तद्भयस्वादेरवधिनिरूप्यत्वेन सावधित्वधीसम्भवात् ।
केचित्तु-"प[१]रापरसङ्ख्ययैव तद्व्यवहारः,यत्संख्यासमाना- विकरणात्यन्ताभावप्रतियोगित्वे सति यदत्यन्ताभावसमानाधेिक- रणवं तसंख्यापेक्षया परत्वम् । यत्समानाधिकरणात्यन्ताभाव- प्रतियोगित्वे सति यदत्यन्ताभावव्यपकात्यन्ताभवाप्रतियोगित्वं तदपेक्षयाऽपरत्वम्" इत्याहुः ।
यत्तु-‘परत्वापरत्वयोरेकवृत्तित्वेन प्रतीतेर्न संयोगादिना- ऽन्यथासिद्धेः संयोगस्य व्यासज्य वृत्तेः । संयोगभेदापरिगणने परापरव्यवहारानुपपत्तेश्च'इति, तन्न । "दण्डीपुरुषो न पुरुषी दण्ड" इत्यदिव्यवहारवदत्राऽपि व्यवहारोपपत्तेः । परस्पर- सापेक्षस्वस्योभयत्राऽपि तुल्यत्वाञ्च । तव मतेपि प्रचुराप्रचुरसंयुक्त संयोगापेक्षाबुद्धेर्वेर्वेन द्वितीयदोषस्योभयसमधेयवत् । अपेक्षा- बुद्धिविशेषाविषयत्वस्य विवक्षितत्वात्सामान्यतो ऽवगमाञ्च ।
एवं यदपेक्षया मेरुसन्निहितत्वव्यवहितत्ववे च तस्योत्तरवद- क्षिणत्वे ।
अधस्वं च-गुरुस्वासमवायिकारणकक्रियानाश्रयत्वे सति तादृशक्रियाजन्यसंयोगाश्रयत्वम् । वृक्षसंलग्नतादृशशाखायामति- व्यप्तिवारणाय सत्यन्तम् । न च संयोग तादृशक्रियाजन्यवमधः संयोगत्वेनैव ग्राह्यम्, इत्यन्योन्याश्रय इति वाच्यम् । संयोगत्वेन क्रियाजन्यत्वग्रह क्रियायां च क्रियात्ववन्तरजात्यच्छेदेन गुरु्त्वा समवायिकारणकत्वग्रहे विशिष्टवैशिष्ट्यधीसम्भवात् ।
एवमदृष्टवदात्मसंयोगजन्याग्निक्रियानाश्रयत्वे सति तादृशाक्रिया जन्यसंयोगाश्रयत्वमूर्द्धत्वम् । वायुक्रियाजन्यसंयोगाश्रयतिर्यगादावति- तिव्याप्तिवारणायाऽग्निपदम् । आभिघातजाग्निक्रियामादाय तत्रैवाऽति व्याप्तिरतोऽदृष्टवदात्मसंयोगेति । यद्यप्यदृष्टवदात्मसंयोगस्य क्रिया
(१) अधिकन्यूनसङ्ख्ययैव ।
- ↑ १