पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकव्यवहारः 51

अत्रोद्देशकः |

दृष्टोऽटव्यामुष्ट्रयूथस्य पादो
मूले च द्वे शैलसानौ निविष्टे ।

उष्ट्रास्त्रिनाः पच नद्यारतु तीरे
किं तस्य स्यादुष्टकस्य प्रमाणम् ।। ३४ ॥

श्रुत्वा वषभ्रमालापटहपटुरवं श्लङ्गरुरङ्ग
नायं चक्रे प्रमोदप्रमुदिताशिखिनां षडशांशTIऽष्टमश्च ।।

यशः शेषस्य षष्ठो वरवकुलवने पञ्च मूलानि तस्थुः
पुन्नागे पञ्च दृष्टा भण गणक गणं बर्हिणां सङ्गणय्य ॥ ३९ ॥

चरति कमलषण्डे सारसानां चतथै
नवमचरणभाग सप्त मूलानि चाद्रौ ।

विकचवकलमध्ये सप्तनिम्नाष्टमानाः
कति कथय सरवे त्वं पक्षिणों दक्ष साक्षात् ।। ३६ ॥

न भागः कांपवृन्दस्य त्रण मूलानि पर्वते ।
चत्वारिंशद्वने दृष्टा वानरास्तङ्गणः कियान् ॥ ३७ ॥

कलकण्ठानामधं सहकारतराः प्रफुछशाखायाम् ।
तिलकेऽष्टादश तस्थुनं मूलं कथय पिकनिकरम् ॥ ३८ ॥

हंसकुलस्य दलं वकुलेऽस्थात्
पञ्च पदानि तमालकुजाग्रे ।


• B reads हस्त.
3 B reads किं स्यात्तेषां कुञ्जराणां प्रमाणम् ।
१ B reade नागः
D