पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 89

अज्ञातवर्णहेम्नः पञ्च विमिश्रक्षयं च सैकदश।
अज्ञातवर्णसङ्कयां ब्रूहि सरवे गणिततज्ञ ॥ १७८ ॥

चतुर्दशैव वर्णानि सप्त स्वर्णानि तत्क्षये।
चतुस्वरों दशोत्पन्नमज्ञातक्षयकं वद ॥ १७९ ॥

अज्ञातखणीनयनसूत्रम्

स्वस्वर्णवर्णविनिहतयोगं खगैक्यगुणितदृढवर्णात् ।
त्यक्त्वाज्ञातस्वर्णक्षयदृढवर्णान्तराहतं कनकम् ॥ १८० ॥

अत्रोद्देशकः ।

द्वित्रिचतुःक्षयमानास्त्रिस्त्रिः कनकास्त्रयोदशक्षयिकः।
वर्णयुतिर्दश जाता ब्रूहि सखे कनकपरिमाणम् ॥ १८१ ॥

युग्मवणोमश्रसुवणोनयनसूत्रम्

ज्येष्ठारुपक्षयशोधितपक्कविशेषाप्तरूपकैः प्राग्वत् ।
प्रक्षेपमतः कुर्यादेवं बहुशोऽपि वा साध्यम् ॥ १८२ ॥

पुनरपि युग्मवर्णमिश्रवणनयनसूत्रम्-

इष्टाधिकान्तरं चैव हीनेष्टन्तरमेव च ।
उभे ते स्थापयेद्यस्तं स्वर्गं प्रक्षेपतः फलम् ॥ १८३ ॥

अत्रादकः

दशवर्णसुवर्णं यत् षोडशवर्णेन संयुतं पक्वम् ।
द्वादश चेत्कनकशतं द्विभेदकनके पृथक् पृथग्बृहि ॥ १८४ ॥

बहुस्रवणनयनसूत्रम्

व्येकपदानां क्रमशः स्वर्णानीष्टानि करपयेच्छषम् ।
अव्यक्तकनकाविधिना प्रसाधयेत् प्राक्तनायेव ॥ १८५ ॥


1 Phe reading in the MSS. i8 तत्क्षय, which is obviously erroneous.