पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

27B 3A हेतुमाह--नते । चाक्षुषोऽयं रजतश्रमः स च चक्षुःसंयुक्ते सामान्येन इदम्’ इति दुष्टे च वस्तूनेि युज्यते, नान्यत्र अतस्तत्र वयोगदर्शने उपयोगिनी इत्यर्थः दूषणान्तरमाह-स्मृतमिति । स्मृतं रंजतं प्रत्यक्षतः शुक्तिशकल द्यांदे स्वज्ञानात् रजतस्मृतिरूपात्तस्य विवेचनसामर्यमहिम्नैव भिन्नं विविक्तं भातेतदा स्मृतप्रत्यक्षयोरविवेकः कुतः ? आपतु विवेक एव । तत्र कुतो रजतार्थनः शुक्कावविवेकात्प्रवृत्तिः स्मृतिज्ञानस्येत्यादि पूर्वोक्तविकल्प विवरणमात्रम् । अथ तु स्मृतिः खमहिम्नैव स्खविषयं न विविनक्ति, तत उर्वत्वादिसामान्यदर्शने अन्यत् स्थाणुपुरुषादिकं स्मरतः सद विपर्ययः स्यात्; न चैतत्, “स्थाणुर्वा पुरुषो वा’ इति संशयस्यापि दर्शनात् तत्र च विपर्ययशब्दो विज्ञाग्रहणलक्षणं भ्रमं विवेद न तु परस्य विपर्ययोऽभिमतः, येनासौ संप्रसज्यते । पुरोवर्तिनस्तदाविवेकाङ्गमः, अनेकस्मृतौ तु स्मृतह्याविवेकात् संशय इति यदि मन्यते, तन्न यतः स्थाणुपुरुषयोरपि स्मृतौ कदाचिदन्यतरभ्रमो स त्वत्पक्षे न स्यात् अथ स्मृतं स्वज्ञानान्न विविच्यते, अपितु पुरोवर्तिनि शुक्त्यादौ इदम् ’ इत्यनिर्धारितविशेषे सामान्यरूपेणाध्यक्षे प्रत्यक्षेण दृश्यमाने यद्रन् तादिभ्यो विवेकापादकं विशेषज्ञानं भवति तत इत्युच्यते, तन्न हि असत्यस्मिन्नध्यक्षगते विशेषज्ञाने द्वयोः स्सृतौ सदा संशयः स्यात् । कथमेकाकारो विपर्ययः भवति चासावपि कदाचित् । पक्षः श्रेयान् यदा तु स्मृतिः खार्थविवेचनखभावतया स्मर्यमाणं दृश्याद्विविनकि, स्मृतेश्च विपर्ययो भिन्नोऽभ्युपगम्यते ; तत उभयस्मृतावपि इन्द्रियादि दोषविशेषादविवेककारो विपर्ययो युज्यते तस्मात्स्मृतिः सविषयविवेचन स्खवैव, विपर्ययश्च ततो भिन्न एवेत्ययमेव पक्षः श्रेयान् ” इतश्च स्वविज्ञानादेव स्मृति क्षणात् स्मृतमपि विविच्यते, दृश्यमानस्य विशेष ज्ञानात् , यतो दञ्चितमिदं विभ्रमविवेके यदूर्वतादिसामान्यदर्शनेऽपि स्थाणं पुरुषं वा एकां कोटिं स्मरतः उभयकोटिस्मरणभावात् न संशयः -K 18