व्यापकम् । शङ्कित समारोपितोपधिनिराकारण न वस्तु- स्वभावप्रतिबद्धं व्याप्यम् । येन च प्रतिबद्धं, तत् व्यापकम् ।
च सद्धेताघसम्भवे कथं तद्विरहग्रहः? इत्याशङ्क्याऽऽह । शङ्कितेति। पक्षेतरत्वादिरित्यर्थः । स्वभावप्रतिबद्धमिति । स्वाभाविक-- साध्यसामानाधिकरण्यरूप-व्याप्त्याश्रय इत्यर्थः । व्यभिचारिणि तु साध्यसामानाधिकरण्यस्यौपाधिकत्वान्नातिव्याप्तिरिति भावः । येन च प्रतिबद्धमिति । व्याप्तिनिरूपकत्वं व्यापकत्व- | मित्यर्थः । न च 'प्रकृतसाध्यव्यापकत्वे सति प्रकृतसाधना- व्यापकत्वमुपाधित्वं न सम्भवति, ‘स श्यामो मित्रातनयत्वात्’ इत्यत्र साधनावच्छिन्नसाध्यव्यापके शाकपाकजत्वादौ, 'वायुः प्रत्यक्षो मूर्त्तत्वात्’ इत्यत्र पक्षधर्मावच्छिन्नसाध्यव्यापके उद्भूतरूपादौ चा- ऽव्यतेः, तयोः काकादिसधारणश्यामत्वाऽऽत्मादिसधारण- प्रत्यक्षत्वयोरव्यापकत्वात्, [१]पक्षेतरत्वेऽतिव्याप्तेश्चेति वाच्यम् । यत्किञ्चिद्धर्मावच्छिन्नसाध्यव्यापकत्वे सति यत्किञ्चिद्धर्मावच्छिन्न- साधनाव्यापकत्वस्य विवक्षितत्वात् । यत्किञ्चिद्धर्मावच्छिन्नत्वं च- सामानाधिकरण्यसम्बन्धेन तद्विशिष्टत्वम् । ‘धूमवान् वन्हे’ इत्यादौ च तादृशो धर्मो द्रव्यत्वादिकमेव, तद्धर्मावच्छिन्नसाध्यव्यापकत्वादा- र्द्रेन्धनादौ लक्षणसमन्वयः । 'स ३यामः’ ’वायुः प्रत्यक्षः’ इत्यत्र च तादृशो धर्मः-साधनं-मित्रातनयत्वं पक्षधर्मीबहिर्द्रव्यत्वं (आत्म- भिन्न द्रव्यत्वं) च, तदवच्छिन्नसाध्यव्यापकत्वात् शाकपाकजत्वो- द्भूतरूपयोर्लक्षणसम्भवान्नाव्याप्तिः। अत एव [२]पक्षेतरत्वादावपि
१ 'पर्वतो वह्निमान् धूमवत्वात्’ इत्यादिसद्धेतुस्थल इति शेषः ।
२ उपधिलक्षणघटकीमृत-- साध्यांशे साधनांशे च यत्किञ्चिद्धर्मावच्छिन्नत्वस्य निवेशादेवेत्यर्थः ।