सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १९५

विकिस्रोतः तः


पञ्चनवत्यधिकशततमः सर्गः १९५
श्रीवसिष्ठ उवाच ।
अहो नु संप्रबुद्धोऽसि राघवाघविघातिनी ।
वागियं तव संपन्ना प्रबुद्धेष्ववहासिनी ।। १
विभातीवासदेवेदमसंकल्पेन शाम्यति ।
एतच्छान्तिस्तु निर्वाणमित्येव परमार्थता ।। २
कल्पनाकल्पने रूपं परस्यैवेतरस्य नो ।
स्पन्दनास्पन्दने वायोर्यथा नात्रैकताद्विते ।। ३
प्रबुद्धस्यैव या पुंसः शिलाजठरवत्स्थितिः ।
शान्तौ व्यवहृतौ वापि सामला मुक्ततोच्यते ।। ४
वयमस्मिन्पदे स्थित्वा राघवाघविघातिनि ।
शान्तत्वे व्यवहारे च सममित्थमवस्थिताः ।। ५
अस्मिन्नेव पदे नित्यं ब्रह्मविष्णुहरादयः ।
तिष्ठन्ति व्यवहारस्था अपि शान्ता ज्ञरूपिणः ।। ६
शैलोदरस्थितिमतां प्रबुद्धानामनामयम् ।
अस्माकं पदमेवं तदालभ्यैतदिहोष्यताम् ।। ७
श्रीराम उवाच ।
ब्रह्मण्येवमसद्रूपमनुत्पन्नमभासुरम् ।
अनारम्भमनाकारमेवेदं भासते जगत् ।। ८
मृगतृष्णाम्बुसदृशं तरङ्गावर्तिवारिवत् ।
रुचकादीव कनके स्वप्नसंकल्पशैलवत् ।। ९
श्रीवसिष्ठ उवाच ।
बुद्धवानसि चेद्राम तत्स्वबोधविवृद्धये ।
कुरु संशयविच्छेदं पृच्छतः प्रच्छकस्य मे ।। १०
इत्थं नित्यानुभूतोऽपि शिरस्थोऽप्यतिभासुरः ।
जगदाख्योऽयमाभासः कथं नाम न विद्यते ।। ११
श्रीराम उवाच ।
पूर्वमेवेदमुत्पन्नं न किंचन कदाचन ।
तेन वन्ध्यासुतस्यास्य न सत्ता कल्पनादृते ।। १२
किमिवास्या जगद्भ्रान्तेः कारणं प्रोत्थिता यतः ।
न कारणं विना कार्यं किंचित्संभवति क्वचित् ।। १३
न चाविकारमजरं सविकारं क्षयादृते ।
कारणं क्वचिदेवेह किंचिद्भवितुमर्हति ।। १४
ब्रह्मैवेदमनाख्यात्म कारणं प्रविजृम्भते ।
तत्क्व कस्य कथं नाम जगच्छब्दार्थसंविदः ।। १५
तदनाख्ये पदे शान्ते चिरात्प्रथमचेतनम् ।
कंचित्काललवं तिष्ठत्यातिवाहिकदेहभृत् ।। १६
क्षणे वत्सरसंवित्तिं स्वप्ने त्वमिव चेतति ।
काकतालीयवत्तत्र चन्द्रार्कादींश्च पश्यति ।। १७
संकल्पैकात्मनस्तस्य देशकालक्रियान्वितम् ।
अत्यन्तमेव व्योम्न्येव भुवनं भासते स्वयम् ।। १८
तस्मिन्मिथ्योपसंपन्ने स मिथ्यापुरुषस्ततः ।
मिथ्यैव तत्समाचारं कुर्वन्विपरिवर्तते ।। १९
अधस्तादूर्ध्वमायाति पुनरूर्ध्वाद्ब्रजत्यधः ।
कल्पितानन्तसंभारपदार्थानर्थसंभ्रमः ।। २०
काकतालीयवत्तस्य संकल्पस्य भवेद्यदि ।
यद्यथा तत्तथाद्यापि सुस्थिरामात्तवान्स्थितिम् ।। २१
शिला वन्ध्यासुतमुखे व्योमचूर्णेन रञ्जनम् ।
करोतीत्यादिवदिदं मिथ्या जगदुपस्थितम् ।। २२
सत्यमेवेदमथवा मिथ्यात्वं तु कुतः किल ।
न मिथ्यात्वं न सत्यत्वं किमपीदमजं ततम् ।। २३
आकाशकोशवत्स्वच्छं शिलाजठरवद्धनम् ।
पाषाणमौनवच्चेदं शान्तमेवाक्षयं जगत् ।। २४
चिन्मात्रसर्वसंकल्पे विराडात्मातिवाहिके ।
देहे संवेदनं व्योम जगदित्यवभासते ।। २५
एवं ब्रह्म महाकाशमेवेदं क्व जगत्कथा ।
शान्तं समसमाभोगमेकमाद्यन्तवर्जितम् ।। २६
यथा पयसि वीचीनामुन्मज्जननिमज्जनैः ।
न जलान्यत्वमेवं हि भावाभावैः परैः परे ।। २७
परावरविदः केचिदेतस्मिन्परमे पदे ।
शुद्धे परिणमन्त्यन्तर्वारिबिन्दुरिवाम्भसि ।। २८
परेऽपरमिदं भाति परस्येव परात्मकम् ।
संभवन्त्यमले शान्ते न जगन्ति न तत्क्रियाः ।। २९
स्वप्ने स्वप्न इति ज्ञाते दृश्ये ब्रह्मतयापि च ।
मृगाम्बुनि परत्वेन को भावयति भावनाम् ।। ३०
परमार्थचमत्कारमन्तःस्थानुभवं विना ।
अन्यस्यान्यं न जानाति सीधुस्वादुमिव द्विजः ।। ३१
निर्वाय निज आत्मायं परिवृत्यावलोकितः ।
चेत्योन्मुखत्वमुत्सृज्य संतिष्ठेच्छान्त आत्मनि ।। ३२
श्रीवसिष्ठ उवाच ।
दृश्यं बीजाङ्कुर इव स्थितं ब्रह्मणि कारणे ।
इति सर्गादिसद्भावः कस्मान्नेहोपपद्यते ।। ३३
श्रीराम उवाच ।
बीजेऽङ्कुरोऽङ्कुरतया संश्रितो नोपलभ्यते ।
बीजोदरे तु या सत्ता बीजमेव हि सा भवेत् ।। ३४
ब्रह्मणोऽन्तर्जगत्तैवं जगत्तैवोपलभ्यते ।
अस्ति चेत्तद्भवेन्नित्यं सा ब्रह्मैवाविकारि तत् ।। ३५
अविकारादनाकाराद्विकार्याकृतिभासुरम् ।
उदेतीति किलास्माभिर्नैव दृष्टं न च श्रुतम् ।। ३६
अनाकृतावाकृतिमन्न चैतत्स्थातुमर्हति ।
परमाणौ न चैवान्तरिव संभान्ति मेरवः ।। ३७
समुद्गके रत्नमिव जगद्ब्रह्मणि तिष्ठति ।
महाकारं निराकार इत्युन्मत्तवचो भवेत् ।। ३८
शान्तं परं च साकारस्याधार इति राजते ।
न वक्तुं राजते क्वेव साकारस्याविनाशिता ।। ३९
बोध एवायमाकार इति कल्पनयापि धीः ।
अपूर्वैः स्वप्नवद्रूढैः संसारैर्नोपलभ्यते ।। ४०
अपूर्व एव स्वप्नोऽयं यद्वै सर्गोऽनुभूयते ।
स्वप्नः किलानुभूतार्थः स्वभ्यस्त इव दृश्यते ।। ४१
यदेव जाग्रत्तत्स्वप्न इति नात्रोपपद्यते ।
स्वप्ने प्रदग्धः पुरुषः कथं प्रातर्विलोक्यते ।। ४२
अशरीरस्य न स्वप्न इत्येतदपि नोचितम् ।
संभवन्ति पिशाचाद्यास्तेषां च स्वप्नवत्स्थितिः ।। ४३
तस्मात्स्वप्नवदाभासः संविदात्मनि संस्थितः ।
सर्गादिनानाकृतिना परमात्मा निराकृतिः ।। ४४
स्वप्ने चिदेव शैलादिरूपेणात्मनि तिष्ठति ।
ब्रह्मात्माखिलमुक्तोऽसावन्येनासौ कृतो यदि ।। ४५
नेहास्तित्वं न नास्तित्वमुपलब्धेऽनुभूयते ।
नैवानुभवितृत्वं च न चानुभवनक्रमः ।। ४६
किमपीदमनाख्येयं बुद्धेनैवानुभूयते ।
स्वसंवेदनसंवेद्यं सत्तासत्ताविजृम्भितम् ।। ४७
अभावरूपिणो भावा अभावा भावरुपिणः ।
सर्वदा सर्वथा सर्वे भान्ति भासुरतां गताः ।। ४८
बृंहति ब्रह्मणि ब्रह्म व्योम व्योमनि वर्धते ।
न चोपपद्यते किंचिद्ब्रह्म व्योम्नि विबृंहणम् ।। ४९
द्रष्टृदृश्यदृगात्मायमहं सर्गादिविभ्रमः ।
शान्तश्चिद्व्योमविस्तारो न कुड्याद्युपपद्यते ।। ५०
यथा न सन्न कुड्यादि स्वसंकल्पनपत्तनम् ।
तथैवायं जगदिति शान्तमेकमनामयम् ।। ५३
पूर्णं हि परमं शान्तमिदं सर्वमखण्डितम् ।
अनिङ्गनमनाभासमनाद्यन्तमचेतितम् ।। ५२
अजन्ममरणं शान्तमनादिनिधनं महत् ।
अनुपाधि निराकारं स्वपदं बुद्धवानहम् ।। ५३
या संविदन्तः स्फुरति सैवोपायाति वाक्यताम् ।
यद्बीजं लीनमवनौ तद्यात्यङ्कुरतां किल ।। ५४
शुद्धज्ञानामयैकात्मा द्वैतैक्यपरिवर्जितः ।
मनागपि न जानामि द्वैतैक्यकलनाकलाम् ।। ५५
सर्वे तूष्णींमया एव जीवन्मुक्ता इमे जनाः ।
संशान्तसर्वसंरम्भाः खे खभाव इव स्थिताः ।। ५६
जगत्स्पर्शमहारम्भमपि तूष्णीमिदं स्थितम् ।
चित्रं भित्ताविव कृतं मनोराज्य इवोदितम् ।। ५७
शैलादिवोत्कीर्णसमं कथायामिव वर्णितम् ।
शम्बरेणेव रचितं व्योम्नि स्वप्न इवोदितम् ।। ५८
किल स्वप्नवदेवेदं सर्गादावेव भाति यत् ।
अभित्तिकं निष्प्रतिघं जगत्केवास्य सत्यता ।। ५९
जगद्बुद्धाविदं सत्यं परिज्ञानवतो मृषा ।
ब्रह्मात्मक इदं ब्रह्म शान्ते शान्तं पराम्बरम् ।। ६०
सर्व एव इमे भावाः सह स्थावरजङ्गमाः ।
अस्मदादय आकाशं जगज्ज्ञविषयं तथा ।। ६१
खमहं खं भवांश्चित्खं जगत्खं खं खमेव च ।
चिदाकाशैकतामेत्य भजैकाकाशरूपताम् ।। ६२
ज्ञानेनाकाशकल्पेन सर्वात्म गगनोपमम् ।
ज्ञेयाभिन्नेन संबोधात्तं वन्दे द्विपदां वरम् ।। ६३
चिद्रूपत्वादुदेतीदं जगत्तत्रैव लीयते ।
अकारणकमेवान्तः परं व्योमैव निर्मलम् ।। ६४
एतत्सर्वपदातीतं सर्वंशास्त्रकलातिगम् ।
पदमासाद्य निर्द्वन्द्वं त्वमाकाशात्मकोऽभवः ।। ६५
अहं जगच्च नो पादपाण्यादि न घटादि च ।
सर्वमाकाशमाकाशमेवाच्छ सूक्ष्यचिद्भवेत् ।। ६६
सर्वापह्नव एवायं मया यो दर्शितस्तव ।
स निन्द्यो वादिनां वादेष्वात्मज्ञानेषु राजते ।। ६७
काष्ठमौनात्मको वादे न सर्वापह्नवो यदा ।
क्रियते तेन वादेषु नात्मज्ञानं प्रसीदति ।। ६८
प्रत्यक्षादिप्रमाणानां यदगम्यमचिह्नितम् ।
स्वानुभूतिभवं ब्रह्म वादैस्तल्लभ्यते कथम् ।। ६९
सर्वागमार्थसमतीतमचिह्नमच्छ-
माकाशमेकमजमाद्यमनामरूपम् ।
शुद्धं चिदात्मकमिहास्त्यनुभूतिमात्रं
शान्ताभिधानकलनं मलशङ्कयालम् ।। ७०
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० बोधप्रकाशीकरणयोगोपदेशो नाम पञ्चनवत्यधिकशततमः सर्गः ।।१९५।।