117 सरमेव करोतीति सिद्धं हस्तिज्ञानसंततेरपि तत्वज्ञाननिमित्तत्वम् । ननु इस्तिधर्मविलक्षणधर्मज्ञानात् तत्वज्ञानं भवति ; अतस्तदेव तस्य निमित्तम् । सत्यम् तदेव तु तेन तेन विशेषेण पुनः पुनर्हस्तिनं निपुणतरमवलोक यतो भवति ; न तु सकृत् तं ज्ञात्वोपेक्ष्य विषयान्तरसंचारिण इत्युक्तम् । तेन न विलक्षणधर्मज्ञानं हस्तिज्ञानसंततेरवान्तरव्यापारोऽपि हेतुत्वं व्याहन्ति, सर्वकारकाणामहेतुत्वप्रसङ्गात् ; तदुक्तम् —« स्वव्यापारव्यवायो हि सर्वस्मि नेव कारके ” इति । तस्मात् सर्वमनाकुलम् । अत्रैवोदाहरणान्तरमाह एवमिति ; एकत्वादिसंख्याबुद्धयः उपायाः यासामिति विग्रहः । विंशत्यादि- बुद्धीनां च बलवच्वमेकत्वादिसंख्यावुजीनामवच्छेदकत्वमभिभूय द्रव्यावच्छेद कत्वेन स्वव्यवहारप्रवतेरुत्वात् द्रष्टव्यम् । यद्यवच्छेदकत्वं नाम संख्यायाः स्वरूपं तदभावे महासंख्यायामवान्तरसंख्या स्वरूपविरहात मिथ्यैव ; तदुक्तम् –“ पूर्वं पूर्वं मिथ्या " इति । एवं स्थिते संप्रति प्रसङ्गात् चोद्यन्तरमपि निरस्यति--एवं चेति । एवमित्यनन्तरोक्तं हस्तिवनस्पत्यादिन्यायं परामृशति । यदेके वर्णयन्ति तद पास्तामिति वक्ष्यमाणेनान्वयः । यद्वर्णयन्ति तदाह--वयमेवेति । कथमि त्याह—नाभेद इति । कुत इत्याह-भेदोपाया इति ; न हि प्रमात्रावि भेदमन्तरेणाभेदस्य प्रतिपत्तिरस्तीत्यर्थः । तत्र को दोष इत्याह-तत्रेति । अद्वैतं स्वप्रतिपत्तये प्रमात्रादिद्वैतमाक्षिपति ; न च वैताद्वैते संभवतः ; अतः परस्परं व्याघात इत्यर्थः । कथं पुनरेतदपास्तमित्याह--यत इति । हेतु माह--मिथ्येति । अत्र च हस्तिज्ञानान्येवोदाहरणानि । कथमत्यन्तासवें भेद स्योपायत्वमिति चेदत आह-- व्यावहारिकमिति । एवं प्रत्यक्षादिविरोचे शब्दस्य बलवत्वमिति स्थितम् । इतः समाप्तौ । यदपरमुक्तं इष्टव्यभिचारित्वाच्छब्दस्येति तदूषयति---व्यभिचा- रेति । शब्दस्य वयमदुष्टस्यापि दुष्टतरोच्चार्यत्वमेव दोषःदोषाणां कार्य विपर्ययकारिणां वैचित्र्यादिति भावः । अथादुष्टहेतुजन्यस्य प्रत्यक्षस्या- व्यभिचारित्वमुच्यते, तच्छब्दस्यापि समानमित्याह--इतरयोरिति ।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४५३
दिखावट