सामग्री पर जाएँ

हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः ५१

विकिस्रोतः तः
← अध्यायः ५० हरिवंशपुराणम्
अध्यायः ५१
वेदव्यासः
अध्यायः ५२ →
ब्रह्मणा भगवन्तं विष्णुं जगतः वर्तमानायाः अवस्थायाः वर्णनं कृत्वा पृथिव्याः भारं उद्धरणाय मन्त्रणम्

एकपञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच
तच्छ्रुत्वा विष्णुगदितं ब्रह्मा लोकपितामहः ।
उवाच परमं वाक्यं हितं सर्वदिवौकसाम् ।। १ ।।
नास्ति किंचिद्भयं विष्णो सुराणामसुरान्तक ।
येषां भवानभयदः कर्णधारो रणे रणे ।। २ ।।
शक्रे जयति देवेशे त्वयि चासुरसूदने ।
धर्मे प्रयतमानानां मानवानां कुतो भयम् ।। ३ ।।
सत्ये धर्मे च निरतान् मानवान् विगतज्वरान् ।
नाकाले धर्मिणो मृत्युः शक्नोति प्रसमीक्षितुम्।। ४ ।।
मानवानां च पतयः पार्थिवाश्च परस्परम् ।
षड्भागमुपभुञ्जाना न भयं कुर्वते मिथः ।। ५ ।।
ते प्रजानां शुभकराः करदैरविगर्हिताः ।
सुकरैर्विप्रयुक्तार्थाः कोशमापूरयन्त्युत ।। ६ ।।
स्फीताञ्जनपदान् सर्वान् पालयन्तः क्षमापराः ।
अतीक्ष्णदण्डांश्चतुरो वर्णाञ्जुगुपुरञ्जसा ।। ७ ।।
नोद्वेजनीया भूतानां सचिवैः साधुपूजिताः ।
चतुरङ्गबलैर्गुप्ताः षड्गुणानुपयुञ्जते ।। ८ ।।
धनुर्वेदपराः सर्वे सर्वे वेदेषु निष्ठिताः ।
यजन्ते च यथाकालं यज्ञैर्विपुलदक्षिणैः ।। ९ ।।
वेदानधीत्य दीक्षाभिर्महर्षीन् ब्रह्मचर्यया ।
श्राद्धैश्च मेध्यैः शतशस्तर्पयन्ति पितामहान् ।। 1.51.१० ।।
नैषामविदितं किंचित्त्रिविधं भुवि दृश्यते ।
वैदिकं लौकिकं चैव धर्मशास्त्रोक्तमेव च ।। ११ ।।
ते परावरदृष्टार्था महर्षिसमतेजसः ।
भूयः कृतयुगं कर्तुमुत्सहन्ते नराधिपाः ।। १२ ।।
तेषामेव प्रभावेण शिवं वर्षति वासवः ।
यथार्थं च ववुर्वाता विरजस्का दिशो दश ।। १३ ।।
निरुत्पाता च वसुधा सुप्रचाराश्च खे ग्रहाः ।
चन्द्रमाश्च सनक्षत्रः सौम्यं चरति योगतः ।। १४ ।।
अनुलोमकरः सूर्यस्त्वयने द्वे चचार ह ।
हव्यैश्च विविधैस्तप्तः शुभगन्धो हुताशनः ।। १५ ।।
एवं सम्यक् प्रवृत्तेषु विवृद्धेषु मखादिषु ।
तर्पयत्सु महीं कृत्स्नां नृणां कालभयं कुतः ।। १६ ।।
तेषां ज्वलितकीर्तीनामन्योन्यवशवर्तिनाम् ।
राज्ञां बलैर्बलवता पीड्यते वसुधातलम् ।। १७ ।।
सेयं भारपरिश्रान्ता पीड्यमाना नराधिपैः ।
पृथिवी समनुप्राप्ता नौरिवासन्नविप्लवा ।। १८ ।।
युगान्तसदृशै रूपैः शैलोच्चलितबन्धना ।
जलोत्पीडाकुला स्वेदं धारयन्ती मुहुर्मुहुः ।। १९ ।।
क्षत्रियाणां वपुर्भिश्च तेजसा च बलेन च ।
नृणां च राष्ट्रैर्विस्तीर्णैः श्राम्यतीव वसुन्धरा ।। 1.51.२० ।।
पुरे पुरे नरपतिः कोटिसंख्यैर्बलैर्वृतः ।
राष्ट्रे राष्ट्रे च बहवो ग्रामाः शतसहस्रशः ।। २१ ।।
भूमिपानां सहस्रैश्च तेषां च बलिनां बलैः ।
ग्रामायुताढ्यै राष्ट्रैश्च भूमिर्निर्विवराकृता ।। २२ ।।
सेयं निरामयं कृत्वा निश्चेष्टा कालमग्रतः ।
प्राप्ता ममालयं विष्णो भवांश्चास्याः परा गतिः ।। २३ ।।
कर्मभूमिर्मनुष्याणां भूमिरेषा व्यथां गता ।
यथा न सीदेत् तत् कार्यं जगत्येषा हि शाश्वती ।। २४ ।।
अस्या हि पीडने दोषो महान् स्यान्मधुसूदन ।
क्रियालोपश्च लोकानां पीडितं च जगद् भवेत् ।।२५ ।।
श्राम्यते व्यक्तमेवेयं पार्थिवौघप्रपीडिता ।
सहजां या क्षमां त्यक्त्वा चलत्वमचला गता ।। २६ ।।
तदस्याः श्रुतवन्तः स्म तच्चापि भवता श्रुतम् ।
भारावतरणार्थं हि मन्त्रयाम सह त्वया ।। २७ ।।
सत्पथे हि स्थिताः सर्वे राजानो राष्ट्रवर्धनाः ।
नराणां च त्रयो वर्णा ब्राह्मणाननुयायिनः ।। २८ ।।
सर्वं सत्यपरं वाक्यं वर्णा धर्मपरास्तथा ।
सर्वे वेदपरा विप्राः सर्वे विप्रपरा नराः ।। २९ ।।
एवं जगति वर्तन्ते मनुष्या धर्मकारणात् ।
यथा धर्मवधो न स्यात् तथा मन्त्रः प्रवर्त्यताम्। 1.51.३० ।।
सतां गतिरियं नान्या धर्मश्चास्याः सुसाधनम् ।
राज्ञां चैव वधः कार्यो धरण्या भारनिर्णये ।। ३१ ।।
तदागच्छ महाभाग सह वै मन्त्रकारणात् ।
व्रजामो मेरुशिखरं पुरस्कृत्य वसुंधराम् ।। ३२ ।।
एतावदुक्त्वा राजेन्द्र ब्रह्मा लोकपितामहः ।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि भारावतरणे एकपञ्चाशत्तमोऽध्यायः ।। ५१ ।।