पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकव्यवहारः 53

अथ द्विरग्रशेषमूलजातौ सूत्रम् –

मूलं दृश्यं च भजेदंशकपरिहाणरूपघान ।
पूर्वाग्रमग्रराशौ क्षिपेदतश्शेषमूलविधिः ॥ ४७ ॥

अत्राद्देशकः ।

मधुकर एको दृष्टः रवे पदं शेषपञ्चमचतुर्थे ।
शेषन्यंशो मूलं द्वावाने ते कियन्तः स्युः ॥ ४८ ॥

सिंहाश्चत्वारोऽद्रौ प्रतिषषडंशकादिमर्धान्ताः ।
मूल चत्वारोऽपि च विपिने दृष्टाः कियन्तस्ते ॥ ४९ ॥

तरुणहरिणीयुग्मं दृष्टं द्विसङ्गणत वने ।
कुधरनिकटे शेषाः पञ्चांशकादिदलान्तिमाः।

विपुलकलमक्षेत्रे तासां पदं त्रिभिराहतं
कमलसरसीतीरे तस्थुदशव गणः कियान् ॥ । ५० ॥ ।

इति द्विरग्रशेषमूलजातिः ॥

अथांशमूलजातौ सूत्रम् –

भागगुणे मूलाग्रे न्यस्य पदप्राप्तदृश्यकरणेन ।
यछब्धं भागहतं धनं भवेदंशमूलविधौ ॥ ५१ ॥

अन्यदपि मूत्रम् --

दृश्यादंशकभक्ताच्चतुर्गुणान्मूलकृतियुतान्मूलम् ।
सपदं दलितं वर्णितमंशाभ्यस्तं भवेत् सारम् ॥ १२ ॥


1 B reads द्वौ चामे.