पृष्ठम्:नवरात्रप्रदीपः.djvu/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१
नवमीनिर्णयः ।

पुनः कानिचिद्वाक्यानि लिख्यन्ते । तत्र तावद्युग्मवाक्यं "वसुरन्ध्रयोः" इति । पाद्मेऽपि--

  अष्टम्या नवमी विद्धा नवम्या चाष्टमी युता ।
  अर्द्धनारीश्वरप्राया उमामाहेश्वरी तिथिः ॥ इति ।

भविष्यपुराणेऽपि--

  नवम्या सह कार्या स्यादष्टमी नवमी तथा ।। इति ।
दशमीयुक्ता च निषेधति स्कन्दपुराणम्--

  न कार्या नवमी तात ! दशम्या तु कदाचन । इति ।
विधिनिषेधावुभावपि ब्रह्मवैवर्त्ते--
<poem>  अष्टम्या नवमी विद्धा कर्त्तव्या । फलकाङ्क्षिभिः ।
  न कुर्यान्नवमीं तात ! दशम्या तु कदाचन ॥ इति ।

 तदेवमेतैर्वाक्यैरष्टमीविद्धैव सामान्यतो नवमी ग्राह्येति सिद्धम् । विशेषतोऽपि देवीपुराणेऽष्टमीविद्धैव विहिता--

  अश्वयुक्शुक्लनवमी त्वष्टमी मूलसंयुता ।
  सा महानवमी तस्यां जगन्मातरमर्चयेत् ॥

 अत एव माधवाचार्यैष्टमीविद्धैव नवमी ग्राह्येति प्रतिपाद्य सेयं नवमी भविष्यत्पुराणोक्तदुर्गाव्रतादौ द्रष्ट-