नातिव्याप्तिः। तादृशपर्वतस्वादिधर्मवच्छिन्नसाध्याव्यापकत्वात्[१]
(१) पक्षेतरत्वे केवलवह्न्यादिरूप-साध्यव्यपकन्वस्य सात्वेऽपि स्वा- धिकरणवृत्तित्वसम्बन्धेन यत्किञ्चित्दर्मात्मक-पर्वतात्वादिविशिष्टवह्न्या- दिरूप-साध्यव्यापकत्वाभावदित्यर्थः । पक्षेतरत्वभाववति पर्वतादौ- पर्र्वतत्वाद्यवच्छिन्नवह्निसत्त्वात् । ननु अनुमानात्प्राक् साध्यज्ञान- स्य साध्यसन्देहस्य वा सत्तवेन कथं पर्वतादौ सध्यज्ञानम् । न च सन्देहस्यापि ज्ञानात्मकतया कचिदनुमानात्प्राक् साध्यसन्देह स्यापि सम्भवेन तत्र वह्न्यादिसन्देहरूप-ज्ञानं विद्यते एवेति वाच्यम् । तथापि साध्यसन्देहेन सन्दिग्धोपाधित्वप्रसङ्गात् । नचेष्टपत्तिः । हेतो सन्दिग्धेपाधिकत्वस्यापि ’अनुमानप्रामण्य- विघटकत्वेन सद्धेतुकानुमानस्यप्यप्रमण्यापत्तेः इतेि चेन्न । पक्षे प्रत्यक्षादिना स्त्याद्ध्यनिश्चये सत्यापि अनुमित्सयाऽनुमितेरभ्युपगमात् । तथा चोक्तम्-प्रत्यक्षपरिकलितमप्यनुमानेन बुभुत्सन्ते तर्क्करसिका’ इति वाचस्पतिमिश्रैः । अत्रापि प्रत्यक्षपदमनुमनाद्युपलक्षकं बो- ध्यम् । अत एव साध्यसन्देहः सिध्याभावो वा पक्षतेतेि पक्षद्वयं वि- दूष्य सिषाधयिषाविरहविशिष्टसिध्यभावः पक्षतेति लक्षणं कृतम् । तथा च । साध्यनिश्चये, यत्किञ्चिद्धर्मपदेन पर्वतत्वादिधर्मोपि ग्रहीतुं शक्यः । तस्याऽज्ञाने सन्देहे व पक्षेतरत्वादार्वा । यत्किश्चि- द्धर्ममात्रस्य विवक्षितत्वेन तस्यापि ग्राह्यत्वात् । तस्य च स्वावच्छिन्न- साधनव्यापकत्वाभावात् ।
इदमत्र बोध्यम्-बाधोन्नीतपक्षकस्थले-‘वन्हिरनुष्णः कृतकत्वा- त्’ इत्यादौ पक्षेतरत्वस्यापि उपाधित्वेनाभ्युपगमेन तत्राव्याप्तिवार- णय-यत्किञ्चद्धमेयदेन बाधोन्नीतपक्षाव्यावर्त्तकधर्मो बोध्यः । तेन तत्र वन्हिरूप-पक्षस्य साध्याभाववत्तया निश्चितत्वेन वन्हेर्बांधो- न्नीतपक्षतया तदितरत्वस्य पक्षव्यावर्तकतया नाऽव्याप्तिरिति । ननु अनुमानात्प्राक् तस्य सन्देहः, निश्चय, ज्ञानाभावो वाऽस्तु, किन्तेन ? सद्धेतुकस्थलीयपक्षे वस्तुतः साध्यस्य सत्त्वेन न पक्षेतरत्वस्य चाऽसत्वे- न पक्षेतरत्वे साध्यव्यापकत्वमेव नास्तीति तत्रातिव्याप्तिनिरासाय कि- मर्थं प्रयासः क्रियते, न हि स्वभावसिद्धयोर्व्याप्यव्यापकयोर्व्याप्यव्या- पकभावः कस्यचिदज्ञानेन नश्येत् । अन्यथा स्वभावसिद्धमारका- त्मकस्य गरलादेः प्राणवियोजकत्वमेव कस्यचिदज्ञानेन न स्यादिति साधु मतमायुष्मतम् , इति चेन्न । न हि मया तयोर्व्याप्यव्यापक-
- ↑ १