कौशिकसूत्रम्/अध्यायः ०२

विकिस्रोतः तः

10
पूर्वस्य मेधाजननानि १
शुकसारिकृशानां जिह्वा बध्नाति २
आशयति ३
औदुम्बरपलाशकर्कन्धूनामादधाति ४
आवपति ५
भक्षयति ६
उपाध्यायाय भैक्षं प्रयच्छति ७
सुप्तस्य कर्णमनुमन्त्रयते ८
उपसीदञ्जपति ९
धानाः सर्पिर्मिश्राः सर्वहुताः १०
तिलमिश्रा हुत्वा प्राश्नाति ११
पुरस्तादग्नेः कल्माषं दण्डं निहत्य पश्चादग्नेः कृष्णाजिने धाना अनुमन्त्रयते १२
सूक्तस्य पारं गत्वा प्रयच्छति १३
सकृज्जुहोति १४
दण्डधानाजिनं ददाति १५
अहं रुद्रेभिरिति शुक्लपुष्पहरितपुष्पे किंस्त्यनाभिपिप्पल्यौ जातरूपशकलेन प्राक्स्तनग्रहात्प्राशयति १६
प्रथमप्रवदस्य मातुरुपस्थे तालुनि संपातानानयति १७
दधिमध्वाशयति १८
उपनीतं वाचयति वार्षशतिकं कर्म १९
त्वं नो मेधे द्यौश्च म इति भक्षयति २०
आदित्यमुपतिष्ठते २१
यदग्ने तपसेत्याग्रहाण्यां भक्षयति २२
अग्निमुपतिष्ठते २३
प्रातरग्निं गिरावरगराटेषु दिवस्पृथिव्या इति संहाय मुखं विमार्ष्टि २४

१०

11
पूर्वस्य ब्रह्मचारिसांपदानि १
औदुम्बर्यादयः २
ब्रह्मचार्यावसथादुपस्तरणान्यादधाति ३
पिपीलिकोद्वापे मेदोमधुश्यामाकेषीकतूलान्याज्यं जुहोति ४
आज्यशेषे पिपीलिकोद्वापानोप्य ग्राममेत्य सर्वहुतान् ५
ब्रह्मचारिभ्योऽन्नं धानास्तिलमिश्राः प्रयच्छति ६
एतानि ग्रामसांपदानि ७
विकार स्थूणामूलावतक्षणानि सभानामुपस्तरणानि ८
ग्रामीणेभ्योऽन्नम् ९
सुरां सुरापेभ्यः १०
औदुम्बर्यादीनि भक्षणान्तानि सर्वसांपदानि ११
त्रिर्ज्योतिः कुरुते १२
उपतिष्ठते १३
सव्यात्पाणिहृदयाल्लोहितं रसमिश्रमश्नाति १४
पृश्निमन्थः १५
जिह्वाया उत्साद्यमक्ष्योः परिस्तरणमस्तृहणं हृदयं दूर्श उपनह्य तिस्रो रात्रीः पल्पूलने वासयति १६
चूर्णानि करोति १७
मैश्रधान्ये मन्थ ओप्य दधि मधुमिश्रमश्नाति १८
अस्मिन्वसु यदाबध्नन्नव प्राणानिति युग्मकृष्णलं वासितं बध्नाति १९
सारूपवत्सं पुरुषगात्रं द्वादशरात्रं संपातवन्तं कृत्वानभिमुखमश्नाति २० २
११

12
कथं मह इति मादानकशृतं क्षीरौदनमश्नाति १
चमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्छयित्वा मध्वासिच्याशयति २
पृथिव्यै श्रोत्रायेति जुहोति ३
वत्सो विराज इति मन्थान्तानि ४
सहृदयं तदू षु सं जानीध्वमेह यातु सं वः पृच्यन्तां सं वो मनांसि संज्ञानं न इति सांमनस्यानि ५
उदकुलिजं संपातवन्तं ग्रामं परिहृत्य मध्ये निनयति ६
एवं सुराकुलिजम् ७
त्रिहायण्या वत्सतर्याः शुक्तानि पिशितान्याशयति ८
भक्तं सुरां प्रपां संपातवत्करोति ९
पूर्वस्य ममाग्ने वर्च इति वर्चस्यानि १०
औदुम्बर्यादीनि त्रीणि ११
कुमार्या दक्षिणमूरुमभिमन्त्रयते १२
वपां जुहोति १३
अग्निमुपतिष्ठते १४
प्रातरग्निं गिरावरगराटेषु दिवस्पृथिव्या इति दधिमध्वाशयति १५
कीलालमिश्रं क्षत्रियं कीलालमितरान् १६

१२

13
हस्तिवर्चसमिति हस्तिनम् १
हास्तिदन्तं बध्नाति २
लोमानि जतुना संदिह्य जातरूपेणापिधाप्य ३
सिंहे व्याघ्रे यशो हविरिति स्नातकसिंहव्याघ्रबस्तकृष्णवृषभराज्ञां नाभिलोमानि ४
दशानां शान्तवृक्षाणां शकलानि ५
एतयोः प्रातरग्निं गिरावरगराटेषु दिवस्पृथिव्या इति सप्त मर्माणि स्थालीपाके पृक्तान्यश्नाति ६
अकुशलं यो ब्राह्मणो लोहितमश्नीयादिति गार्ग्यः ७
उक्तो लोममणिः ८
सर्वैराप्लावयति ९
अवसिञ्चति १०
चतुरङ्गुलं तृणं रजोहरणं बिन्दुनाभिश्चोत्योपमथ्य ११
शुनि किलासमजे पलितं तृणे ज्वरो योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तस्मिन्राजयक्ष्म इति दक्षिणा तृणं निरस्यति गन्धप्रवादाभिरलंकुरुते १२ ४
१३

14
पूर्वस्य हस्तित्रसनानि १
रथचक्रेण संपातवता प्रतिप्रवर्तयति २
यानेनाभियाति ३
वादित्रैः ४
दृतिवस्त्योरोप्य शर्कराः ५
तोत्त्रेण नग्नप्रच्छन्नः ६
विद्मा शरस्य मा नो विदन्नदारसृत्स्वस्तिदा अव मन्युर्निर्हस्तः परि वर्त्मान्यभिभूरिन्द्रो जयात्यभि त्वेन्द्रेति सांयामिकाणि ७
आज्यसक्तूञ्जुहोति ८
धनुरिध्मे धनुःसमिधमादधाति ९
एवमिष्विध्मे १०
धनुः संपातवद्विमृज्य प्रयच्छति ११
प्रथमस्येषुपर्ययणानि १२
द्रुघ्न्यार्त्नीज्यापाशतृणमूलानि बध्नाति १३
आरेऽसावित्यपनोदनानि १४
फलीकरणतुषबुसावतक्षणान्यावपति १५
अन्वाह १६
अग्निर्नः शत्रूनग्निर्नो दूत इति मोहनानि १७
ओदनेनोपयम्य फलीकरणानुलूखलेन जुहोति १८
एवमणून् १९
एकविंशत्या शर्कराभिः प्रतिनिष्पुनाति २०
अप्वां यजते २१
संशितमिति शितिपदीं संपातवतीमवसृजति २२
उद्वृधत्सु योजयेत् २३
इममिन्द्रेति युक्तयोः प्रदानान्तानि २४
दिग्युक्ताभ्यां नमो देववधेभ्य इत्युपतिष्ठते २५
त्वया मन्यो यस्ते मन्यो इति संरम्भणानि २६
सेने समीक्षमाणो जपति २७
भाङ्गमौञ्जान्पाशानिङ्गिडालंकृतान्संपातवतोऽनूक्तान्सेनाक्रमेषु वपति २८
एवमामपात्राणि २९
इङ्गिडेन संप्रोक्ष्य तृणान्याङ्गिरसेनाग्निना दीपयति ३०
यां धूमोऽवतनोति तां जयन्ति ३१ ५
१४

15
ऋधङ्मन्त्रस्तदिदासेत्याश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचये हस्तिपृष्ठे पुरुषशिरसि वामित्राञ्जुह्वदभिप्रक्रम्य निवपति १
वराहविहिताद्राजानो वेदिं कुर्वन्ति २
तस्यां प्रदानान्तानि ३
एकेष्वाहतस्यादहन उपसमाधाय दीर्घदण्डेन स्रुवेण रथचक्रस्य खेन समया जुहोति ४
योजनीयां श्रुत्वा योजयेत् ५
यदि चिन्नु त्वा नमो देववधेभ्य इत्यन्वाह ६
वैश्याय प्रदानान्तानि ७
त्वया वयमित्यायुधिग्रामण्ये ८
नि तद्दधिष इति राज्ञोदपात्रं द्वौद्वाववेक्षयेत् ९
यन्न पश्येन्न युध्येत १०
नि तद्दधिषे वनस्पतेऽया विष्ठाग्न इन्द्रो दिशश्चतस्र इति नवं रथं राजानं ससारथिमास्थापयति ११
ब्रह्म जज्ञानमिति जीवितविज्ञानम् १२
तिस्रः स्नावरज्जूरङ्गारेष्ववधाय १३
उत्कुचतीषु कल्याणम् १४
सांग्रामिकमेता व्यादिशति मध्ये मृत्युरितरे सेने १५
पराजेष्यमाणान्मृत्युरतिवर्तते जेष्यन्तो मृत्युम् १६
अग्रेषूत्कुचत्सु मुख्या हन्यन्ते मध्येषु मध्या अन्तेष्ववरे १७
एवमिषीकाः १८

१५

16
उच्चैर्घोष उप श्वासयेति सर्ववादित्राणि प्रक्षाल्य तगरोशीरेण संधाव्य संपातवन्ति त्रिराहत्य प्रयच्छति १
विहृदयमित्युच्चैस्तरां हुत्वा स्रुवमुद्वर्तयन् २
सोमांशुं हरिणचर्मण्युत्सीव्य क्षत्रियाय बध्नाति ३
परि वर्त्मानीन्द्रो जयातीति राजा त्रिः सेनां परियाति ४
उक्तः पूवस्य सोमांशुः ५
संदानं व आदानेनेति पाशैरादानसंदानानि ६
मर्माणि त इति क्षत्रियं संनाहयति ७
अभयानामप्ययः ८
इन्द्रो मन्थत्विति ९
पूतिरज्जुरिति पूतिरज्जुमवधाय १०
अश्वत्थबधकयोरग्निं मन्थति ११
धूममिति धूममनुमन्त्रयते १२
अग्निमित्यग्निम् १३
तस्मिन्नरण्ये सपत्नक्षयणीरादधात्यश्वत्थबधकताजद्भङ्गाह्वखदिरशराणाम् १४
उक्ताः पाशाः १५
आश्वत्थानि कूटानि भाङ्गानि जालानि १६
बाधकदण्डानि १७
स्वाहैभ्य इति मित्रेभ्यो जुहोति १८
दुराहामीभ्य इति सव्येनेङ्गिडममित्रेभ्यो बाधके १९
उत्तरतोऽग्नेर्लोहिताश्वत्थस्य शाखां निहत्य नीललोहिताभ्यां सूत्राभ्यां परितत्य नीललोहितेनामूनिति दक्षिणा प्रहापयति २०
ये बाहव उत्तिष्ठतेति यथालिङ्गं संप्रेष्यति २१
होमाथे पृषदाज्यम् २२
प्रदानान्तानि वाप्यानि २३
वाप्यैस्त्रिषन्धीनि वज्ररूपाण्यर्बुदिरूपाणि २४
शितिपदीं संपातवतीं दर्भरज्ज्वा क्षत्रियायोपासङ्गदण्डे बध्नाति २५
द्वितीयामस्यति २६
अस्मिन्वस्विति राष्ट्रावगमनम् २७
आनुशूकानां व्रीहीणामाव्रस्कजैः काम्पीलैः शृतं सारूपवत्समाशयति २८
अभीवर्तेनेति रथनेमिमणिमयःसीसलोहरजतताम्रवेष्टितं हेमनाभिं वासितं बद्ध्वा सूत्रोतं बर्हिषि कृत्वा संपातवन्तं प्रत्यृचं भृष्टीरभीवर्तोत्तमाभ्यामाचृतति २९
अचिक्रददा त्वा गन्निति यस्माद्राष्ट्रादवरुद्धस्तस्याशायां शयनविधं पुरोडाशं दर्भेषूदके निनयति ३०
ततो लोष्टेन ज्योतिरायतनं संस्तीर्य क्षीरौदनमश्नाति ३१
यतो लोष्टस्ततः संभाराः ३२
तिसृणां प्रातरशिते पुरोडाशे ह्वयन्ते ३३ ७
१६

17
भूतो भूतेष्विति राजानमभिषेक्ष्यन्महानदे शान्त्युदकं करोत्यादिष्टानाम् १
स्थालीपाकं श्रपयित्वा दक्षिणतः परिगृह्याया दर्भेषु तिष्ठन्तमभिषिञ्चति २
तल्पार्षभं चर्मारोहयति ३
उदपात्रं समासिञ्चेते ४
विपरिदधाने ५
सहैव नौ सुकृतं सह दुष्कृतमिति ब्रह्मा ब्रूयात् ६
यो दुष्कृतं करवत्तस्य दुष्कृतं सुकृतं नौ सहेति ७
आशयति ८
अश्वमारोह्यापराजितां प्रतिपादयति ९
सहस्रं ग्रामवरो दक्षिणा १०
विपरिधानान्तमेकराजेन व्याख्यातम् ११
तल्पे दर्भेष्वभिषिञ्चति १२
वर्षीयसि वैयाघ्रं चर्मारोहयति १३
चत्वारो राजपुत्रास्ताल्पाः पृथक्पादेषु शयनं परामृश्य सभां प्रापयन्ति १४
दासः पादौ प्रक्षालयति १५
महाशूद्र उपसिञ्चति १६
कृतसंपन्नानक्षानातृतीयं विचिनोति १७
वैश्यः सर्वस्वजैनमुपतिष्ठत उत्सृजायुष्मन्निति १८
उत्सृजामि ब्राह्मणायोत्सृजामि क्षत्रियायोत्सृजामि वैश्याय धर्मो मे जनपदे चर्यतामिति १९
प्रतिपद्यते २०
आशयति २१
अश्वमारोह्यापराजितां प्रतिपादयति २२
सभामुदायाति २३
मधुमिश्रं ब्राह्मणान्भोजयति २४
रसानाशयति २५
माहिषाण्युपयाति २६
कुर्युर्गामिति गार्ग्यपार्थश्रवसौ नेति भागलिः २७
इममिन्द्र वर्धय क्षत्रियं म इति क्षत्रियं प्रातःप्रातरभिमन्त्रयते २८
उक्तं समासेचनं विपरिधानम् २९
सविता प्रसवानामिति पौरोहित्ये वत्स्यन्वैश्वलोपीः समिध आधाय ३०
इन्द्र क्षत्रमिति क्षत्रियमुपनयीत ३१
तदाहुर्न क्षत्रियं सावित्रीं वाचयेदिति ३२
कथं नु तमुपनयीत यन्न वाचयेत् ३३
वाचयेदेव वाचयेदेव ३४ ८
१७
इत्यथर्ववेदे कौशिकसूत्रे द्वितीयोऽध्यायः समाप्तः

(२,१[१०].१) पूर्वस्य मेधाजननानि

(२,१[१०].२) शुकसारिकृशानां जिह्वा बध्नाति

(२,१[१०].३) आशयति

(२,१[१०].४) औदुम्बरपलाशकर्कन्धूनामादधाति

(२,१[१०].५) आवपति

(२,१[१०].६) भक्षयति

(२,१[१०].७) उपाध्यायाय भैक्षं प्रयछति

(२,१[१०].८) सुप्तस्य कर्णमनुमन्त्रयते

(२,१[१०].९) उपसीदञ्जपति

(२,१[१०].१०) धानाः सर्पिर्मिश्राः सर्वहुताः

(२,१[१०].११) तिलमिश्रा हुत्वा प्राश्नाति

(२,१[१०].१२) पुरस्तादग्नेः कल्माषं दण्डं निहत्य पश्चादग्नेः कृष्णाजिने धाना अनुमन्त्रयते

(२,१[१०].१३) सूक्तस्य पारं गत्वा प्रयछति

(२,१[१०].१४) सकृज्जुहोति

(२,१[१०].१५) दण्डधानाजिनं ददाति

(२,१[१०].१६) <अहं रुद्रेभिर्[४.३०]> इति शुक्लपुष्पहरितपुष्पे किंस्त्यनाभिपिप्पल्यौ जातरूपशकलेन प्राक्स्तनग्रहात्प्राशयति

(२,१[१०].१७) प्रथमप्रवदस्य मातुरुपस्थे तालूनि संपातानानयति

(२,१[१०].१८) दधिमध्वाशयति

(२,१[१०].१९) उपनीतं वाचयति वार्षशतिकं कर्म

(२,१[१०].२०) <त्वं नो मेधे [६.१०८]> <द्यौश्च म [१२.१.३५]> इति भक्षयति

(२,१[१०].२१) आदित्यमुपतिष्ठते

(२,१[१०].२२) <यदग्ने तपसा [७.६१]> इत्याग्रहायण्यां भक्षयति

(२,१[१०].२३) अग्निमुपतिष्ठते

(२,१[१०].२४) <प्रातरग्निं [३.१६]> <गिरावरगराटेषु [६.६९]> <दिवस्पृथिव्याः [६.१२५.२]> इति संहाय मुखं विमार्ष्टि


(२,२[११].१) पूर्वस्य ब्रह्मचारिसांपदानि

(२,२[११].२) औदुम्बर्यादयः

(२,२[११].३) ब्रह्मचार्यावसथादुपस्तरणान्यादधाति

(२,२[११].४) पिपीलिकोद्वापे मेदोमधुश्यामाकेषीकतूलान्याज्यं जुहोति

(२,२[११].५) आज्यशेषे पिपीलिकोद्वापानोप्य ग्राममेत्य सर्वहुतान्

(२,२[११].६) ब्रह्मचारिभ्यो_अन्नं धानास्तिलमिश्राः प्रयछति

(२,२[११].७) एतानि ग्रामसा.पदानि

(२,२[११].८) विकार स्थूणामूलावतक्षणानि सभानामुपस्तरणानि

(२,२[११].९) ग्रामीणेभ्यो_अन्नम्

(२,२[११].१०) सुरां सुरापेभ्यः

(२,२[११].११) औदुम्बरादीन्य्भक्षणान्तानि सर्वसांपदानि

(२,२[११].१२) त्रिर्ज्योतिः कुरुते

(२,२[११].१३) उपतिष्ठते

(२,२[११].१४) सव्यात्पाणिहृदयाल्लोहितं रसमिश्रमश्नाति

(२,२[११].१५) पृश्निमन्थः

(२,२[११].१६) जिह्वाया उत्साद्यमक्ष्योः +परिस्तरणं मस्तृहणं [एद्. परिस्तरणमस्तृहणं॑ सेए ंष्ष्३४ (१९७६), प्. २३ .] हृदयं दूर्श उपनह्य तिस्रो रात्रीः पल्पूलने वासयति

(२,२[११].१७) चूर्णानि करोति

(२,२[११].१८) मैश्रधान्ये मन्थ ओप्य दधिमधुमिश्रमश्नाति

(२,२[११].१९) <अस्मिन् वसु [१.९]> <यदाबध्नन् [१.३५]> <नव प्राणान् [५.२८]> इति युग्मकृष्णलं वासितं बध्नाति

(२,२[११].२०) सारूपवत्सं पुरुषगात्रं द्वादशरात्रं संपातवन्तं कृत्वानभिमुखनश्नाति


(२,३[१२].१) <कथं महे [५.११]> इति मादानकशृतं क्षीरौदनमश्नाति

(२,३[१२].२) चमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्छयित्वा मध्वासिच्याश्यति

(२,३[१२].३) <पृथिव्यै श्रोत्राय [६.१०]> इति जुहोति

(२,३[१२].४) <वत्सो विराजो [१३.१.३३]> इति मन्थान्तानि

(२,३[१२].५) <सहृदयं [३.३०]> <तदू षु [५.१.५]> <सं जानीध्वम् [६.६४]> <एह यातु [६.७३]> <सं वः पृच्यन्तां [६.७४]> <सं वो मनांसि [६.९४]> <संज्ञानं नः [७.५२]> इति सांमनस्यानि

(२,३[१२].६) उदकूलिजं संपातवन्तं ग्रामं परिहृत्य मध्ये निनयति

(२,३[१२].७) एवं सुराकूलिजम्

(२,३[१२].८) त्रिहायण्या वत्सतर्याः शुक्त्यानि [सेए Cअलन्द्, Zऋ] पिशितान्याशयति

(२,३[१२].९) भक्तं सुरां प्रपां संपातवत्करोति

(२,३[१२].१०) पूर्वस्य <ममाग्ने वर्चो [५.३]> इति वर्चस्यानि

(२,३[१२].११) औदुम्बर्यादीनि त्रीणि

(२,३[१२].१२) कुमार्या दक्षिणमूरुमभिमन्त्रयते

(२,३[१२].१३) वपां जुहोति

(२,३[१२].१४) अग्निमुपतिष्ठते

(२,३[१२].१५) <प्रातरग्निं [३.१६]> <गिरावरगराटेषु [६.६९]> <दिवस्पृथिव्याः [६.१२५.२]> इति दधिमध्वाशयति

(२,३[१२].१६) कीलालमिश्रं क्षत्रियं कीलालमितरान्


(२,४[१३].१) <हस्तिवर्चसम् [३.२२]> इति हस्तिनम्

(२,४[१३].२) हास्तिदन्तं बध्नाति

(२,४[१३].३) लोमानि जतुना संदिह्य जातरूपेणापिधाप्य

(२,४[१३].४) <सिंहे व्याघ्रे [६.३८]> <यशो हविर्[६.३९]> इति स्नातकसिंहव्याघ्रबस्तकृष्णवृषभराज्ञां नभिलोमानि

(२,४[१३].५) दशानां शान्तवृक्षाणां शकलानि

(२,४[१३].६) एतयोः <प्रातरग्निं [३.१६]> <गिरावरगराटेषु [६.६९]> <दिवस्पृथिव्याः [६.१२५.२]> इति सप्त मर्माणि स्थालीपाके पृक्तान्यश्नाति

(२,४[१३].७) अकुशलं यो ब्राह्मणो लोहितमश्नीयादिति गार्ग्यः

(२,४[१३].८) उक्तो लोममणिः

(२,४[१३].९) सर्वैराप्लावयति

(२,४[१३].१०) अवसिञ्चति

(२,४[१३].११) चतुरङ्गुलं तृणं रजोहरणबिन्दुना_ [सेए Cअलन्द्, Zऋ] _अभिश्चोत्य_उपमथ्य

(२,४[१३].१२) शुनि किलासमजे पलितं तृणे ज्वरो यो_अस्मान् द्वेष्टि यं च वयं द्विष्मस्तस्मिन् राजयक्ष्म इति दक्षिणा तृणं निरस्यति गन्धप्रवादाभिरलं कुरुते


(२,५[१४].१) पूर्वस्य हस्तित्रसनानि

(२,५[१४].२) रथचक्रेण संपातवता प्रतिप्रवर्तयति

(२,५[१४].३) यानेनाभियाति

(२,५[१४].४) वादित्रैः

(२,५[१४].५) दृतिवस्त्योरोप्य शर्कराः

(२,५[१४].६) तोत्त्रेण नग्नप्रछन्नः

(२,५[१४].७) <विद्मा शरस्य [१.२]> <मा नो विदन् [१.१९]> <अदारसृद्[१.२०]> <स्वस्तिदा [१.२१]> <अव मन्युर्[६.६५]> <निर्हस्तः [६.६६]> <परि वर्त्मान्य्[६.६७]> <अभिभूर्[६.९७]> <इन्द्रो जयाति [६.९८]> <अभि त्वेन्द्र [६.९९]> इति सांग्रामिकानि

(२,५[१४].८) आज्यसक्तूञ्जुहोति

(२,५[१४].९) धनुरिध्मे धनुः समिधमादधाति

(२,५[१४].१०) एवमिष्विध्मे

(२,५[१४].११) धनुः संपातवद्विमृज्य प्रयछति

(२,५[१४].१२) प्रथमस्य_इषुपर्ययणानि

(२,५[१४].१३) द्रुघ्न्यार्त्नीज्यापाशतृणमूलानि बध्नाति

(२,५[१४].१४) <आरे असाव्[१.२६]> इत्यपनोदनानि

(२,५[१४].१५) फलीकरणतुषबुसावतक्षणान्यावपति

(२,५[१४].१६) अन्वाह

(२,५[१४].१७) <अग्निर्नः शत्रून् [३.१]> अग्निर्नो दूतः [३.२]> इति मोहनानि

(२,५[१४].१८) ओदनेन_उपयम्य फलीकरणानुलूखलेन जुहोति

(२,५[१४].१९) एवमणून्

(२,५[१४].२०) एकविंशत्या शर्कराभिः प्रतिनिष्पुनाति

(२,५[१४].२१) अप्वां यजते

(२,५[१४].२२) <संशितम् [३.१९]> इति शितिपदीं संपातवतीमवसृजति

(२,५[१४].२३) उद्वृधत्सु [Cअलन्दुद्धृष्यत्सु?] योजयेत्

(२,५[१४].२४) <इममिन्द्र [४.२२ । ४.२३]> इति युक्तयोः प्रदानान्तानि

(२,५[१४].२५) दिग्युक्ताभ्यां [३.२६ । ३.२७] <नमो देववधेभ्यो [६.१३]> इति उपतिष्ठते

(२,५[१४].२६) <त्वया मन्यो [४.३१]> <यस्ते मन्यो [४.३२]> इति संरम्भणानि

(२,५[१४].२७) सेने समीक्षमाणो जपति

(२,५[१४].२८) भाङ्गमौञ्जान् पाशनिङ्गिडालंकृतान् संपातवतो_अनूक्तान् सेनाक्रमेषु वपति

(२,५[१४].२९) एवमामपात्राणि

(२,५[१४].३०) इङ्गिडेन संप्रोक्ष्य तृणान्याङ्गिरसेनाग्निना दीपयति

(२,५[१४].३१) यां धूमो_अवतनोति तां जयन्ति


(२,६[१५].१) <ऋधङ्मन्त्रस्[५.१]> <तदिदास [५.२]> इत्याश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचये हस्तिपृष्ठे पुरुषशिरसि वामित्राञ्जुह्वदभिप्रक्रम्य निवपति

(२,६[१५].२) +वराहविहताद्[एद्. वराहविहिताद्॑ Cअलन्द्, Kल्.ष्छ्र्. प्. ७०] राजानो वेदिं कुर्वन्ति

(२,६[१५].३) तस्यां प्रदानान्तानि

(२,६[१५].४) एकेष्वा हतस्यादहने_उपसमाधाय दीर्घदण्डेण स्रुवेण रथ्चक्रस्य खेन समया जुहोति

(२,६[१५].५) योजनीयं श्रुत्वा योजयेत्

(२,६[१५].६) <यदि चिन्नु त्वा [५.२.४]> <नमो देववधेभ्यो [६.१३]> इत्यन्वाह

(२,६[१५].७) वैश्याय प्रदानान्तानि

(२,६[१५].८) <त्वया वयम् [५.२.५]> इति आयुधिग्रामण्ये

(२,६[१५].९) <नि तद्दधिषे [५.२.६]>_इति राज्ञोदपात्रं द्वौद्वौ_अवेक्षयेत्

(२,६[१५].१०) +यं [एद्. यन्॑ Cअलन्द्, Kल्.ष्छ्र्. प्. ५७] न पश्येद्न युध्येत

(२,६[१५].११) <नि तद्दधिषे [५.२.६]> <वनस्पते [१२.३.३३]> <अया विष्ठा [७.३]> <अग्न इन्द्रश्[७.११०]> <दिशस्चतस्रो [८.८.२२]> इति नवं रथं राजानं ससारथिमास्थापयति

(२,६[१५].१२) <ब्रह्म जज्ञानम् [५.६]> इति जीवितविज्ञानम्

(२,६[१५].१३) तिस्रः स्नावरज्जूरङ्गारेषु_अवधाय

(२,६[१५].१४) उत्कुचतीषु कल्याणम्

(२,६[१५].१५) सांग्रामिकमेता व्यादिशति मध्ये मृत्युरितरे सेने

(२,६[१५].१६) पराजेष्यमाणान्मृत्युरतिवर्तते ज्येष्यन्तो मृत्युम् [नोते चोन्ज्. ष्पेइजेर्ंुसेउम् ९ २४९]

(२,६[१५].१७) अग्रेषूत्कुचत्सु मुख्या हन्यन्ते मध्येषु मध्या अन्तेषु_अवरे

(२,६[१५].१८) एवमिषीकाः


(२,७[१६].१) <उच्चैर्घोषो [५.२०]> <उप श्वासय [६.१२६]> इति सर्ववादित्राणि प्रक्षाल्य तगर_उशीरेण संधाव्य संपातवन्ति त्रिराहत्य प्रयछति

(२,७[१६].२) <विहृदयम् [५.२१]> इत्युच्चैस्तरां (?) हुत्वा स्रुवमुद्वर्तयन्

(२,७[१६].३) सोमांशुं हरिणचर्मणि_उत्सीव्य क्षत्रियाय बध्नाति

(२,७[१६].४) <परि वर्त्मानि [६.६७]> <इन्द्रो जयाति [६.९८]> इति राजा त्रिः सेनां परियाति

(२,७[१६].५) उक्तः पूर्वस्य सोमांशुः

(२,७[१६].६) <संदानं वो [६.१०३]> <आदानेन [६.१०४]> इति पाशैरादानसंदानानि

(२,७[१६].७) <मर्माणि ते [७.११८]> इति क्षत्रियं संनाहयति

(२,७[१६].८) अभयानामप्ययः

(२,७[१६].९) <इन्द्रो मन्थतु [८.८]> इति

(२,७[१६].१०) <पूतिरज्जुर्[८.८.२ ब्]> इति पूतिरज्जुमवधाय

(२,७[१६].११) अश्वत्थबधकयोरग्निं मन्थति

(२,७[१६].१२) <धूमम् [८.८.२ द्]> इति धूममनुमन्त्रयते

(२,७[१६].१३) <अग्निम् [८.८.२ द्]> इत्यग्निम्

(२,७[१६].१४) तस्मिन्नरण्ये सपत्नक्षयणीरादधात्यश्वत्थ_बधक_ताजद्भङ्ग_आह्व_खदिर_शराणाम्

(२,७[१६].१५) उक्ताः पाशाः

(२,७[१६].१६) आश्वत्थानि कूटानि भाङ्गानि जालानि

(२,७[१६].१७) बाधकदण्डानि

(२,७[१६].१८) <स्वाहैभ्यो [८.८.२४ द्]> इति मित्रेभ्यो जुहोति

(२,७[१६].१९) <दुराहामीभ्य [८.८.२४ द्]> इति सव्येन_इङ्गिडममित्रेभ्यो बाधके

(२,७[१६].२०) उत्तरतो_अग्नेर्लोहिताश्वत्थस्य शाखां निहत्य नीललोहिताभ्यां सूत्राभ्यां परितत्य <नीललोहितेनामून् [८.८.२४ ]> इति दक्षिणा प्रहापयति

(२,७[१६].२१) <ये बाहव्[११.९]> <उत्तिष्ठत [११.१०]> इति यथालिङ्गं संप्रेष्यति

(२,७[१६].२२) होमार्थे पृषदाज्यम्

(२,७[१६].२३) प्रदानान्तानि वाप्यानि

(२,७[१६].२४) वाप्यैस्त्रिषन्धीनि वज्ररूपाण्यर्बुदिरूपाणि

(२,७[१६].२५) शितिपदीं संपातवतीं दर्भरज्ज्वा क्षत्रियाय_उपसङ्गदण्डे बध्नाति

(२,७[१६].२६) द्वितीयामस्यति

(२,७[१६].२७) <अस्मिन् वसु [१.९]> इति राष्ट्रावगमनम्

(२,७[१६].२८) आनुशूकानां व्रीहीणामाव्रस्कजैः काम्पीलैः शृतं सारूपवत्समाशयति

(२,७[१६].२९) <अभीवर्तेन [१.२९]> इति रथनेमिमणिमयःसीसलोहरजतताम्रवेष्टितं हेमनाभिं वासितं बद्ध्वा सूत्रोतं बर्हिषि कृत्वा संपातवन्तं प्रत्यृचं भृष्टीरभीवर्त्तोत्तमाभ्यामाचृतति

(२,७[१६].३०) <अचिक्रदत्[३.३]> <आ त्वा गन् [३.४]> इति यस्माद्राष्ट्रादवरुद्धस्तस्याशायां शयनविधं पुरोडाशं दर्भेषूदके निनयति

(२,७[१६].३१) ततो लोष्टेन ज्योतिरायतनं संस्तीर्य क्षीरौदनमश्नाति

(२,७[१६].३२) यतो लोष्टस्ततः संभाराः

(२,७[१६].३३) तिसृणां प्रातरशिते पुरोडाशे ह्वयन्ते


(२,८[१७].१) <भूतो भूतेषु [४.८]> इति राजानमभिषेक्ष्यन्महानदे शान्त्युदकं करोत्यादिष्टानाम्

(२,८[१७].२) स्थालीपाकं श्रपयित्वा दक्षिणतः परिगृह्याया दर्भेषु तिष्ठन्तमभिषिञ्चति

(२,८[१७].३) तल्पार्षभं चर्मारोहयति

(२,८[१७].४) उदपात्रं समासिञ्चेते

(२,८[१७].५) विपरिदधाने

(२,८[१७].६) सहैव नौ सुकृतं सह दुष्कृतमिति ब्रह्मा ब्रूयात्

(२,८[१७].७) यो दुष्कृतं करवत्तस्य दुष्कृतं सुकृतं नौ सहेति

(२,८[१७].८) आशयति

(२,८[१७].९) अश्वमारोह्यापराजितां प्रतिपादयति

(२,८[१७].१०) सहस्रं ग्रामवरो दक्षिणा

(२,८[१७].११) विपरिधानान्तमेकराजेन व्याख्यातम्

(२,८[१७].१२) तल्पे दर्भेष्वभिशिञ्चति

(२,८[१७].१३) वर्षीयसि वैयाघ्रं चर्मारोहयति

(२,८[१७].१४) चत्वारो राजपुत्रास्ताल्पाः पृथक्पादेषु शयनं परामृश्य सभां प्रापयन्ति

(२,८[१७].१५) दासः पादौ प्रक्षालयति

(२,८[१७].१६) महाशूद्र उपसिञ्चति

(२,८[१७].१७) कृतसंपन्नानक्षाना तृतीयं विचिनोति

(२,८[१७].१८) वैश्यः सर्वस्वजैनमुपतिष्ठते_उत्सृजायुष्मन्निति

(२,८[१७].१९) उत्सृजामि ब्राह्मणाय_उत्सृजामि क्षत्रियाय_उत्सृजामि वैश्याय धर्मो मे जनपदे चर्यतामिति

(२,८[१७].२०) प्रतिपद्यते

(२,८[१७].२१) आशयति

(२,८[१७].२२) अश्वमारोह्यापराजितां प्रतिपादयति

(२,८[१७].२३) सभामुदायाति

(२,८[१७].२४) मधुमिश्रं ब्राह्मणान् भोजयति

(२,८[१७].२५) रसानाशयति

(२,८[१७].२६) माहिषाण्युपयाति

(२,८[१७].२७) कुर्युर्गामिति गार्ग्यपार्थश्रवसौ नेति भागलिः

(२,८[१७].२८) <इममिन्द्र वर्धय क्षत्रियं मे [४.२२]> इति क्षत्रियं प्रातः_प्रातरभिमन्त्रयते

(२,८[१७].२९) उक्तं समासेचनं विपरिधानम्

(२,८[१७].३०) <सविता प्रसवानाम् [५.२४]> इति पौरोहित्ये वत्स्यन् वैश्वलोपीः समिध आधाय

(२,८[१७].३१) <इन्द्र क्षत्रम् [७.८४.२]> इति क्षत्रियमुपनयीत

(२,८[१७].३२) तदाहुर्न क्षत्रियं सावित्रीं वाचयेदिति

(२,८[१७].३३) कथं नु तमुपनयीत यन्न वाचयेद्

(२,८[१७].३४) वाचयेदेव वाचयेदेव


(कौ.सू.२ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे द्वितीयोऽध्यायः समाप्तः