सामग्री पर जाएँ

हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०१८

विकिस्रोतः तः
← अध्यायः ०१७ हरिवंशपुराणम्
अध्यायः ०१८
वेदव्यासः
अध्यायः ०१९ →
इन्द्रेण संवर्तकमेघेभ्यः वर्षणं कारयित्वा गोभ्यः गोपेभ्यः च कष्टदानं, श्रीकृष्णेन गोवर्धनधारणं एवं तस्याधः गवां गोपानां च गमनम्

अष्टादशोऽध्यायः

वैशम्पायन उवाच
महे प्रतिहते शक्रः सक्रोधस्त्रिदशेश्वरः ।
संवर्तकं नाम गणं तोयदानामथाब्रवीत् ।। १ ।।
भो बलाहकमातङ्गाः श्रूयतां मम भाषितम् ।
यदि वो मत्प्रियं कार्यं राजभक्तिपुरस्कृतम् ।। २ ।।
एते वृन्दावनगता दामोदरपरायणाः ।
नन्दगोपादयो गोपा विद्विषन्ति ममोत्सवम् ।। ३ ।।
आजीवो यः परस्तेषां गोपत्यं च यतः स्मृतम् ।
ता गावः सप्तरात्रेण पीड्यन्तां वर्षमारुतैः ।। ४ ।।
ऐरावतगतश्चाहं स्वयमेवाम्बु दारुणम् ।
स्रक्ष्यामि वृष्टिं वातं च वज्राशनिसमप्रभम् ।। ५ ।।
भवद्भिश्चण्डवर्षेण चरता मारुतेन च ।
हतास्ताः सव्रजा गावस्त्यक्ष्यन्ति भुवि जीवितम्।। ६ ।।
एवमाज्ञापयामास सर्वाञ्जलधरान् प्रभुः ।
प्रत्याहते वै कृष्णेन शासने पाकशासनः ।। ७ ।।
ततस्ते जलदाः कृष्णा घोरनादा भयावहाः ।
आकाशं छादयामासुः सर्वतः पर्वतोपमाः ।। ८ ।।
विद्युत्सम्पातजननाः शक्रचापविभूषिताः ।
तिमिरावृतमाकाशं चक्रुस्ते जलदास्तदा ।। ९ ।।
गजा इवान्यसंयुक्ताः केचिन्मकरवर्चसः ।
नागा इवान्ये गगने चेरुर्जलदपुङ्गवाः ।। 2.18.१० ।।
तेऽन्योन्यं वपुषा बद्धा नागयूथायुतोपमाः ।
दुर्दिनं विपुलं चक्रुश्छादयन्तो नभस्तलम् ।। ११ ।।
नृहस्तनागहस्ताभ्यां वेणूनां चैव सर्वतः ।
धाराभिस्तुल्यरूपाभिर्ववृषुस्ते बलाहकाः ।। १२ ।।
समुद्रं मेनिरे तं हि खमारूढं नृचक्षुषः ।
दुर्विगाह्यमपर्यन्तमगाधं दुर्दिनं महत् ।।१३ ।।
नैवापतन् वै खगमा दुद्रुवुर्मृगजातयः ।
पर्वताभेषु मेघेषु खे नन्दन्तु समन्ततः । १४ ।।
नष्टसूर्येन्दुसदृशैर्मेघैर्नभसि दारुणैः ।
अतिवृष्टेन लोकस्य विरूपमभवद् वपुः ।। १५ ।।
मेघौघैर्निष्प्रभाकारमदृश्यग्रहतारकम् ।
चन्द्रसूर्यांशुरहितं खं बभूवातिनिष्प्रभम्।। १६ ।।
वारिणा मेघमुक्तेन मुच्यमानेन चासकृत् ।
आबभौ सर्वतस्तत्र भूमिस्तोयमयी यथा ।। १७ ।।
विनेदुर्बर्हिणस्तत्र तोककल्परुताः खगाः ।
विवृद्धिं निम्नगा याताः प्लवगाः सम्प्लवं गताः ।। १ ।।
गर्जितेन च मेघानां पर्जन्यनिनदेन च ।
तर्जितानीव कम्पन्ते तृणानि तरुभिः सह ।। १९ ।।
प्राप्तोऽन्तकालो लोकानां व्यक्तमेकार्णवा मही ।
इति गोपगणा वाक्यं व्याहरन्ति भयार्दिताः ।। 2.18.२० ।।
तेनोत्पाताम्बुवर्षेण गावो विप्रहता भृशम् ।
हम्भारवैः क्रन्दमाना न चेलुः स्तम्भितोपमाः ।। २१ ।।
निष्कम्पसक्थिचरणा निष्प्रयत्नखुराननाः ।
हृष्टरोमार्द्रतनवः क्षामकुक्षिपयोधराः ।। २२ ।।
काश्चित् प्राणाञ्जहुः श्रान्ता निपेतुः काश्चिदातुराः ।
काश्चित्सवत्साः पतिता गावः शीकरवेजिताः ।। २३ ।।
काश्चिदाक्रम्य क्रोडेन वत्सांस्तिष्ठन्ति मातरः ।
विमुखाः श्रान्तसक्थ्यश्च निराहाराः कृशोदराः ।
पेतुरार्ता वेपमाना गावो वर्षपराजिताः ।। २४ ।।
वत्साश्चोन्मुखका बाला दामोदरमुखाः स्थिताः ।
त्राहीति वदनैर्दीनैः कृष्णमूचुरिवार्दिताः ।। २५ ।।
गवां तत् कदनं दृष्ट्वा दुर्दिनागमजं महत् ।
गोपांश्चासन्ननिधनान् कृष्णः कोपं समादधे ।। २६ ।।
स चिन्तयित्वा संरब्धो दृष्टो योगो मयेति च ।
आत्मानमात्मना वाक्यमिदमूचे प्रियंवदः ।। २७ ।।
अद्याहमिममुत्पाट्य सकाननवनं गिरिम् ।
कल्पयेयं गवां स्थानं वर्षत्राणाय दुर्धरम् ।। २८ ।।
अयं धृतो मया शैलः पृथ्वीगृहनिभोपमः ।
त्रास्यते सव्रजा गा वै मद्वश्यश्च भविष्यति ।। २९ ।।
एवं स चिन्तयित्वा तु कृष्णः सत्यपराक्रमः ।
बाह्वोर्बलं दर्शयिष्यन् समीपं तं महीधरम् ।
दोर्भ्यामुत्पाटयामास कृष्णो गिरिरिवापरः ।। 2.18.३० ।।
स धृतः संगतो मेघैर्गिरिः सव्येन पाणिना ।
गृहभावं गतस्तत्र गृहाकारेण वर्चसा ।। ३१ ।।
भूमेरुत्पाट्यमानस्य तस्य शैलस्य सानुषु ।
शिलाः प्रशिथिलाश्चेलुर्विनिष्पेतुश्च पादपाः ।। ३२ ।।
शिखरैर्घूर्णमानैश्च सीदमानैश्च पादपैः ।
विधूतैश्चोच्छ्रितैः शृङ्गैरगमः खगमोऽभवत् ।। ३३ ।।
चलत्प्रस्रवणैः पार्श्वैर्मेघोघैरेकतां गतैः ।
भिद्यमानाश्मनिचयश्चचाल धरणीधरः ।। ३४ ।।
न मेघानां प्रवृष्टानां न शैलस्याश्मवर्षिणः ।
विविदुस्ते जना रूपं वायोस्तस्य च गर्जतः ।। ३५ ।।
मेघैः सशैलसंस्थानैर्नीलैः प्रस्रवणार्पितैः ।
मिश्रीकृत इवाभाति गिरिरुद्दामबर्हवान् ।।३६ ।।
आप्लुतोऽयं गिरिः पक्षैरिति विद्याधरोरगाः ।
गन्धर्वाप्सरसश्चैव वाचो मुञ्चन्ति सर्वशः ।।३७।।
सहस्ततलविन्यस्तो मुक्तमूलः क्षितेस्तलात्।
रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ।।३८ ।।
कानिचिच्छिथिलानीव संच्छिन्नार्द्धानि कानिचित्।
गिरेर्मेघप्रविष्टानि तस्य शृङ्गाणि चाभवन् ।।३९ ।।
गिरिणा कम्पमानेन कम्पितानां तु शाखिनाम् ।
पुष्पमुच्चावचं भूमौ व्यशीर्यत समन्ततः ।। 2.18.४०।।
निःसृताः पृथुमूर्धानः स्वस्तिकार्धविभूषिताः ।
द्विजिह्वपततः क्रुद्धाः खेचराः खे समन्ततः ।। ४१ ।।
आर्तिं जग्मुः खगगणा वर्षेण च भयेन च ।
उत्पत्त्योत्पस्य गगनात् पुनः पेतुरवाङ्मुखाः ।।४२ ।।
रेसुरारोषिताः सिंहाः सजला इव तोयदाः ।
गर्गरा इव मथ्यन्तो नेदुः शार्दूलपुङ्गवाः ।। ४३ ।।
विषमैश्च समीभूतैः समैश्चात्यन्तदुर्गमैः ।
व्यावृत्तदेहः च गिरिरन्य एवोपलक्ष्यते ।। ४४ ।।
अतिवृष्टस्य तैर्मेघैस्तस्य रूपं बभूव ह ।
स्तम्भितस्येव रुद्रेण त्रिपुरस्य विहायसि ।। ४५ ।।
बाहुदण्डेन कृष्णस्य विधृतं सुमहत्तदा ।
नीलाभ्रपटलच्छन्नं तद्गिरिच्छत्रमाबभौ ।। ४६ ।।
स्वप्नायमानो जलदैर्निमीलितगुहामुखः ।
बाहूपधाने कृष्णस्य प्रसुप्त इव खे गिरिः ।। ४७ ।।
निर्विहङ्गरुतैर्वृक्षैर्निर्मयूररुतैर्वनैः ।
निरालम्ब इवाभाति गिरिः स्वशिखरैर्वृतः ।। ४८ ।।
पर्यस्तैर्घूर्णमानैश्च प्रचलद्भिश्च सानुभिः ।
सज्वराणीव शैलस्य वनानि शिखराणि च ।। ४९ ।।
उत्तमाङ्गगतास्तस्य मेघाः पवनवाहनाः ।
त्वर्यमाणा महेन्द्रेण तोयं मुमुचुरक्षयम् ।। 2.18.५० ।।
स लम्बमानः कृष्णस्य भुजाग्रे सघनो गिरिः ।
चक्रारूढ इवाभाति देशो नृपतिपीडितः ।। ५१ ।।
स मेघनिचयस्तस्थौ गिरिं तं परिवार्य ह ।
पुरं पुरस्कृत्य यथा स्फीतो जनपदो महान् ।। ५२ ।।
निवेश्य तं करे शैलं तोलयित्वा च सस्मितम् ।
प्रोवाच गोप्ता गोपानां प्रजापतिरिव स्थितः ।। ५३ ।।
एतद् दैवैरसम्भाव्यं दिव्येन विधिना मया ।
कृतं गिरिगृहं गोपा निर्वातं शरणं गवाम् ।। ५४ ।।
क्षिप्रं विशन्तु यूथानि गवामिह हि शान्तये ।
निर्वातेषु च देशेषु निवसन्तु यथासुखम् ।। ५५ ।।
यथाश्रेष्ठं यथायूथं यथासारं यथासुखम् ।
विभज्यतामयं देशः कृतं वर्षनिवारणम् ।। ५६ ।।
शैलोत्पाटनभूरेषा महती निर्मिता मया ।
पञ्चक्रोशप्रमाणेन क्रोशैकविस्तरो महान् ।
त्रैलोक्यमप्युत्सहते रक्षितुं किं पुनर्व्रजम् ।। ५७ ।।
ततः किलकिलाशब्दो गवां हम्भारवैः सह ।
गोपानां तुमुलो जज्ञे मेघनादश्च बाह्यतः ।।५८ ।।
प्राविशन्त ततो गावो गोपैर्यूथप्रकल्पिताः ।
तस्य शैलस्य विपुलं प्रदरं गह्वरोदरम् ।। ५९ ।।
कृष्णोऽपि मूले शैलस्य शैलस्तम्भ इवोच्छ्रितः।
दधारैकेन हस्तेन शैलं प्रियमिवातिथिम् ।। 2.18.६० ।।
ततो व्रजस्य भाण्डानि युक्तानि शकटानि च ।
विविशुर्वर्षभीतास्ते तद् गृहं गिरिनिर्मितम् ।। ६१ ।।
अतिदैवं तु कृष्णस्य दृष्ट्वा तत् कर्म वज्रभृत् ।
मिथ्याप्रतिज्ञो जलदान् वारयामास वै विभुः ।। ६२।।
सप्तरात्रे तु निर्वृत्ते धरण्यां विगतोत्सवः ।
जगाम संवृतो मेघैर्वृत्रहा स्वर्गमुत्तमम् ।। ६३ ।।
निवृत्ते सप्तरात्रं तु निष्प्रयत्ने शतक्रतौ ।
गताभ्रे विमले व्योम्नि दिवसे दीप्तभास्करे ।। ६४ ।।
गावस्तेनैव मार्गेण परिजग्मुर्यथागतम् ।
स्वं च स्थानं ततो घोषः प्रत्ययात् पुनरेव सः ।। ६५ ।।
कृष्णोऽपि तं गिरिश्रेष्ठं स्वस्थाने स्थावरात्मवान् ।
प्रीतो निवेशयामास शिवाय वरदो विभुः ।। ६६ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गोवर्धनधारणेऽष्टादशोऽध्यायः ।। १८ ।।