समासः०७ कवीश्वरस्तवनम्

विकिस्रोतः तः

अथ वन्दे कवीश्वरान्।ये शब्दसृष्टेः ईश्वराः।अथवा वेदम् अवतारयन्तः परमेश्वरस्वरूपाः।१.७.१
अथवा एते सरस्वत्याः मूलस्थानम्।नाना कलानां जीवनम्।अथवा नूनं नानाशब्दानां भुवनम्।१.७.२
अथवा एते परुषार्थस्य वैभवम्।अथवा जगदीश्वरस्य माहात्म्यं, लीलाः, सत्कीर्तिं वर्णयितुम् एव जाताः।१.७.३
अथवा एते शब्दरत्नसागराः।अथवा मुक्तानां मुक्तः सरोवरः अथवा नाना बुद्धीनां खनयः।१.७.४
एते अध्यात्मग्रन्थानां खनिस्वरूपाः, अथवा सवचनाः चिन्तामणयः अथवा नाना कामधेनूनां दोहनानि श्रोतृभिः प्राप्तानि।१.७.५
अथवा एते कल्पनायाः कल्पतरवः।अथवा एते मोक्षस्य मुख्याश्रयाः।सायुज्यमोक्षस्य नाना विस्तरः एते कवयः।१।७।६
अथवा एते परलोकप्राप्तेः उपायभूताः, अथवा योगिनां गुप्तमार्गः, अथवा ज्ञानिनां परमार्थः मूर्तः जातः।१.७.७
अथवा निरञ्जनस्य चिह्नं, निर्गुणस्य अभिज्ञानं, मायाविलक्षणस्य (ब्रह्मणः)लक्षणम् एते कवयः।१.७.८
अथवा श्रुतेः भावगर्भः अथवा परमेश्वरस्य दुर्लभः लाभः, अथवा निजबोधः एव कविरूपेण सुलभः जातः॥१.७.९
कवयो नाम मुमुक्षोः(दृष्टिप्रदानकरम्) अञ्जनम्।कवयो नाम (साधकानाम्) आदर्शभूतं साधनम्।कवयो नाम सिद्धानां निश्चयात्मकं समाधानम्।१.७.१०
कवयो नाम स्वधर्मस्य आश्रयः। कवयो नाम मनोजयस्य उपायवक्तारः। कवयो नाम धार्मिकाणां कृते विनयरूपाः विनयकर्तारः च।१.७.११
कवयो नाम वैराग्यरक्षणम्। कवयो नाम भक्तभूषणम्।कवयो नाम नानाविधं स्वधर्मरक्षणम्।१.७.१२
कवयः प्रेमलानां प्रेमस्थितिः।कवयः ध्यानस्थानां ध्यानमूर्तिः।कवयः उपासकानां महती कीर्तिः, या जगति वितता॥१.७.१३
कविः नाना साधनानां मूलम्।कविः नाना प्रयत्नानां फलम्।नाना कार्याणां सिद्धिः कवेः केवलं प्रसादेन भवति।१.७.१४
आदौ कवेः वाग्विलासः भवति तर्हि श्रवणकाले रसः आपूर्यते।कविना कवित्वं प्रकाशते।१.७.१५
कवौ नाना प्रकारैः व्युत्पन्नस्य योग्यता वर्तते, समर्थस्य प्रभुता वर्तते, विचक्षणस्य कुशलता वर्तते।१.७.१६
कविना प्रबन्धः विरच्यते।कविना नाना चलनानि, नाना मुद्राः, नाना छन्दांसि क्रियन्ते।कवयः गद्यपद्ययो: भेदकर्तारः अभेदकर्तारः च।कवयः पदालङ्कारकर्तारः।१.७.१७
कवयः सृष्टेः अलङ्कारभूताः।कवयः लक्ष्म्याः शृङ्गारस्वरूपाः।एते कवयः नाना सुखानां संरक्षणोपायभूताः।१.७.१८
कवयः सृष्टेः अलङ्कारभूताः।कवयः लक्ष्म्याः शृङ्गारस्वरूपाः।एते कवयः नाना सुखानां संरक्षणोपायभूताः।१.७.१९
कवयो देवानां रूपं कुर्वन्ति।कवयः ऋषीणां माहात्म्यं वर्णयन्ति।कवयः नाना शास्त्राणां सामर्थ्यं स्तुवन्ति।१.७.२०
कविव्यापारः यदि नास्ति, तर्हि जगदुद्धारः कथं वा भवेत्? अतः कवयः सकलसृष्टेः आधारभूताः।१.७.२१
नाना विद्याः ज्ञातृत्वं कवीश्वराद् ऋते नास्ति।कवेः एव सर्वज्ञता प्राप्यते।१.७.२२
पूर्वं वाल्मीकिव्यासादयः नैके कवयः जाताः।तेभ्यः एव सकलजनाः विवेकं लभन्ते।१.७.२३
पूर्वं काव्यानि आसन्, अतः एव (पण्डितैः) पाण्डित्यं प्राप्तम्।तेन पण्डितेषु परमयोग्यता आहिता। १.७.२४
एवं पूर्वं महान्तः कवयः नैके आसन्, इदानीं सन्ति, अग्रेऽपि भविष्यन्ति।तेभ्यः नमः।१.७.२५
कवयः नानाविधस्य चातुर्यस्य मूर्तयः।अथवा कवयः इति साक्षात् बृहस्पतिः।श्रुतिरपि येषां मुखेन वक्तुकामा तेभ्यः नमः। १.७.२६
परोपकारमात्रं यैः नाना मतानाम् अनुवादः कृतः, अन्ततः परिपूर्णः सिद्धान्तः उक्तः (तेभ्यः नमः)१.७.२७
अथवा एते अमृतमेघाः सम्प्राप्ताः, अथवा नवरसानाम् ओघः प्रवहितः।अथवा नाना सुखानां सरोवरः उच्छलितः।१.७.२८
अथवा विवेकनिधेः एतानि भाण्डाराणि मनुष्याकारेण प्रकटितानि वा? यतः वस्तुविषयकैः नाना विचारैः परिपूर्णाः एते।१.७.२९
अथवा एते कवीश्वराः नाम आदिशक्तेः रक्षितांशः यद् नाना पदार्थाः अपि तत्र न्यूनायन्ते।विश्वेषां जनानां पूर्वसुकृतमस्ति अतः ते जगता प्राप्ताः।१.७.३०
अथवा एते कवीश्वराः नाम सुखनौकाः,याः अक्षयेण आनन्देन उत्फुल्लिताः, तथा नाना प्रयोगेषु सर्वजनोपयोगिन्यः जाताः।१.७.३१
अथवा एते कवीश्वराः नाम निरञ्जनस्य सम्पत्तिः, अथवा विराट्पुरुषस्य योगस्थितिः, अथवा भक्तेः फलश्रुतिः फलिता।१.७.३२
अथवा कवीश्वराः नाम गगनाद् अपि विशालः ईश्वरपराक्रमः, (यतो हि) कवेः प्रबन्धरचना ब्रह्माण्डरचनाद् अपि गुरुतरा।१.७.३३
अस्तु अयं विचारः।जगदाधाराः कवीश्वराः।तेभ्यो मम साष्टाङ्गः भावपूर्ण: नमस्कारः।१.७.३४
इति श्रीदासबोधे गुरुशिष्यसंवादे कवेश्वरस्तवननाम समासः सप्तमः॥ ७॥

दशक ०१ - स्तवनम् दासबोधः समर्थरामदासकृतयः