सामग्री पर जाएँ

अथर्ववेदः/काण्डं ३/सूक्तम् ०२

विकिस्रोतः तः
← सूक्तं ३.०१ अथर्ववेदः - काण्डं ३
सूक्तं ३.२
अथर्वा
सूक्तं ३.०३ →
दे. १,२ अग्निः, ३,४ इन्द्रः, ५ द्यौः, ६ मरुतः

परसेनामोहनकर्मणि विनियोगः (कौ.सू. १४.१७-२१)

अग्निर्नो दूतः प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् ।
स चित्तानि मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥१॥
अयमग्निरमूमुहद्यानि चित्तानि वो हृदि ।
वि वो धमत्वोकसः प्र वो धमतु सर्वतः ॥२॥
इन्द्र चित्तानि मोहयन्न् अर्वाङाकूत्या चर ।
अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥३॥
व्याकूतय एषामिताथो चित्तानि मुह्यत ।
अथो यदद्यैषां हृदि तदेषां परि निर्जहि ॥४॥
अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्यप्वे परेहि ।
अभि प्रेहि निर्दह हृत्सु शोकैर्ग्राह्यामित्रांस्तमसा विध्य शत्रून् ॥५॥
असौ या सेना मरुतः परेषामस्मान् ऐत्यभ्योजसा स्पर्धमाना ।
तां विध्यत तमसापव्रतेन यथैषामन्यो अन्यं न जानात्॥६॥



सायणभाष्यम्

'अग्निर्णो दूतः' इति द्वितीयसूक्तेन परसेनामोहनकर्मणि पूर्वसूक्तोक्तानि कर्माणि कुर्यात् । सूत्रं तु तत्रैवोदाहृतम् ।


अग्निर्नो दूतः प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् ।

स चित्तानि मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥१॥

अग्निः । नः । दूतः । प्रतिऽएतु । विद्वान् । प्रतिऽदहन । अभिऽशस्तिम् । अरातिम् ।

सः । चित्तानि । मोहयतु । परेषाम् । निःऽहस्तान् । च । कृणवत् । जातऽवेदाः ॥ १ ॥

अग्निः अङ्गनादिगुणयुक्तो दूतः देवानां दूतवद् अग्रेसरः विद्वान् नः अस्माकम् । शत्रून् इति शेषः । अन्यत् पूर्वसूक्ते व्याख्यातम् । सेनापदस्थाने चित्तानीति विशेषः।।


अयमग्निरमूमुहद्यानि चित्तानि वो हृदि ।

वि वो धमत्वोकसः प्र वो धमतु सर्वतः ॥२॥

अयम् । अग्निः । अमूमुहत् । यानि । चित्तानि । वः । हृदि ।

वि । वः । धमतु । ओकसः । प्र । वः । धमतु । सर्वतः ॥ २ ॥

हे शत्रवः वः युष्माकं हृदि हृदये यानि चित्तानि अस्मदाक्रमणविषयज्ञानानि सन्ति तानि सर्वाणि अयं हूयमानोऽग्निः अङ्गनादिगुणयुक्तः अमूमुहत् मोहयतु । मुहेर्ण्यन्ताद् लुङि चङि रूपम् । ततो वः युष्मान् ओकसः स्वस्वनिवासस्थानाद् वि धमतु विशेषेण निःसारयतु। स्थानभ्रष्टान् करोतु इत्यर्थः। अपि च सर्वतः सर्वस्मादपि स्थानाद् वः युष्मान् प्र धमतु प्रकर्षेण गमयतु । स्थानशून्यान् करोतु इत्यर्थः । ध्मा शब्दाग्निसंयोगयोः । अस्मात् लोटि शपि 'पाघ्राध्मा' (पा ७,३,७८ ) इत्यादिना धमादेशः।


इन्द्र चित्तानि मोहयन्न् अर्वाङाकूत्या चर ।

अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥३॥

इन्द्र । चित्तानि । मोहयन् । अर्वाङ् । आऽकूत्या । चर ।

अग्ने । वातस्य । ध्राज्या । तान् । विषूचः । वि । नाशय ॥ ३ ॥

हे इन्द्र चित्तानि शत्रूणां मनांसि मोहयन् आकूत्या अस्मच्छत्रुसंहरणबुद्ध्या सहितः सन् अर्वाङ् शत्रुसेनाभिमुखश्चर गच्छ । अन्यद् व्याख्यातम् ।


व्याकूतय एषामिताथो चित्तानि मुह्यत ।

अथो यदद्यैषां हृदि तदेषां परि निर्जहि ॥४॥

वि। आऽकूतयः । एषाम् । इत । अथो इति । चित्तानि । मुह्यत ।

अथो इति । यत् । अद्य । एषाम् । हृदि । तत् । एषाम् । परि । निः । जहि ॥ ४ ॥

हे व्याकूतयः विरुद्धाः संकल्पाः यूयम् एषाम् शत्रूणां मनांसि इत प्राप्नुत । अथो अपि च हे चित्तानि शत्रुसंबन्धीनि मनांसि यूयमपि मुह्यत मौढ्यं प्राप्नुत । यद्वा हे देवाः यूयम् एषाम् शत्रूणां व्याकूतयः विविधाकूत्युत्पादकाः सन्तः इत तान् गच्छत । अथो अपि च तदीयानि चित्तानि मुह्यत मोहयत । मुह्यतिरत्र अन्तर्णीतण्यर्थः । अथो अपि च हे इन्द्र एषाम् संग्रामार्थं प्रवृत्तानां शत्रूणां हृदि हृदये अद्य इदानीं यत् चिकीर्षितं कार्यजातम् अस्ति एषां संबन्धि तत् सर्वं परि निर्जहि परितः सर्वतो नाशय ।।


अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्यप्वे परेहि ।

अभि प्रेहि निर्दह हृत्सु शोकैर्ग्राह्यामित्रांस्तमसा विध्य शत्रून् ॥५॥

अमीषाम् । चित्तानि । प्रतिऽमोहयन्ती । गृहाण । अङ्गानि । अप्वे । परा । इहि ।

अभि। प्र । इहि । निः । दह । हृत्ऽसु । शोकैः । ग्राह्या अमित्रान् । तमसा । विध्य । शत्रून् ।।

हे अप्वे अपवाययति अपगमयति सुखं प्राणांश्चेति अप्वा पापदेवता । अपपूर्वाद् वेतेवर्यितेर्वा 'डोऽन्यत्रापि दृश्यते' (पावा ३,२,४८) इति डप्रत्यये उपसर्गस्यान्त्यलोपश्छान्दसः । यास्कस्त्वाह -- ‘अप्वा यद् एनया विद्धोऽपवीयते व्याधिर्वा भयं वा' ( नि ६,१२) इति । हे तथाविधे पापदेवते अमीषाम् अस्मच्छत्रूणां चित्तानि मनांसि प्रतिमोहयन्ती प्रत्येकं मौढ्यं गमयन्ती। हेतौ शतृप्रत्ययः। प्रतिमोहनाद्धेतोः अङ्गानि गृहाण । गृहाणेति । प्राप्तकाले लोट् । हे अप्वे त्वत्कर्तृकस्य शत्रुग्रहणस्यायं प्राप्तः कालः तदर्थं परेहि अस्मत्तः पराङ्मुखी सती शत्रून् गच्छ । गत्वा च अभि प्रेहि अभितः सर्वतः शत्रुशरीरं प्रसर्प । प्रविशेत्यर्थः प्रविश्य च हृत्सु हृदयेषु स्थिता सती शोकैः रोगभयादिजन्यैर् निर्दह । ततः तमसा तमोरूपया ग्राह्या पिशाच्या शत्रून् शातयितॄन् अमित्रान् द्वेष्यान् विध्य ताडय । मारयेत्यर्थः । व्यध ताडने । 'ग्रहिज्या' (पा ६,१,१६) इत्यादिना संप्रसारणम् ।


असौ या सेना मरुतः परेषामस्मान् ऐत्यभ्योजसा स्पर्धमाना ।

तां विध्यत तमसापव्रतेन यथैषामन्यो अन्यं न जानात्॥६॥

असौ । या। सेना । मरुतः । परेषाम् । अस्मान् । आऽएति । अभि । ओजसा । स्पर्धमाना ।

ताम् । विध्यत । तमसा । अपऽव्रतेन । यथा । एषाम् । अन्यः । अन्यम् । न । जानात् ॥

हे मरुतः असौ परिदृश्यमाना परेषाम् शत्रूणां या सेना ओजसा स्वकीयेन बलातिशयेन स्पर्धमाना अस्माभिः सह संघर्षं युद्धोद्यमं कुर्वाणा सती अस्मान् अभि ऐति अस्मदभिमुखम् आगच्छति । स्पर्ध संघर्षे । लटः शानच् । 'तास्यनुदात्तेत्" (पा ६,१,१८६ ) इति लसार्वधातुकानुदात्तत्वे शपः पित्त्वाद् अनुदात्तत्वे धातुस्वरः। ताम् तथाविधां शत्रुसेनाम् अपव्रतेन । व्रतम् इति कर्मनाम । अपगतकर्मणा सर्वव्यापारविघातकेन तमसा भवद्भिः प्रेरितेन मायामयेन अन्धकारेण विध्यत ताडयत । तत्प्रकारं दर्शयति-- एषाम् शत्रूणां मध्ये अन्यः कश्चित् पुरुषः अन्यम् स्वव्यतिरिक्तं पुरुषं यथा येन प्रकारेण न जानात् न जानीयात् । तथा विध्यतेति संबन्धः । परस्परवार्तानभिज्ञान् कृत्वा विनाशयतेत्यर्थः। जानात् इति । ज्ञा अवबोधने । लेटि 'इतश्च लोपः” (पा ३,४,९७ ) इति इकारलोपः । 'ज्ञाजनोर्जा' (पा ७,३, ७९ ) इति जादेशः।

इति तृतीये काण्डे प्रथमेऽनुवाके द्वितीयं सूक्तम्