मार्कण्डेयपुराणम्/अध्यायः ०२६-०३०

विकिस्रोतः तः

26(23)
षड्विंशोऽध्यायः

जड उवाच

वर्धमानं सुतं सा तु राजपत्नी दिने दिने ।
तमुल्लापादिना बोधमनयन्निर्ममात्मकम्॥२६.१॥

यथायथं बलं लेभे यथा लेभे मतिं पितुः ।
तथा तथात्मबोधञ्च सोऽवापन्मातृभाषितैः॥२६.२॥

इत्थं तया स तनयो जन्मप्रभृति बोधितः ।
चकार न मतिं प्राज्ञो गार्हस्थ्यं प्रति निर्ममः॥२६.३॥

द्वितीयोऽस्याः सुतो जज्ञे तस्य नामाकरोत्पिता ।
सुबाहुरयमित्युक्ते सा जाहस मदालसा॥२६.४॥

तमप्येवं यथापूर्वं बालमुल्लापनादिना ।
प्राह बाल्यात् स च प्राप तथा बोधं माहमतिः॥२६.५॥

तृतीयं तनयं जातं स राजा शत्रुमर्दनम् ।
यदाह तेन सा सुभ्रुर्जहासातिचिरं पुनः॥२६.६॥

तथैव सोऽपि तन्वङ्ग्या बालत्वादवबोधितः ।
क्रियाश्चकार निष्कामो न किञ्चिदुपकारकम्॥२६.७॥

चतुर्थस्य सुतस्याथ चिकीर्षुर्नाम भूमिपः ।
ददर्श तां शुभाचारामीषद्धासां मदालसाम् ।
तामाह राजा हसतीं किञ्चित् कौतूहलान्वितः॥२६.८॥

राजोवाच

क्रियमाणेऽसकृन्नाम्नि कथ्यतां हास्यकारणम् ।
विक्रान्तश्च सुबाहुश्च तथान्यः शत्रुमर्दनः॥२६.९॥

शोभनानीति नामानि मया मन्ये कृतानि वै ।
योग्यानि क्षत्रबन्धूनां शौर्याटोपयुतानि च॥२६.१०॥

असन्त्येतानि चेद्भद्रे ! यदि ते मनसि स्थितम् ।
तदस्य क्रियतां नाम चतुर्थस्य सुतस्य मे॥२६.११॥


मदालसौवाच

मयाज्ञा भवतः कार्या महाराज ! यथात्थ माम् ।
तथा नाम करिष्यामि चतुर्थस्य सुतस्य ते॥२६.१२॥

अलर्क इति धर्मज्ञः ख्यातिं लोके प्रयास्यति ।
कनीयानेष ते पुत्रो मतिमांश्च भविष्यति॥२६.१३॥

तच्छ्रुत्वा नाम पुत्रस्य कृतं मात्रा महीपतिः ।
अलर्क इत्यसम्बद्धं प्रहस्येदमथाब्रवीत्॥२६.१४॥


राजोवाच

भवत्या यदिदं नाम मत्पुत्रस्य कृतं शुभे ।
किमीदृशमसम्बद्धमर्थः कोऽस्य मदालसे॥२६.१५॥


मदालसोवाच

कल्पनेयं महाराज ! कृता सा व्यावहारिको ।
त्वत्कृतानां तथा नाम्नां शृणु भूप ! निरर्थताम्॥२६.१६॥

वदन्ति पुरुषाः प्राज्ञा व्यापिनं पुरुषं यतः ।
क्रान्तिश्च गतिरुद्दिष्टा देशाद्देशान्तरन्तु या॥२६.१७॥

सर्वगो न प्रयातीति व्यापी देहेश्वरो यतः ।
ततो विक्रान्तसंज्ञेयं मता मम निरर्थिका॥२६.१८॥

सुबाहुरिति या संज्ञा कृतान्यस्य सुतस्य ते ।
निरर्था साप्यमूर्तत्वात् पुरुषस्य महीपते॥२६.१९॥

पुत्रस्य यद् कृतं नाम तृतीयस्यारिमर्दनः ।
मन्ये तदप्यसम्बद्धं शृणु चाप्यत्र कारणम्॥२६.२०॥

एक एव शरीरेषु सर्वेषु पुरुषो यदा ।
तदास्य राजन् ! क शत्रुः को वा मित्रमिहेष्यते॥२६.२१॥

भूतैर्भूतानि मृद्यन्ते अमूर्तो मृद्यते कथम् ।
क्रोधादीनां पृथग्भावात् कल्पनेयं निरर्थिका॥२६.२२॥

यदि संव्यवहारार्थमसन्नाम प्रकल्प्यते ।
नाम्नि कस्मादलर्काख्ये नैरर्थ्यं भवतो मतम्॥२६.२३॥


जड उवाच

एवमुक्तस्तया साधु महीष्या स महीपतिः ।
तथेत्याह महाबुद्धिर्दयितां तथ्यवादिनीम्॥२६.२४॥

तञ्चापि सा सुतं सुभ्रूर्यथा पूर्वसुतांस्तथा ।
प्रोवाच बोधजननं तामुवाच स पार्थिवः॥२६.२५॥

करोषि किमिदं मूढे ! ममाभावाय सन्ततेः ।
दुष्टावबोधदानेन यथापूर्वं सुतेषु मे॥२६.२६॥

यदि ते मत्प्रियं कार्यं यदि ग्राह्यं वचो मम ।
तदेनं तनयं मार्गे प्रवृत्तेः सन्नियोजय॥२६.२७॥

कर्ममार्गः समुच्छेदं नैवं देवि ! गमिष्यति ।
पितृपिण्डनिवृत्तिश्च नैवं साध्वि ! भविष्यति॥२६.२८॥

पितरो देवलोकस्थास्तथा तिर्यक्त्वमागताः ।
तद्वन्मनुष्यतां याता भूतवर्गे च संस्थिताः॥२६.२९॥

सपुण्यानसपुण्यांश्च क्षुत्क्षामान् तृट्परिप्लुतान् ।
पिण्डोदकप्रदानेन नरः कर्मण्यवस्थितः॥२६.३०॥

सदाप्यायते सुभ्रु ! तद्वद्देवातिथोनपि ।
देवैर्मनुष्यैः पितृभिः प्रेतैर्भूतैः सगुह्यकैः॥२६.३१॥

वयोभिः कृमिकीटैश्च नर एवोपजीव्यते ।
तस्मात् तन्वड्गि ! पुत्रं यत्कार्यं क्षत्रयोनिभिः॥२६.३२॥

ऐहिकामुष्मिकफलं तत् सम्यक् प्रतिपादय॥२६.३३॥


जड उवाच

तेनैवमुक्ता सा भर्त्रा वरनारी मदालसा ।
अलर्कं नाम तनयमुवाचोल्लापवादिनी॥२६.३४॥

पुत्र वर्धस्व मद्भर्तुर्मनो नन्दय कर्मभिः ।
मित्राणामुपकाराय दुर्हृदां नाशनाय च॥२६.३५॥

धन्योऽसि रे यो वसुधामशत्रुर् एकश्चिरं पालयितासि पुत्र ।
तत्पालनादस्तु सुखोपभोगो धर्मात् फलं प्राप्स्यसि चामरत्वम्॥२६.३६॥

धरामरान् पर्वसु तर्पयेथाः समीहितं बन्धुषु पूरयेथाः ।
हितं परस्मै हृदि चिन्तयेथाः मनः परस्त्रीषु निवर्तयेथाः॥२६.३७॥

यज्ञौरनेकैर्विबुधानजस्त्रम् अर्थैर्द्विजान् प्रीणय संश्रितांश्च ।
स्त्रियश्च कामैरतुलैश्चिराय युद्धैश्चारींस्तोषयितासि वीर॥२६.३८॥

बालो मनो नन्दय बान्धवानां गुरोस्तथाज्ञानकरणैः कुमारः ।
स्त्रीणां युवा सत्कुलभूषणानां वृद्धो वने वत्स ! वनेचराणाम्॥२६.३९॥

राज्यं कुर्वन् सुहृदो नन्दयेथाः साधून् रक्षंस्तात ! यज्ञैर्यजेथाः ।
दुष्टान्निघ्रन् वैरिणश्चाजिमध्ये गोविप्रार्थे वत्स ! मृत्युं व्रजेथाः॥२६.४०॥


इति श्रीमार्कण्डेयपुराणे पुत्रानुशासनं नाम षड्विंशोऽध्यायः
27(24)

सप्तविंशोऽध्यायः

जड उवाच

एवमुल्लाप्यमानस्तु स तु मात्रा दिने दिने ।
ववृधे वयसा बालो बुद्ध्या चालर्कसंज्ञितः॥२७.१॥

स कौमारकमासाद्य ऋतध्वजसुतस्ततः ।
कृतोपनयनः प्राज्ञः प्रणिपत्याह मातरम्॥२७.२॥

मया यदत्र कर्तव्यमैहिकामुष्मिकाय वै ।
सुखाय वद तत् सर्वं प्रश्रयावनतस्य मे॥२७.३॥


मदालसोवाच

वत्स ! राज्येऽभिषिक्तेन प्रजारञ्जनमादितः ।
कर्तव्यमविरोधेन स्वधर्मस्य महीभृता॥२७.४॥

व्यसनानि परित्यज्य सप्त मूलहराणि वै ।
आत्मा रिपुभ्यः संरक्ष्यो बहिर्मन्त्रविनिर्गमात्॥२७.५॥

अष्टधा नाशमाप्नोति सुचक्रात् स्यन्दनाद्यथा ।
तथा राजाप्यसन्दिग्धं बहिर्मन्त्रविनिर्गमात्॥२७.६॥

दुष्टादुष्टांश्च जानीयादमात्यानरिदोषतः ।
चरैश्चरास्तथा शत्रोरन्वेष्टव्याः प्रयत्नतः॥२७.७॥

विश्वासो न तु कर्तव्यो राज्ञा मित्राप्तबन्धुषु ।
कार्ययोगादमित्रेऽपि विश्वसीत नराधिपः॥२७.८॥

स्थानवृद्धिक्षयज्ञेन षाड्गुण्यगुणितात्माना ।
भवितव्यं नरेन्द्रेण न कामवशवर्तिना॥२७.९॥

प्रागात्मा मन्त्रिणश्चैव ततो भृत्या महीभृता ।
जेयाश्चानन्तरं पौरा विरुध्येत ततोऽरिभिः॥२७.१०॥

यस्त्वेतानविजित्यैव वैरिणो विजिगीषते ।
सोऽजितात्मा जितामात्यः शत्रुवर्गेण बाध्यते॥२७.११॥

तस्मात् कामादयः पूर्वं जेयाः पुत्र ! महीभुजा ।
तज्जये हि जयोऽवश्यं राजा नश्यति तैर्जितः॥२७.१२॥

कामः क्रोधश्च लोभश्च मदो मानस्तथैव च ।
हर्षश्च शत्रवो ह्येते विनाशाय महीभृताम्॥२७.१३॥

कामप्रसक्तमात्मानं स्मृत्वा पाण्डुं निपातितम् ।
निवर्तयेत्तथा क्रोधादनुह्रादं हतात्मजम्॥२७.१४॥

हतमैलं तथा लोभान्मदाद्वेनं द्विजैर्हतम् ।
मानादनायुषापुत्रं बलिं हर्षात् पुरञ्जयम्॥२७.१५॥

एभिर्जितैर्जितं सर्वं मरुत्तेन महात्मना ।
स्मृत्वा विवर्जयेदेतान् दोषान् स्वीयान्महीपतिः॥२७.१६॥

काककोकिलभृङ्गाणां मृगव्यालशिखण्डिनाम् ।
हंसकुक्कुटलोहानां शिक्षेत चरित नृपः॥२७.१७॥

कीटकस्य क्रियां कुर्यात् विपक्षे मनुजेश्वरः ।
चेष्टां पिपीलिकानाञ्च काले भूपः प्रदर्शयेत्॥२७.१८॥

ज्ञेयाग्निविस्फुलिङ्गानां बीजचेष्टा च शाल्मलेः ।
चन्द्रसूर्यस्वरूपेण नीत्यर्थे पृथिवीक्षिता॥२७.१९॥

बन्धकीपद्मशरभशूलिकागुर्विणीस्तनात् ।
प्रज्ञा नृपेण चादेया तथा गोपालयोषितः॥२७.२०॥

शक्रार्कयमसोमानां तद्वद्वायोर्महीपतिः ।
रूपाणि पञ्च कुर्वोत महीपालनकर्मणि॥२७.२१॥

यथेन्द्रश्चतुरो मासान् तोयोत्सर्गेण भूगतम् ।
आप्याययेत्तथा लोकं परिहारैर्महीपतिः॥२७.२२॥

मासानष्टौ यथा सूर्यस्तोयं हरति रश्मिभिः ।
सूक्ष्मेणैवाभ्युपायेन तथा शुल्कादिकं नृपः॥२७.२३॥

यथा यमः प्रियद्वेष्ये प्राप्तकाले नियच्छति ।
तथा प्रियाप्रिये राजा दुष्टादुष्टे समो भवेत्॥२७.२४॥

पूर्णेन्दुमालोक्य यथा प्रीतिमान् जायते नरः ।
एवं यत्र प्रजाः सर्वा निर्वत्तास्तच्छशिव्रतम्॥२७.२५॥

मारुतः सर्वभूतेषु निगूढश्चरते यथा ।
एवं नृपश्चरेच्चारैः पौरामात्यादिबन्धुषु॥२७.२६॥

न लोभाद्वा न कामाद्वा नार्थाद्वा यस्य मानसम् ।
यथान्यैः कृष्यते वत्स ! स राजा स्वर्गमृच्छति॥२७.२७॥

उत्पथग्राहिणो मूढान् स्वधर्माच्चलतो नरान् ।
यः करोति निजे धर्मे स राजा स्वर्गमृच्छति॥२७.२८॥

वर्णधर्मा न सीदन्ति यस्य राज्ये तथाश्रमाः ।
वत्स ! तस्य सुखं प्रेत्य परत्रेह च शाश्वतम्॥२७.२९॥

एतद्राज्ञः परं कृत्यं तथैतत् सिद्धिकारकम् ।
स्वधर्मस्थापनं नृणां चाल्यन्ते ये कुबुद्धिभिः॥२७.३०॥

पालनेनैव भूतानां कृतकृत्यो महीपतिः ।
सम्यक् पालयिता भागं धर्मस्याप्नोति यत्नतः॥२७.३१॥


इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे आत्मविवेको नाम सप्तविंशोऽध्यायः
28(25)

अष्टाविंशोऽध्यायः

जड उवाच

तन्मातुर्वचनं श्रुत्वा सोऽलर्को मातरं पुनः ।
पप्रच्छ वर्णधर्मांश्च धर्मा ये चाश्रमेषु च॥२८.१॥


अलर्क उवाच

कथितोऽयं महाभागे ! राज्यतन्त्राश्रितस्त्वया ।
धर्मं तमहमिच्छामि श्रोतुं वर्णाश्रमात्मकम्॥२८.२॥


मदालसोवाच

दानमध्ययनं यज्ञो ब्राह्मणस्य त्रिधा मतः ।
नान्यश्चतुर्थो धर्मोऽस्ति धर्मस्तस्यापदं विना॥२८.३॥

याजनाध्यापने शुद्धे तथा पूतप्रतिग्रहः ।
एषा सम्यक् समाख्यता त्रिविधा चास्य जीविका॥२८.४॥

दानमध्ययनं यज्ञः क्षत्रियस्याप्ययं त्रिधा ।
धर्मः प्रोक्तः क्षिते रक्षा शस्त्राजीवञ्च जीविका॥२८.५॥

दानमध्ययनं यज्ञो वैश्यस्यापि त्रिधैव सः ।
वाणिज्यं पाशुपाल्यञ्च कृषिश्चैवास्य जीविका॥२८.६॥

दानं यज्ञोऽथ शुश्रूषा द्विजातीनां त्रिधा मया ।
व्याख्यातः शूद्रधर्मोऽपि जीविका कारुकर्म च॥२८.७॥

तद्वद् द्विजातिशुश्रूषा पोषणं क्रयविक्रयौ ।
वर्णधर्मास्त्विमे प्रोक्ताः श्रूयन्तां चाश्रमाश्रयाः॥२८.८॥

स्ववर्णधर्मात् संसिद्धिं नरः प्राप्नोति न च्युतः ।
प्रयाति नरकं प्रेत्य प्रतिषिद्धनिषेवणात्॥२८.९॥

यावत्तु नोपनयनं क्रियते वै द्विजन्मनः ।
कामचेष्टोक्तिभक्ष्यश्च तावद् भवति पुत्रक॥२८.१०॥

कृतोपनयनः सम्यग् ब्रह्मचारी गुरुर्गृहे ।
वसेत्तत्र च धर्मोऽस्य कथ्यते तं निबोध मे॥२८.११॥

स्वाध्यायोऽथाग्रिशुश्रूषा स्नानं भिक्षाटनं तथा ।
गुरोर्निवेद्य तच्चान्नमनुज्ञातेन सर्वदा॥२८.१२॥

गुरोः कर्मणि सोद्योगः सम्यक् प्रीत्युपपादनम् ।
तेनाहूतः पठेच्चैव तत्परो नान्यमानसः॥२८.१३॥

एकं द्वौ सकलान् वापि वेदान् प्राप्य गुरोर्मुखात् ।
अनुज्ञातोऽथ वन्दित्वा दक्षिणां गुरवे ततः॥२८.१४॥

गार्हस्थ्याश्रमकामस्तु गृहस्थाश्रममावसेत् ।
वानप्रस्थाश्रमं वापि चतुर्थं चेच्छयात्मनः॥२८.१५॥

तत्रैव वा गुरोर्गेहे द्विजो निष्ठामवाप्नुयात् ।
गुरोरभावे तत्पुत्रे तच्छिष्ये तत्सुतं विना॥२८.१६॥

शुश्रूषुर्निरभिमानो ब्रह्मचार्याश्रमं वसेत् ।
उपावृत्तस्ततस्तस्मात् गृहस्थाश्रमकाम्यया॥२८.१७॥

ततोऽसमानर्षिकुलां तुल्यां भार्यामरोगिणीम् ।
उद्वहेन्न्यायतोऽव्यङ्गां गृहस्थाश्रमकारणात्॥२८.१८॥

स्वकर्मणा धनं लब्ध्वा पितृदेवातिथींस्तथा ।
सम्यक् सम्प्रीणयन् भक्त्या पोषयेच्चाश्रितांस्तथा॥२८.१९॥

भृत्यात्मजान् जामयोऽथ दीनान्धपतितानपि ।
यथाशक्त्यान्नदानेन वयांसि पशवस्तथा॥२८.२०॥

एष धर्मो गृहस्थस्य ऋतावभिगमस्तथा ।
पञ्चयज्ञविधानन्तु यथाशक्त्या न हापयेत्॥२८.२१॥

पितृदेवातिथिज्ञातिभुक्तशेषं स्वयं नरः ।
भुञ्जीत च समं भृत्यैर्यथाविभवमादृतः॥२८.२२॥

एष तूद्देशतः प्रोक्तो गृहस्थस्याश्रमो मया ।
वानप्रस्थस्य धर्मं ते कथयाम्यवधार्यताम्॥२८.२३॥


अपत्यसन्ततिं दृष्ट्वा प्राज्ञो चानतिम् ।
वानप्रस्थाश्रमं गच्छेदात्मनः शुद्धिकारणात्॥२८.२४॥

तत्रारण्योपभोगश्च तपोभिश्चानुकर्षणम् ।
भूमौ शय्या ब्रह्मचर्यं पितृदेवातिथिक्रिया॥२८.२५॥

होमस्त्रिषवणस्त्रानं जटावल्कलधारणम् ।
योगाभ्यासः सदा चैव वन्यस्नेहनिषेवणम्॥२८.२६॥

इत्येष पापशुद्ध्यर्थमात्मनश्चोपकारकः ।
वानप्रस्थाश्रमस्तस्माद् भिक्षोस्तु चरमोऽपरः॥२८.२७॥

चतुर्थस्य स्वरूपं तु श्रुयतामाश्रमस्य मे ।
यः स्वधर्मोऽस्य धर्मज्ञैः प्रोक्तस्तात ! महात्मभिः॥२८.२८॥

सर्वसङ्गपरित्यागो ब्रह्मचर्यमकोपिता ।
यतेन्द्रियत्वमावासे नैकस्मिन् वसतिश्चिरम्॥२८.२९॥

अनारम्भस्तथाहारो भैक्षान्नेनैककालिना ।
आत्मज्ञानावबोधेच्छा तथा चात्मावलोकनम्॥२८.३०॥

चतुर्थे त्वाश्रमे धर्मो मयायं ते निवेदितः ।
सामान्यमन्यवर्णानामाश्रमाणाञ्च मे शृणु॥२८.३१॥

सत्यं शौचमहिंसा च अनसूया तथा क्षमा ।
आनृशंस्यमकार्पण्यं सन्तोषश्चाष्टमो गुणः॥२८.३२॥

एते संक्षेपतः प्रोक्ता धर्मा वर्णाश्रमेषु ते ।
एतेषु च स्वधर्मेषु स्वेषु तिष्ठेत् समन्ततः॥२८.३३॥

यश्चोल्लङ्घ्य स्वकं धर्मं स्ववर्णाश्रमसंज्ञितम् ।
नरोऽन्यथा प्रवर्तेत स दण्ड्यो भूभृतो भवेत्॥२८.३४॥

ये च स्वधर्मसन्त्यागात् पापं कुर्वन्ति मानवाः ।
उपेक्षतस्तान् नृपतेरिष्टापूर्तं प्रणश्यति॥२८.३५॥

तस्माद्राज्ञा प्रयत्नेन सर्वे वर्णाः स्वधर्मतः ।
प्रवर्तन्तोऽन्यथा दण्ड्याः स्थाप्याश्चैव स्वकर्मसु॥२८.३६॥


इति श्रीमार्कण्डेयपुराणे पुत्रानुशासने मदालसावाक्यं नामाष्टाविंशोऽध्यायः


29(26)

ऊनत्रिंशोऽध्यायः

अलर्क उवाच

यत् कार्यं पुरुषाणाञ्च गार्हस्थ्यमनुवर्तताम् ।
बन्धश्च स्यादकरणे क्रियाया यस्य चोच्छ्रितिः॥२९.१॥

उपकाराय यन्नृणां यच्च वर्ज्यं गृहे सता ।
यथा च क्रियते तन्मे यथावत् पृच्छतो वद॥२९.२॥


मदालसोवाच

वत्स ! गार्हस्थ्यमादाय नरः सर्वमिदं जगत् ।
पुष्णाति तेन लोकांश्च स जयत्यभिवाञ्छितान्॥२९.३॥

पितरो मुनयो देवा भूतानि मनुजास्तथा ।
कृमिकीटपतङ्गाश्च वयांसि पशवोऽसुराः॥२९.४॥

गृहस्थमुपजीवन्ति ततस्तृप्तिं प्रयान्ति च ।
मुखं चास्य निरीक्षन्ते अपि नो दास्यतीति वै॥२९.५॥

सर्वस्याधारभूतेयं वत्स ! धेनुस्त्रयीमयी ।
यस्यां प्रतिष्ठितं विश्वं विश्वहेतुश्च या मता॥२९.६॥

ऋक्पृष्ठासौ यजुर्मध्या सामवक्त्रशिरोधरा ।
इष्टापूर्तविषाणा च साधुसूक्ततनूरुहा॥२९.७॥

शान्तिपुष्टिशकृन्मूत्रा वर्णपादप्रतिष्ठिता ।
आजीव्यमाना जगतां साक्षया नापचीयते॥२९.८॥

स्वाहाकारस्वधाकारौ वषट्कारश्च पुत्रक ! ।
हन्तकारस्तथा चान्यस्तस्याःस्तनचतुष्टयम्॥२९.९॥

स्वाहाकारं स्तनं देवाः पितरश्च स्वधामयम् ।
मुनयश्च वषट्कारं देवभूतसुरेतराः॥२९.१०॥

हन्तकारं मनुष्याश्च पिबन्ति सततं स्तनम् ।
एवमाप्याययत्येषा वत्स ! धेनुस्त्रयीमयी॥२९.११॥

तेषामुच्छेदकर्ता च यो नरोऽत्यन्तपापकृत् ।
स तमस्यान्धतामिस्त्रे तामिस्त्रे च निमज्जति॥२९.१२॥

यश्चेमां मानवो धेनुं स्वैर्वत्सैरमरादिभिः ।
पाययत्युचिते काले स स्वर्गायोपपद्यते॥२९.१३॥

तस्मात् पुत्र ! मनुष्येण देवर्षिपितृमानवाः ।
भूतानि चानुदिवसं पोष्याणि स्वतनुर्यथा॥२९.१४॥

तस्मात् स्त्रातः शुचिर्भूत्वा देवर्षिपितृतर्पणम् ।
प्रजापतेस्तथैवादिभः काले कुर्यात् समाहितः॥२९.१५॥

सुमनोगन्धपुष्पैश्च देवानभ्यर्च्य मानवः ।
ततोऽग्नेस्तर्पणं कुर्याद्देयाश्च बलयस्तथा॥२९.१६॥

ब्रह्मणे गृहमध्ये तु विश्वेदेवेभ्य एव च ।
धन्वन्तरिं समुद्दिश्य प्रागुदीच्यां बलिं क्षिपेत्॥२९.१७॥


प्राच्यां शक्राय याम्यायां यमाय बलिमाहरेत् ।
प्रतीच्यां वरुणायाथ सोमायोत्तरतो बलिम्॥२९.१८॥

दद्याद्धात्रे विधात्रे बलिं द्वारे गृहस्य तु ।
अर्यम्णेऽथ बहिर्दद्याद् गृहेभ्यश्च समन्ततः॥२९.१९॥

नक्तञ्चरेभ्यो भूतेभ्यो बलिमाकाशतो हरेत् ।
पितॄणां निर्वपेच्चैव दक्षिणाभिमुखस्थितः॥२९.२०॥

गृहस्थस्तत्परो भूत्वा सुसमाहितमानसः ।
ततस्तोयमुपादाय तेष्वेवाचमनाय वै॥२९.२१॥

स्थानेषु निक्षिपेत् प्राज्ञस्तास्ता उद्दिश्य देवताः ।
एवं गृहबलिं कृत्वा गृहे हृहपतिः शुचिः॥२९.२२॥

आप्यायनाय भूतानां कुर्यादुत्सर्गमादरात् ।
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद् भुवि॥२९.२३॥

वैश्वदेवं हि नामैतत् सायं प्रातरुदाहृतम् ।

आचम्य च ततः कुर्यात् प्राज्ञो द्वारावलोकनम्॥२९.२४॥

मुहूर्तस्याष्टमं भागमुदीक्ष्योऽप्यतिथिर्भवेत् ।
अतिथिं तत्र सम्प्राप्तमन्नाद्येनोदकेन च॥२९.२५॥

सम्पूजयेद्यथाशक्ति गन्धपुष्पादिभिस्तथा ।
न मित्रमतिथिं कुर्यान्नैकग्रामनिवासिनम्॥२९.२६॥

अज्ञातकुलनामानं तत्कालसमुपस्थितम् ।
बुभुक्षुमागतं श्रान्तं याचमानमकिञ्चनम्॥२९.२७॥

ब्राह्मणं प्राहुरतिथिं स पूज्यः शक्तितो बुधैः ।
न पृच्छेद् गोत्रचरणं स्वाध्यायञ्चापि पण्डितः॥२९.२८॥

शोभनाशोभनाकारं तं मन्येत प्रजापतिम् ।
अनित्यं हि स्थितो यस्मात् तस्मादतिथिरुच्यते॥२९.२९॥

तस्मिंस्तृप्ते नृयज्ञोत्थादृणान्मुच्येद् गृहाश्रमी ।
तस्माद् अदत्त्वा यो भुङ्क्ते स्वयं किल्विषभुङ्नरः॥२९.३०॥

स पापं केवलं भुङ्क्ते पुरीषञ्चान्यजन्मनि ।
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते॥२९.३१॥

स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ।
अप्यम्बुशाकदानेन यद्वाप्यश्नाति स स्वयम्॥२९.३२॥

पूजयेत् तु नरः शक्त्या तेनैवातिथिमादरात् ।
कुर्याच्चाहरहः श्राद्धमन्नाद्येनोदकेन च॥२९.३३॥

पितॄनुद्दिश्य विप्रांश्च भोजयेद्विप्रमेव वा ।
अन्नस्याग्रं तदुद्धृत्य ब्राह्मणायोपपादयेत्॥२९.३४॥

भिक्षाञ्च याचतां दद्यात् परिव्राड्ब्रह्मचारिणाम् ।
ग्रासप्रमाणा भिक्षा स्यादग्रं ग्रासचतुष्टयम्॥२९.३५॥

अग्रं चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः ।
भोजनं हन्तकारं वा अग्रं भिक्षामथापि वा॥२९.३६॥

अदत्त्वा तु न भोक्तव्यं यथाविभवमात्मनः ।
पूजयित्वातिथीनिष्टान् ज्ञातीन् बन्धूंस्तथार्थिनः॥२९.३७॥

विकलान् बालवृद्धांश्च भोजयेच्चातुरांस्तथा ।
वाञ्छते क्षुत्परीतात्मा यच्चान्योऽन्नमकिञ्चनः॥२९.३८॥

कुटुम्बिना भोजनीयः समर्थे विभवे सति ।
श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति॥२९.३९॥

सीदता यद् कृतं तेन तत् पापं स समश्नुते ।
सायं चैव विधिः कार्यः सूर्योढं तत्र चातिथिम्॥२९.४०॥

पूजयीत यथाशक्ति शयनासनभोजनैः ।
एवमुद्दवहतस्तात ! गार्हस्थ्यं भारमाहितम्॥२९.४१॥


स्कन्धे विधाता देवाश्च पितरश्च महर्षयः ।
श्रेयोऽभिवर्षिणः सर्वे तथैवातिथिबान्धवाः॥२९.४२॥

पशुपक्षिगणास्तृप्ता ये चान्ये सूक्ष्मकीटकाः ।
गाथाश्चात्र महाभाग ! स्वयमत्रिरगायत॥२९.४३॥

ता शृणुष्व महाभाग ! गृहस्थाश्रमसंस्थिताः ।
देवान् पितॄंश्चातिथींश्च तद्वत् सम्पूज्य बान्धवान्॥२९.४४॥

जामयश्च गुरुञ्चैव गृहस्थो विभवे सति ।
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद् भुवि॥२९.४५॥

वैश्वदेवं हि नामैतत् कुर्यात् सायं तथा दिने ।
मांसमन्नं तथा शाकं गृहे यच्चोपसाधितम् ।
न च तत् स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत्॥२९.४६॥


इति श्रीमार्कण्डेयपुराणे मदालसोपदेशो नामोनत्रिंशोऽध्यायः
30(27)

त्रिंशोऽध्यायः

मदालसोवाच

नित्यं नैमित्तकञ्चैव नित्यनैमित्तिकं तथा ।
गृहस्थस्य तु यत् कर्म तन्निशामय पुत्रक !॥३०.१॥

पञ्चयज्ञाश्रितं नित्यं यदेतत् कथितं तव ।
नैमित्तिकं तथैवान्यत् पुत्रजन्मक्रियादिकम्॥३०.२॥

नित्यनैमित्तिकं ज्ञेयं पर्वश्राद्धादि पण्डितैः ।
तत्र नैमित्तिकं वक्ष्ये श्राद्धमभ्युदयं तव॥३०.३॥

पुत्रजन्मनि यत्कार्यं जातकर्मसमं नरैः ।
विवाहादौ च कर्तव्यं सर्वं सम्यक् क्रिमोदितम्॥३०.४॥

पितरश्चात्र सम्पूज्याः ख्याता नान्दीमुखास्तु ये ।
पिण्डांश्च दधिसंमिश्रान् दद्याद् यवसमन्वितान्॥३०.५॥

उदङ्मुखः प्राङ्मुखो वा यजमानः समाहितः ।
वैश्वदेवविहीनं तत् केचिदिच्छन्ति मानवाः॥३०.६॥

युग्माश्चात्र द्विजाः कार्यास्ते च पूज्याः प्रदक्षिणम् ।

एतन्नैमित्तिकं वृद्धौ तथान्यच्चौर्ध्वदेहिकम्॥३०.७॥

मृताहनि च कर्तव्यमेकोद्दिष्टं शृणुष्व तत् ।
दैवहीनं तथा कार्यं तथैवैकपवित्रकम्॥३०.८॥

आवाहनं न कर्तव्यमग्नौकरणवर्जितम् ।
प्रेतस्य पिण्डमेकञ्च दद्यादुच्छिष्टसन्निधौ॥३०.९॥

तिलोदकं चापसव्यं तन्नामस्मरणान्वितम् ।
अक्षय्यममुकस्येति स्थाने विप्रविसर्जने॥३०.१०॥

अभिरण्यतामिति ब्रूयाद् ब्रूयुस्तेऽभिरताः स्म ह ।
प्रतिमासं भवेदेतत् कार्यमा वत्सरं नरैः॥३०.११॥

अथ संवत्सरे पूर्णे यदा वा क्रियते नरैः ।
सपिण्डीकरणं कार्यं तस्यापि विधिरुच्यते॥३०.१२॥

तच्चापि दैवरहितमेकार्घ्यैकपवित्रकम् ।
नैवाग्नौकरणं तत्र तच्चावाहनवर्जितम्॥३०.१३॥

अपसव्यञ्च तत्रापि भोजयेदयुजो द्विजान् ।
विशेषस्तत्र चान्योऽस्ति प्रतिमासं क्रियाधिकः॥३०.१४॥

तं कथ्यमानमेकाग्रो वदन्त्या मे निशामय ।
तिलगन्धोदकैर्युक्तं तत्र पात्रचतुष्टयम्॥३०.१५॥

कुर्यात् पितॄणां त्रितयमेकं प्रेतस्य पुत्रक ।
पात्रत्रये प्रेतपात्रमर्घ्यञ्चैव प्रसेचयेत्॥३०.१६॥

ये समाना इति जपन् पूर्ववच्छेषमाचरेत् ।
स्त्रीणामप्येवमेवैतदेकीद्दिष्टमुदाहृतम्॥३०.१७॥

सपिण्डीकरणं तासां पुत्राभावे न विद्यते ।
प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः॥३०.१८॥

मृताहनि यथान्यायं नृणां यद्वदिहोदितम् ।
पुत्राभावे सपिण्डास्तु तदभावे सहोदकाः॥३०.१९॥

मातुः सपिण्डा ये च स्युर्ये च मातुः सहोदकाः ।
कुर्युरेनं विधिं सम्यगपुत्रस्य सुतासुतः॥३०.२०॥

कुर्युर्मातामहायैवं पुत्रिकास्तनयास्तथा ।
द्व्यामुष्यायणसंज्ञास्तु मातामहपितामहान्॥३०.२१॥

पूजयेयुर्यथान्यायं श्राद्धैर्नैमित्तिकैरपि ।
सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाममन्त्रकम्॥३०.२२॥

तदभावे च नृपतिः कारयेत् स्वकुटुम्बिना ।
तज्जातीयैर्नरैः सम्याग् दाहाद्याः सकलाः क्रियाः॥३०.२३॥

सर्वेषामेव वर्णानां बान्धवो नृपतिर्यतः ।
एतास्ते कथिता वत्स ! नित्यनैमित्तकास्तथा॥३०.२४॥

क्रियां श्राद्धाश्रयामन्यां नित्यनैमित्तिकीं शृणु ।
दर्शस्तत्र निमित्तं वै कालश्चन्द्रक्षयात्मकः ।
नित्यातां नियतः कालस्तस्याः संसूचयत्यथ॥३०.२५॥


इति श्रीमार्कण्डेयपुराणे अलर्कानुशासने नैमित्तिकादिश्राद्धकल्पो नाम त्रिंशोऽध्यायः