पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 91

अत्रोद्देशकः।

वैश्याः स्वर्णशलाकाश्चिकीर्षवः स्वर्णवर्णज्ञाः।
चक्रुः स्वर्णशलाक द्वादशवर्णं तदाद्यस्य ॥ १९३॥

चतुरुत्तरदशवर्णा षोडशवर्णं तृतीयस्य ।
कनकं चास्ति प्रथमस्यैकोनं च द्वितीयस्य ॥ १९४ ॥

अर्धार्धन्यूनमथ तृतीयपुरुषस्य पादानम् ।
परवणादारभ्य प्रथमस्येकान्त्यमेव च व्यन्यम् ॥ १९५ ॥

यन्यं तृतीयवणिजः सर्वशलाकास्तु माषमिताः ।
भृढं कनक किं स्यात् प्रपूरणी का पृथक् पृथक् त्वं मे।
आचक्ष्व गणक शीघ्र सुवर्णगणितं हि यदि वेत्सि ॥ १९६(१/२) ॥

विनमयवणसुवणनयनसूत्रम् --

क्रयगुणसुवर्णविनिमयवर्गेष्टनान्तरं पुनः स्थाप्यम्।
व्यस्तं भवति हि विनिमयवर्णान्तरहृत्फलं कनक : ॥ १९७(१/२) ॥

अत्रोद्देशकः।

षोडशवणं कनकं सप्तशतं विनिमयं कृतं लभते ।
द्वादशदशवणोभ्यां साष्टसहस्त्रं तु कनकं किम् ।। १९८(१/२) ॥

बहुपदविनिमयसुवर्णकरणसूत्रम्-

वणन्नकनकमेष्टवर्णनात दृढक्षयो भवति ।
प्राग्वत्प्रसाथ लखधं विनिमयबहुपदसुवर्णानाम् ॥ १९९(१/२) ॥

अत्रोद्देशकः।

वर्णचतुर्दशकनकं शतत्रयं विनिमयं प्रकुर्वन्तः।
वर्णद्वादशदश्वसुनगैश्च शतपञ्चकं स्वर्णम् ।


9-A