हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०१०
← अध्यायः ००९ | हरिवंशपुराणम् अध्यायः ०१० वेदव्यासः |
अध्यायः ०११ → |
वर्षाऋतुवर्णनम् |
दशमोऽध्यायः
वैशम्पायन उवाच
तौ तु वृन्दावनं प्राप्तौ वसुदेवसुतावुभौ ।
चेरतुर्वत्सयूथानि चारयन्तौ सुरूपिणौ ।। १ ।।
पूर्णस्तु घर्मसमयस्तयोस्तत्र वने सुखम्।
क्रीडतोः सह गोपालैर्यमुनां चावगाहतोः ।। २ ।।
ततः प्रावृडनुप्राप्ता मनसः कामदीपिनी ।
प्रववर्षुर्महामेघाः शक्रचापाङ्कितोदराः ।। ३ ।।
बभूवादर्शनः सूर्यो भूमिश्चादर्शना तृणैः ।
पतता मेघवातेन नवतोयानुकर्षिणा ।। ४ ।।
सम्मार्जिततला भूमिर्यौवनस्थेव लक्ष्यते ।। ५ ।।
नववर्षावसिक्तानि शक्रगोपकुलानि च ।
नष्टदावाग्निधूमानि वनानि प्रचकाशिरे ।। ६ ।।
नृत्यव्यापारकालश्च मयूराणां कलापिनाम्।
मदरक्ताः प्रवृत्ताश्च केकाः पटुरवास्तथा ।। ७ ।।
नवप्रावृषि कान्तानां षट्पदाहारदायिनाम् ।
यौवनस्थकदम्बानां नवाभ्रैर्भ्राजते वपुः ।। ८ ।।
हासितं कुटजैर्वृक्षैः कदम्बैर्वासितं वनम् ।
नाशितं जलदैरुष्णं तोषिता वसुधा जलैः ।। ९ ।।
संतप्ता भास्करकरैरभितप्ता दवाग्निभिः ।
जलैर्बलाहकोत्सृष्टैरुच्छ्वसन्तीव पर्वताः ।। 2.10.१० ।।
महावातसमुद्भूतं महामेघगणार्पितम् ।
महीमहाराजपुरैस्तुल्यमापद्यते नभः ।। ११ ।।
क्वचित्कदम्बहासाख्यं शिलीन्ध्राभरणं क्वचित्।
सम्प्रदीप्तमिवाभाति फुल्लनीपद्रुमं वनम् ।। १२ ।।
ऐन्द्रेण पयसा सिक्तं मारुतेन च विस्मृतम् ।
पार्थिवं गन्धमाघ्राय लोकः क्षुभितमानसः ।। १३ ।।
दृप्तसारङ्गनादेन दर्दुरव्याहृतेन च ।
नवैश्च शिखिविक्रुष्टैरवकीर्णा वसुन्धरा ।। १४ ।।
भ्रमत्तूर्णमहावर्ता वर्षप्राप्तमहारयाः ।
हरन्त्यस्तीरजान् वृक्षान्विस्तारं यान्ति निम्नगाः।।१५।।
संततासारनिर्यत्नाः क्लिन्नयत्नोत्तरच्छदाः ।
न त्यजन्ति नगाग्राणि श्रान्ता इव पतत्त्रिणः ।। १६ ।।
तोयगम्भीरलम्बेषु स्रवत्सु च नदत्सु च ।
उदरेषु नवाभ्राणां मज्जतीव दिवाकरः ।। १७ ।।
महीरुहैरुत्पतितैः सलिलोत्पीडसंकुला ।
अन्विष्यमार्गा वसुधा भाति शाद्वलमालिनी ।। १८ ।।
वज्रेणेवावरुग्णानां नगानां नगशालिनाम् ।
स्रोतोभिः परिकृत्तानि पतन्ति शिखराण्यधः ।। १९ ।।
पतता मेघवर्षेण यथा निम्नानुसारिणा ।
पल्वलोत्कीर्णमुक्तेन पूर्यन्ते वनराजयः ।। 2.10.२०।।
हस्तोच्छ्रितमुखा वन्या मेघनादानुसारिणः ।
भ्रान्तातिवृष्ट्या मातङ्गा गां गता इव तोयदाः।। २१।।
प्रावृट्प्रवृत्तिं संदृश्य दृष्ट्वा चाम्बुधरान् घनान्।
रौहिणेयो मिथः काले कृष्णं वचनमब्रवीत् ।। २२ ।।
पश्य कृष्ण घनान् कृष्णान् बलाकोज्ज्वलभूषणान् ।
गगने तव गात्रस्य वर्णचोरान् समुच्छ्रितान् ।। २३ ।।
तव निद्राकरः कालस्तव गात्रोपमं नभः ।
त्वमिवाज्ञातवसतिं चन्द्रो वसति वार्षिकीम् ।। २४ ।।
एतन्नीलाम्बुदश्यामं नीलोत्पदलप्रभम् ।
सम्प्राप्ते दुर्दिने काले दुर्दिनं भाति वै नभः ।। २५ ।।
पश्य कृष्ण जलोदग्रैः कृष्णैरुद्ग्रथितैर्घनैः ।
गोवर्धनो यथा रम्यो भाति गोवर्धनो गिरिः ।। २६।।
पतितेनाम्भसा ह्येते समन्तान्मददर्पिताः ।
भ्राजन्ते कृष्णसारङ्गाः काननेषु मुदान्विताः ।।२७ ।।
एतान्यम्बुप्रहृष्टानि हरितानि मृदूनि च ।
तृणानि शतपत्राक्ष पत्रैर्गूहन्ति मेदिनीम् ।। २८ ।।
क्षरज्जलानां शैलानां वनानां जलदागमे ।
ससस्यानां च सीमानां न लक्ष्मीर्व्यतिरिच्यते ।।२९।।
शीघ्रवातसमुद्भूताः प्रोषितौत्सुक्यकारिणः ।
दामोदरोद्दामरवाः प्रागल्भ्यं यान्ति तोयदाः ।। 2.10.३० ।।
हरे हर्यश्वचापेन त्रिवर्णेन त्रिविक्रम ।
विबाणज्येन रचितं तवेदं मध्यमं पदम् ।। ३१ ।।
नभस्येष नभश्चक्षुर्न भात्येव चरन्नभः ।
मेघैः शीतातपकरो विरश्मिरिव रश्मिवान् ।। ३२ ।।
द्यावापृथिव्योः संसर्गः सततं विततैः कृतः ।
अव्यवच्छिन्नधारौघैः समुद्रौघसमैर्घनैः ।। ३३ ।।
नीपार्जुनकदम्बानां पृथिव्यां चातिवृष्टिभिः ।
गन्धैः कोलाहला वान्ति वाता मदनदीपनाः ।। ३४ ।।
सम्प्रवृत्तमहावर्षं लम्बमानमहाम्बुदम् ।
भात्यगाधमपर्यन्तं ससागरमिवाम्बरम् ।। ३५ ।।
धारानिर्मलनाराचं विद्युत्कवचवर्मिणम् ।
शक्रचापायुधधरं युद्धसज्जमिवाम्बरम् ।। ३६ ।।
शैलानां च वनानां च द्रुमाणां च वरानन ।
प्रतिच्छन्नानि भासन्ते शिखराणि घनैर्घनैः ।। ३७ ।।
गजानीकैरिवाकीर्णं सलिलोद्गारिभिर्घनैः ।
वर्णसारूप्यतां याति गगनं सागरस्य च ।। ३८ ।।
समुद्रोद्धूतजनिता लोलशाद्वलकम्पिनः ।
शीताः सपृषतोद्दामाः कर्कशा वान्ति मारुताः ।। ३९ ।।
निशासु सुप्तचन्द्रासु मुक्ततोयासु तोयदैः ।
मग्नसूर्यस्य नभसो न विभान्ति दिशो दश ।। 2.10.४० ।।
चेतनं पुष्करं कोशैः क्षुधाध्मातैः समन्ततः ।
न घृणीनां न रम्याणां विवेकं यान्ति कृष्टयः ।। ४१ ।।
घर्मदोषपरित्यक्तं मेघतोयविभूषितम् ।
पश्य वृन्दावनं कृष्ण वनं चैत्ररथं यथा ।। ४२ ।।
एवं प्रावृड्गुणान् सर्वाञ्छ्रीमान् कृष्णस्य पूर्वजः ।
कथयन्नेव बलवान् व्रजमेव जगाम ह ।। ४३ ।।
अन्योन्यं रममाणौ तु कृष्णसंकर्षणावुभौ ।
तत्कालज्ञातिभिः सार्द्धं चेरतुस्तद् वनं महत् ।। ४४ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि प्रावृड्वर्णने दशमोऽध्यायः ।। १० ।।