदस्य विषयत्वेना- स्त्यनुमानज्ञानस्येति पूर्ववत् । यथा धूमात् वह्नित्वसामा- न्यविशेषः पर्वतेऽनुमीयते, तस्य वह्नित्वसामान्यविशे- षस्य स्वलक्षणं वह्निविशेषो दृष्टो रसवत्याम् । अपरं च वीतं सामान्यतो दृष्टम्-अदृष्टस्वलक्षणसामान्यविषयम्। यथेन्द्रियविषयमनुमानम् । अत्र हि रूपादिविज्ञाननां
वन्हेरनुमानविषयत्वासम्भवादाह । दृष्टेति । दृष्टं च तत् स्वलक्षणं
च दृष्टस्वलक्षणं , स्वलक्षणं च-वह्नित्वाव्अच्छिन्नमहानसा-
दिवृत्तित्वविशिष्टो महानसीयवह्निव्यक्तिविशेषः, तस्य सामान्यं
तज्जातीयं-वह्नित्वावच्छिन्नम्। विषयत्वेनेति । साध्यतयेति
शेषः । तथा च प्रत्यक्षीकृतजातीयप्तध्यकमित्यर्थः । उदहरणमाह ।
यथा धूमादिति । वहिषलामान्यविशेषः-वह्निवाव
च्छिन्नपर्वतीयवन्हिव्यक्तिविशेषः ।
स्वं-सामान्यं लक्षयतीति स्वलक्षणा-व्यक्तिः, दृष्टा स्वलक्षणा यस्य तत्, तच्च तत् सामान्यं च तत्तथ, तत् विषयो यस्य तदिति विग्रह इति कश्चित् । तचिन्त्यम् । चिन्ताबीजन्तु-अनु- मितेर्व्यक्तिविशेषविषयत्वाभावापत्तिः । स्वलक्षणपदस्य स्वयमेवार्थं दर्शयति । तस्येत्यादिना । वह्निविशेषः-वह्नित्वावच्छिन्न मइनसीयवह्निव्यक्तिविशेषः । अपरस्य वीतसंज्ञकस्य-सामान्यतो- दृष्टस्य लक्षणमाह। अदृष्टेत्यादिना । न दृष्टं प्रत्यक्षेण तत् अदृष्टं, अदृष्टं च तत् स्त्रलक्षणं चाऽदृष्टस्वलक्षणं,तस्य सामान्यं यज्जाती- यं, तत् विषयो यस्य साध्यतयाऽनुमानस्य तत् अदृष्टस्वलक्ष्ण- सामान्यविषयम् । तथाचाऽमत्यक्षी्कृतजातीयसाध्यकमित्यर्थः । उदाहरणमाह । यथेन्द्रियविषयामिति । तदेवोपपादयतिं । अन्रर्हति । अत्र-अनुमाने ।