पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 
48 गणितसारसङ्गहः

आदायाम्भोरुहाणि स्तुतिशतमुखरः श्रावकस्तीर्थकृद्यः
पूजां चक्रे चतुभ्यं वृषभजिनवरात इयंशमेषाममुष्य ।

त्र्यंशं तुर्यं षडंशं तदनु सुमतये तन्नवद्वादशांशौ
शेषेभ्यो द्विद्विपङ्गं प्रमुदितमनसादत्त कि तत्प्रमाणम् ॥ ७ ॥

स्ववशीकृतेन्द्रियाणां दूरीकृतविषकषायदोषाणाम् ।
शीलगुणाभरणानां दयाङ्गनालेiङ्गताङ्गानाम् ॥ ८ ॥

साधूनां सद्वन्दं सन्दृष्टं द्वादशोऽस्य तर्कज्ञः ।
चत्र्यंशवर्जितोऽयं सैद्धान्तश्छान्दसस्तयोश्शेषः ॥ ९ ॥

षडुन्नऽयं धर्मकथी स एव नैमित्तिकः स्वपादोनः ।
वादी तयोर्विशेषः षड्रणितोऽयं तपस्वी स्यात् ॥ १० ॥

गांराशरवरती मयापदृष्ट
यांतपतयां नवसङ्गणसङ्घाः ।
रविकरपरितापितोज्ज्वलाङ्गाः
कथय मुनीन्द्रसमूहमाशु मे त्वम् ॥ ११ ॥

फलभारनम्रकने शालिक्षेत्रे शुकास्समुपविष्टः।
सहसोत्थिता मनुष्यैः सर्वे सन्त्रासितास्सन्सः ॥ १२ ॥

तेषामर्थे प्राचीनादेयीं प्रति जगाम षड्भागः।
पूर्वानेयशिषः स्खदलनः स्वार्थवर्जितो यामीम् ॥ १३ ॥

यास्याग्रेयीशोषः स नैीतिं स्खद्विपञ्चभागोनः ।
यामीनैर्नत्यंशकपरिशेषो वारुणीमाशाम् ॥ १४ ॥

नैनीत्यपरविशेषो वायव्यां सस्खकत्रिसप्तशः ।
वायव्यपरविशेषो युतस्वसप्ताष्टमः सौमीम् ।। १५ ॥