पृष्ठम्:नवरात्रप्रदीपः.djvu/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७
अष्टमीनिर्णयः

  एताश्चतस्रः प्रथमेऽह्नि कुर्या-
   द्वैशाखमासस्य च या तृतीया ।।
  सप्तम्यामुदितः सूर्यो अष्टम्यस्तमितो यदि ।
  मूलऋक्षसमायुक्ता पूजनीया प्रयत्नतः ॥

और्वोपि--

  महाष्टम्यां भगवती भद्रायामपि पूजिता।
  ददाति चायुरारोग्यं यतो भद्रस्वरूपिणी ॥
  विष्टिं त्यक्त्वा महाष्टम्या मम पूजां करोति यः ।
  तस्य पूजां न गृह्णामि तेनाहमवमानिता ॥

भविष्योत्तरेऽपि--

  अहं भद्रा च भद्राऽहं नावयोरन्तरं क्वचित् ।
  एवं सिद्धिं प्रदास्यामि भद्रायामर्चिताऽप्यहम् ॥
  भद्रायां भद्रकाल्याश्च मध्ये स्यादर्चनक्रिया ।
  तस्माद्वै सप्तमीविद्धा कार्या दुर्गाष्टमी बुधैः ॥

 इत्यादिविशेषवाक्यैर्युग्मादिसामान्यवचनबाधान्महाष्टमी सप्तमीविद्धैव ग्राह्येति । एवं वचनविरोधेन भोजराजादिभिर्विश्वरूपादीनां विप्रतिपत्तावित्थं व्यवस्था । यत्र पूर्वदिने षड्दण्डा सप्तमी, उपरिष्टाच्चाऽष्टमी ।