वराहपुराणम्/विषयानुक्रमणिका

विकिस्रोतः तः

१ मङ्गलाचरणम्, अनुक्रमणिकाध्यायः, वराहं प्रति धरणीकृताः प्रश्नाः, हसतः क्रोडरूपिणो हरेरुदरे रुद्रसिद्धमहर्ष्यादिदर्शनम्


२ सृष्टिस्थितियुगादिमाहात्म्यम्, पुराणलक्षणम्, तत्रादौ सर्गः संक्षेपेण, अथ सृष्टिं विस्तरेण वदेति महीप्रश्नः, सात्विकसृष्टिः, तमोमोहमहामोह तामिस्रान्धतामिस्राख्यपञ्चपर्वाऽविद्योत्पत्तिः, पश्वादितिर्यक्स्रोतः सर्गः, देवाद्यूर्ध्वस्रोतः सर्गः, मनुष्याद्यर्वाक्स्रोतःसर्गः, पुनः षट्सर्गनामानि, अथ स्थितिः, तत्रादौ रुद्रसनकादिमरीच्याद्युत्पत्तिः, दक्षकन्याभ्यो देवदानवगन्धर्वोरगपक्षिणामुत्पत्तिः, रुद्रसर्गः, एकादशरुद्रसमुद्भवः, युगमाहात्म्यम्, स्वायंभुवात्मजप्रियव्रतसदसि नारदागमनम्, नारदावलोकिताश्चर्यनिरूपणम्, तत्र कन्यारूपसावित्रीदर्शनम्, नारदाय सावित्रीकृतं वेदादीनां दानम्


३ प्रियव्रतनारदसंवादः, नारदप्राग्जन्मवृत्तान्तः, ब्रह्मपारस्तवकथनम्, नारायणदर्शनम्, नारदवरप्राप्तिः


४ नारायणव्यापकत्वम्, नारायणस्याष्टमूर्तयः, प्रियव्रतमोक्षः, अश्व शिरश्चरितम्, अश्वमेधावभृथे ब्राह्मणैः परिवारितस्य तस्य कपिलजैगीषव्यसमागमः, नारायणदर्शनाभिलाषिणो राज्ञः संदेहवारणाय कपिलजैगीषव्याभ्यां विष्णुगरुडरूपधारणम्, पुनर्योगमायया शेषाङ्कशायिनारायणरूपदर्शनम्, नारायणस्य सर्वव्यापित्वकथनम्.


५ कर्मजन्यमोक्षादिकथनम्, मोक्षप्राप्तिनिमित्तं राज्ञः संशयं छेत्तुं रैभ्यवसुबृहस्पतिसंवादानन्तरं विप्रलुब्धकसंवादकथनम्, कपिलोप देशतोऽश्वशिरोराजर्षेर्वनगमनम्, तेन कृता यज्ञनारायणस्तुतिः, राज्ञो मुक्तिः


६ वसुराजर्षिणा कृतं पुण्डरीकाक्षपारस्तोत्रकथनम्, एवमुच्चरतस्तस्य देहाद्विनिर्गतव्याधकथितजन्मान्तरवृत्तान्तश्रवणम्, एतत्स्तवप्र- भावतो राजर्षेर्मुक्तिकथनम् इति वसुचरितम्


७ अथ तपोगदाधरस्तोत्राभ्यामुत्तमलोकप्राप्तिकथनम्, रैभ्यस्य तपश्चर्तुं गयायामागमनम्, तत्र तत्तपो द्रष्टुं सनत्कुमारागमनम्, प्रसङ्गेन विशालनृपतिपितृमुक्तिकथनद्वारा गयामाहात्म्यनिरूपणम, गदाधरस्तवप्रभावतो विष्णुप्रादुर्भावः, रैभ्यमुक्तिकथनम्,


८ धर्मव्याधचरितम्, मातङ्गाय व्याधस्य पुत्रीप्रदानम्, मातंगगृहागतेन तेन गोधूमव्रीह्यादिभक्षणे कोटिशो जीवघातित्वनिरूपणम्, तपश्चर्तुं व्याधस्य पुरुषोत्तमाख्यतीर्थागमनम्, व्याधकृतं विष्णुस्तोत्रम्, व्याधस्य वरप्राप्तिर्ब्रह्मणि लयश्च ...


९ मत्स्यावतारः, भूराद्युत्पत्तिः, तेजसश्चन्द्रसूर्यकल्पना, चातुर्वर्ण्यसर्ज्जनम्, नानाविधसृष्ट्या भूरादिलोकपूरणम्, व्यतीतायां तु रात्रौ मत्स्यरूपेण जले प्रविष्टस्य विष्णोर्जलकृता स्तुतिः, कूटस्यविकृतस्य भगवतो मूर्त्या लयवृद्धिनिरूपणम्


१० अथ सृष्टिः, सुप्रतीकादात्रेयप्रसादतो दुर्जयसुद्युम्नयोरुत्पत्तिः, दुर्जये राज्यधुरं न्यस्य सुप्रतीकस्य चित्रकूटगमनम्, दुर्जयेन भारतादि- वर्षाणां स्वायत्तीकरणम्, दुर्जयस्य देवराजं जेतुमुद्यमः, तन्नारदादवगम्य दुर्जयं हन्तुमिन्द्रस्य मेरुमुल्लंघ्य पूर्वदेशागमनम्, सुरादीञ्जित्वा प्रतिनिवृत्त्य पथि समागच्छतस्तस्य हेतृप्रहेत्रोः सुकेशीमिश्रकेश्याख्य. कन्याभ्यां परिणयनम्, ताभ्यां प्रभवसुदर्शनोत्पत्तिः, अरण्ये पर्यटतस्तस्य गौरमुखाश्रमागमनम्,


११ पुनर्दुर्जयचरित्रम्. गौरमुखकृतविष्णुस्तवेन साक्षान्नारायणदर्शनम्, भगवद्दत्तमणिप्रभावतो विविधैश्वर्यवर्णनम्, अक्षौहिणीबलयुतस्यातिथीभूतस्य तस्य राज्ञःपरितोषणम्, मणिमाच्छेत्तुं कृतोद्यमस्य राज्ञः मणिसमुत्पन्नैर्योधैः सह सुमहान्संगरः, चिन्तापरिप्लुतस्य गौरमुखस्य पुरतः प्रादुर्भूतस्य हरेः प्रार्थनया चक्रेण सकलसैन्यादिहननम्, अतःपरमिदं क्षेत्रं नैमिषारण्यसंज्ञितं भविष्यतीत्यादिकं कथयित्वा हरेरन्तर्धानम् ,


१२ ततश्चित्रकूटं समागतदुर्जयकृतश्रीरामस्तवनतस्तस्य मुक्तिः


१३ श्राद्धकल्पः, भगवत्कृतमहदाश्चर्यं निरीक्ष्य तमेवारिराधीयषोर्गौरमुखस्य मुनेः प्रभासनामसोमतीर्थगमनम्, तत्रागतमार्कण्डेयं प्रति गौरमुखकृतः पितृगणनादिप्रश्नः, मार्कण्डेयनिरुक्तः पैतृकः सर्गः, श्राद्धकालाः, श्राद्धैः पितृगणतृप्तिप्रदःकालः, रहस्यापरश्राद्धकालः, नाना विधतीर्थेषु श्राद्धम्, पितृगीतम्


१४ श्राद्धे निमन्त्रणयोग्यायोग्यब्राह्मणादिनिरूपणम, निमन्त्रणादिकम्, ब्राह्मणसंख्यादिकम्, भोजनायोपवेशनादिकथनम्, श्राद्धप्रकारः तत्राभ्यागतातिथिपूजननिर्णयः, होमविधिः, भोजनप्रकारः, अभिश्रवणम्, विकिरान्नदानादिः पिण्डदानादिकम्. श्राद्धान्ते वैश्वदेवादि


१५ गौरमुखस्य दशावतारस्तोत्रेण मोक्षः, गौरमुखस्य पूर्वजन्मशतं निशम्य पितॄनिष्ट्वा पश्चात्तेन कृतं दशावतारस्तोत्रम्, गौरमुखमोक्षः


१६ सरमोपाख्यानम्, दुर्वाससा शप्तस्येन्द्रस्य वाराणस्यां निवसनम्, दुर्जयं मृतं श्रुत्वा तुरंगमानीय देवान्प्रति विद्युत्सुविद्युदागमनम्, बृहस्पत्युपदेशेन देवानां गोमेधयज्ञारम्भः, शुक्रोपदेशतोऽसुरैश्चरन्तीनां गवां हरणम्, मरुद्भ्यो दैत्यैरपहृता गाः श्रुत्वा सरमानुयायिने- न्द्रेण दैत्यानां पराजयं कृत्वा गवामानयनम्, बहुयज्ञैः संवर्धितेनेन्द्रेण दैत्यचमूहननम्. सरमाख्यानश्रवणादिफलम्.


१७ अथ महातप उपाख्यानम्, श्रुतकीर्त्यात्मजप्रजापालस्य मृगयां चरतो महातपआश्रमगमनम्, मुनिं प्रति तेन मोक्षसंबंधिप्रश्नकरणम्, अहमहमिकया विवदमानेषु देवेषु जनार्दनप्रभाववर्णनद्वारा मोक्षमार्गोपदेशः


१८ अथाग्न्याद्युत्पत्तिवर्णनम्, पञ्चमहाभूतोत्पत्तिः, वैश्वानराद्युत्पत्तिः


१९ अथाग्निप्राशस्त्यम्, पावकाय प्रतिपत्तिथिदानम्, तस्यां होमादिना पितृतृप्तिः, तस्यासुपोषणफलम्, एतच्छ्रवणफलम्.


२० अथाश्विनोरुत्पत्तिः, मरीचिवंशसमुत्पन्नमार्तण्डाय त्वष्ट्रा दत्तं कन्या- दानम्, तस्य तेजोऽसहमानतयाऽश्वरूपिण्यां तस्यामश्विनोरुत्पत्तिः, मार्तण्डेनोपदिष्टयोरश्विनोस्तपश्चरणम्, ताभ्यामीरितं ब्रह्मपारमयस्तोत्रपाठेन प्रजापतेर्वरप्राप्तिः, ताभ्यां द्वितीयातिथिदानम्, अस्यामुपोषण- फलम्, श्रवणफलञ्च.


२१ गौर्युत्पत्तिः, प्रजाः स्रष्टुमसमर्थस्य रुद्रस्य जले निमज्जनम्, दक्षात्स- वासवानराणामुत्पत्तिः, दक्षयज्ञारम्भः, तत्र ऋषिदेवादीनां नानाविघ्नकर्मणि कल्पना, रुद्रस्य जलाद्बहिर्निर्गमनम्, अन्यकृतसृष्ट्यादिवर्णनं निरीक्ष्य कोपान्नदतो रुद्रस्य श्रोत्रेभ्यो भूतप्रेतादीनामुत्पत्तिः, कुपि- तस्य रुद्रस्य तैः सार्द्धं दक्षयज्ञं प्रति गमनम्, तत्र महासंग्रामवर्णनम्, तत्र भगादीनां नानावयवकृन्तनम्, तत्रागतेन विष्णुना सह प्रवृत्तं युद्धम्, तत्र हरिहरनियोजितनारायणपाशुपतास्त्रयोः प्रवृत्तं व्योम्नि युद्धम्, अन्योन्यातिशयसमेतौ तौ दृष्ट्वा तत्रागतेन परमेष्ठिना हरिहर युद्धप्रशमनम्, तत्र रुद्रभागकल्पना, देवैः कृता रुद्रस्तुतिः, ततस्तुष्टहरेण समग्रदेवानामवयवसमीकरणम्, रुद्राय दाक्षायणीदानम्, सर्वदे- वानां स्वस्वस्थानगमनम्.


२२ गौरीविवाहः, हिमवद्गृहेऽवतरितुं तत्रैव तपश्चरंत्याः सत्याः हिमवद्गृ- हेऽवतरणम्,ततोपि रुद्रं पतिमभिलषंत्यास्तस्यास्तपसाऽऽराधितहरस्य वृद्धब्राह्मणवेषेणागमनम्, स्नातुं गतस्य रुद्रस्य झषादुद्धरंत्यास्तस्याः स्वरूपदर्शनपुरःसरं पाणिग्रहणम्, पित्रे हिमवते तद्वृत्तान्तनिवेदनम्, पित्रा संमानितायास्तस्या विवाहोत्सवारम्भः, तत्र नारदादानीमागमनम्, उमायाः पाणिग्रहणम्, तृतीयायां संवृतत्वेनास्य तत्रलवणनिषेधः, उपोषणफलम्, श्रवणफलञ्च.


२३ अध गणपत्युत्पत्तिः, देवानां कैलासंप्रत्यागमनम्, परमेष्ठिनो हास्यतः कुमारोत्पत्तिः, मोहयन्तं तं दृष्ट्वा गजवक्त्रो भवेति शापदानम्, मस्तकं धुन्वानस्य तस्य देहाद्विनायकानां प्रादुर्भावः, तेषां नामकरणम्,वक्त्रसमुद्भवस्य गजवक्त्रस्य नामकरणम्, सर्वमखादिषु तस्य सर्वोत्कर्षत्वम्, देवैःकृता गणनायकस्तुतिः, एतत्सर्वं चतुर्थ्यां संवृत्तमेतस्मात्तस्यां तिलभक्षणपुरःसरं गणनायकाराधनावश्यकत्वम् एतच्छ्रवणादिफलम्. ..


२४ अथ सर्पोत्पत्तिः, कश्यपस्य कद्रूभार्यायामनन्तवासुक्यादिजननम्, तेषां वंशपरंपरया वृद्धिंगमितैर्मनुजादीनां विनाशः, ब्रह्मणः शरणं गतानां सांत्वनम्, सरीसृपेभ्यो ब्रह्मणा दत्तः शापः, शापानुग्रहश्च, पञ्चभ्यामस्यामुपोषणादिभिः सत्फलावाप्तिः


२५ अथ कार्तिकेयोत्पत्तिः, देवदैत्ययुद्धे वर्तमाने हिरण्यकशिपूप्रभृतिसै- न्याञ्जेतुमशक्यान्वीक्ष्य कमपि बलीयांसं सेनापतिं विधातुमांगिरसो- पदेशतः परमेष्ठिपुरोगमानां देवानां कैलासं प्रति गमनम्, देवैर्विहिता रुद्रस्तुतिः, शक्तिं क्षोभयतस्तस्य कुमारोत्पत्तिः सेनापतिकरणञ्च, , अस्यामुपोष्य पुत्रफलादिप्रप्तिः


२६ अथादित्योत्पत्तिः, सूर्यस्य नानाविधनामहेतवः, तस्यैवान्तःस्थिताना देवानां स्तुतिः । सप्तम्यां सूर्येण मूर्तिरङ्गीकृतातस्तस्यामुपोषणादिभिः शुभफलावाप्तिः.


२७ अथाष्टमात्रुत्पत्तिः, अन्धकात्परित्रस्तब्रह्मादिदेवानां शिवं प्रति गमनम्, समस्तदेवानां सत्कृतिः शंभुकृता, तावदेव तत्रान्धकागमनम्, देव- दैत्यानां तुमुलं युद्धम्, नारदमुखात्प्रवर्तमानं युद्धं श्रुत्वा तत्र नारायणागमनं दानवैः सह युद्धश्च. संगरे संक्रुद्धस्य शंभोर्मुखज्वालावि- निर्गमेन देव्युत्पत्तिः, अष्टमातृगणना, तया शोषिते रक्तेऽसुरचमू- नाशः एतच्छ्रवणफलम्


२८ अथ दुर्गाया उत्पत्तिः, इन्द्रवधाय सिन्धुद्वीपराज्ञस्तपश्चरणम्, मानुषं रूपमास्थाय तत्रागता वेत्रवत्या सह संगमेन वेत्रासुरोत्पत्तिः, तेन कृतो ब्रह्मादिदेवतानां पराजयः, तद्धननोपायं चिन्तयतो ब्रह्मणो देवीप्रादुर्भावः, युद्ध्यन्त्या देव्या वेत्रासुरह- ननं, देवानां स्तुतिश्च, देव्या ब्रह्मण आदेशाद्धिमालयगमनम्, कर्त व्यकार्यं प्रत्यादेशो ब्रह्मणः, नवमीव्रतनिरूपणम्, तत्कर्तुः फलञ्च.


२९ अथ दिगुत्पत्तिः, प्रजाधारणकारणं चिन्तयतो ब्रह्मणः श्रोत्रेभ्यो दश- कन्यानननम्, तासाञ्च स्वयंजनितेभ्यो दशलोकपालेभ्यो दानं दश मीतिथिदानञ्च, दशमीव्रतोपवातादिफलश्रुतिः


३० अय धनदोत्पत्तिः, सूष्टिकामस्य ब्रह्मणो मुखाद्वायुनिर्गमनम्, शर्करावर्षितया प्रतिषेधितस्य तस्यानिलस्य मूर्तिमत्करणम, तस्मा एकादशीतिथिदानम्, तद्व्रतप्रकारस्तत्कृतिफलञ्च


३१ अथ विष्णूत्पत्तिः, सृष्टायां सृष्टौ कर्मकाण्डं कर्तुमिच्छोर्नारायणस्प देहतो विष्णूत्पत्तिः, तन्नामकरणं,प्रजापालनं प्रत्यादेशश्च, नानायुधप्रदानम्, द्वादशीव्रतनिरूपणम्, तत्फलञ्च


३२ अथ धर्मोत्पत्तिः, प्रजापालनं चिन्तयतो ब्रह्मणो दक्षिणांगाद्वृषकृतिध- र्मोत्पत्तिः तस्य कृतादियुगेषु ब्राह्मणादिवर्णेषु च भिन्नभिन्नतया स्थितिः, तारां जिघृक्षु सोमेन धर्महेलनम्, सोमदोषेण कोपितानां देवासुराणां युद्धम्, ब्रह्मण आदेशाद्धर्मतोषणम्, अतः परं त्रयोदशीतिथिदानं धर्माय, तद्व्रतोपोषणादिफलम्


३३ अथ रुद्रोत्पात्तिः, सृष्ट्यवृद्धिकाले कुपितस्य ब्रह्मणो रुद्रोत्पत्तिः, ततः पिशाचाद्युत्पत्तिवर्णनम्,कुपितत्स्य रुद्रस्य स्तुतिपुरःसरं यज्ञेषु रुद्रभागकल्पनम्, तस्मै चतुर्दशीतिथिदानम्, श्रवणफलञ्च ...


३४ पितृसर्गस्थितिवर्णनम्, योगंगतस्य परमेष्ठिनो देहात्पितॄणामुत्पत्तिस्तेषां नामस्थानानि, तेषां वृत्तिकल्पना, अमावास्याया श्राद्धफलम् ...


३५ अथ सोमोत्पत्तिस्थितिरहस्यम्, स्वकन्याभिररममाणस्य चन्द्रमसः दक्षदत्तशापने क्षयः लोकहितार्थं वरुणालयमन्थनात्सोमोत्पत्तिः, पौर्णमास्युपोषणफलम्.


३६ प्राचीनेतिहासवर्णनम्, प्राङ्मणिजानां कृतादिषूत्पत्तिवर्णनम्; ततस्तपसे प्रवृत्तेन प्रजापालराज्ञा कृतां गविन्दस्तुतिः, तस्य ब्रह्मणि लयः


३७ अथ प्राचीनेतिहासवर्णनम्, भगवद्भक्तव्रतानि, देविकातटे तपश्चरत आरुणिमुनेर्वल्कलजिघृक्षयाऽऽगतस्य व्याधस्य ब्रह्मतेजसा प्रधर्षणम्, ब्राह्मणे प्रार्थयमानस्य व्याधस्य तत्र स्थितिः, तत्रागतस्य बुभुक्षितस्य कस्यचिद्व्याघ्रस्य नाशनपूर्वकं व्याधकृता ब्राह्मणरक्षा, नमोनारायणायेति मंत्रं निशम्य व्याघ्रस्य मुक्तिः, व्याघ्रस्य प्राग्जन्मनि शापादिकथनम्, व्याघ्रान्मोचितब्राह्मणकृतो व्याधस्य मोक्षमागार्पेदेशः


३८ तस्य व्याधस्य वाताहारतया तपश्चरतस्तत्र दुर्वास आगमनम्, भोजनं याचमानाय तस्मै नभस्तलात्पतितान्नपात्रदानम्, पुनश्च व्याधकृतस्तुत्या तुष्टाया देविकायास्तत्रागमनम्,तस्मै जलदानञ्च, तत्कृतातिथ्येन तुष्टस्य दुर्वाससस्तस्मै वेदादिप्रदानरूपवरस्तन्नामकरणं च


३९ अथ मत्स्यद्वादशीव्रतम्,. सत्यतपोदुर्वासःसंवादः, अवस्थाभेदतः शरीरस्य त्रयो भेदाः, ब्राह्मणादिषु चतुर्भेदं कर्मकाण्डम् दशमीमारभ्य द्वादशीप्रभृतिव्रताचारनियमाः, चतुःकुम्भादिदानम्, व्रतपूर्तौ ब्राह्मणभोजनादिकम्,. व्रतस्यास्याचरणेन महाफलश्रुतिः, अस्य श्रवणफलम् ...


४० कूर्मद्वादशीव्रतम्, पौषशुक्लद्वादशी कूर्मद्वादशी, तत्र कूर्मरूपिहरेः पूजनम्, ब्राह्मणाय भोजनदक्षिणादिकम्, तद्व्रताचरणफलं च


४१ वराहद्वादशीव्रतम्, माघशुक्लद्वादशीवराहद्वादशी, तत्र नारायणपूजनपुरःसरं द्विजातीनां पूजनं सदक्षिणभोजनं च त्तस्याः फलश्रुतौ वीरधन्वाख्यानम्, पित्रादेशेन प्रायश्चित्तं चिकीर्षतां मृगरूपधराणां ब्राह्मणानां वधः, देवरातशरणंगतत्य वीरधन्वन उपदिष्टव्रताचरणेन ब्रह्महत्यानिवारणम्


४२ अथ नृसिंहद्वादशीव्रतम्, फाल्गुनशुक्लद्वादशी नृसिंहद्वादशी, तस्यां स्वशक्त्या नृसिंहहरेः पूजनम्, ब्राह्मणेभ्यो दानादिकम्, शत्रुभिर्हृतराज्यस्य वत्सनाम्नो नृपस्य वसिष्ठोपदेशतोऽस्या द्वादश्या व्रताचरणेन पुना राज्यप्राप्तिः


४३ अथ वामनद्वादशीव्रतम्, वामनस्य पूजाप्रकारः, ब्राह्मणभ्यो दानादिकम्, व्रताचरणफलञ्च


४४ अथ जामदग्न्यद्वादशीव्रतम्, वैशाखशुक्लद्वादशी जामदग्न्यद्वादशी, तत्फलश्रुतौ वीरसेनोपाख्यानम्, पुत्रलिप्सया तपश्चरतस्तत्रागतयाज्ञवल्क्योपदिष्टजामदग्न्यद्वादशीव्रताचरणेन नलाख्यपुत्रावाप्तिः, यस्याद्यापि कीर्तिर्भुवि ख्याता


४५ अथ श्रीरामद्वादशीव्रतम्, ज्येष्ठशुक्लद्वादशी रामद्वादशी, दशरथस्यै- तद्व्रताचरणेन श्रीरामादिपुत्रचतुष्टयप्राप्तिः


४६ श्रीकृष्णद्वादशीव्रतम्, पूजादिक्रमः, अस्य व्रतस्याचरणेन वसुदेवस्य श्रीकृष्णाख्यपुत्रफलप्राप्तिः


४७ बुद्धद्वादशीव्रतम्, श्रावणशुक्लद्वादशी बुद्धद्वादशी, अत्र जनार्दनपूजाविधिः, अस्य फलश्रुतौ नृगाख्यानम्, मृगयासक्तचित्तो भ्रममाण इतस्ततो नृगो राजा तरोरधरस्तात्सुप्तं हन्तुमुद्यतानां लुब्धानां नृपदेहनिर्गतया देव्या हननम्, ततो विस्मयाविष्टस्प नृगस्य वामदेवमुखात्स्वप्राग्जन्मकृतं बुद्धद्वादशीव्रताचरणफलमिति ज्ञानम्, अन्यत्फलञ्च


४८ अथ कल्किद्वादशीव्रतम्, भाद्रपदशुक्लद्वादशी कल्किद्वादशी कल्किपूजनं ब्राह्मणेभ्यो दानादिकञ्च, हृतराज्यो विशालाख्यभूपो बदरिका- श्रमे तपश्चरंस्तत्रागताभ्यां नरनारायणाभ्यां द्रविणादिवृद्धिरूपं वरं लेभे तस्मै ताभ्यामुपदिष्टं कल्किद्वादशीव्रतञ्च, अस्याचरणेन पर- त्रेह च सुखप्राप्तिः


४९ अथ पद्मनाभद्वादशीव्रतम्, आश्विनशुक्लद्वादशी पद्मनाभद्वादशी, तस्यां पद्मनाभपूजनम्, भद्राश्वगृहागतेनागस्त्येन राज्ञीमुखावलोकनतश्चतुर्थदिवसपर्यंर्तं पृथक्पृथगुच्चारणेन तस्य प्राग्जन्मकृतं पद्म नाभद्वादशीफलकथनम्, अगस्त्यगमनञ्च.


५० अथ धरणीव्रतम्, कार्तिक्यामब्जनाभपूजनविधानम्, तत्फलम्.


५१ अथागस्त्यगीतारम्भः, दुर्वासोवचःश्रवणानन्तरं सत्यतपसो हिमवद्गमनम्, पुनर्भद्राश्वगृहागतेनागस्त्येनेरितं पशुपालननृपमुद्दिश्य परोक्षज्ञानद्वारा मोक्षधर्मनिरूपणम्


५२ मोक्षधर्मनिरूपणम्.


५३ मोक्षधर्मनिरूपणे पशुपालोपाख्यानम्. ...


५४ अथोत्तमभर्तृप्राप्तिव्रतम्, नारदेनाप्सरोभ्यउपदिष्टं सद्भर्तृप्रापकं वसन्त- शुक्लद्वादश्यां विष्णुपूजनविधानम्.


५५ अथ शुभव्रतम्, मार्गशोर्षमास्याचरणीयं शुभव्रतम्, तत्र हरेः पूजनम्, ब्राह्मणेभ्यो रौप्यमहीदानादिकम्, एतद्व्रताचरणेन ब्रह्मवादि- नृपाय प्रत्यक्षतां गतेन विष्णुना दत्तं पुत्रप्राप्तिरूपवरं प्राप्य पुनस्तपसे युक्तेन राज्ञा कृता स्तुतिः, तत्कृतस्तवतोषितहरेः कौब्जरूपेणागमनम्, नृपाय मोक्षप्राप्तिरूपवरप्रदानं, तत्तीर्थस्य कुब्जकाम्रनामकरणञ्च


५६ अथ धन्यव्रतम्, मार्गशीर्षसितप्रतिपदि करणीयम्, तत्र विष्ण्ग्ने पूजनम् तत्फलञ्च


५७ कार्त्तिकसितद्वितीयायामारभ्यं कान्तिव्रतं संवत्सरावधि करणीयम्, तत्र केशवपूजनपुरःसरं नक्तादिनियमाः, तत्र होमः, ब्रह्मणेभ्यो दानादिकम् तत्फलम्


५८ फाल्गुनशुक्लतृतीयायां करणीयं सौभाग्यव्रतम्, लक्ष्मीनारायणोमामहेश्वरपूजनम्, व्रते भक्ष्यपदार्थः तत्फलञ्च.


५९ चातुर्मास्याचरणीयं फाल्गुनशुक्लचतुर्थ्यां विघ्नहरं नाम व्रतं, व्रतान्ते ब्राह्मणभोजनादिकम्, अस्य फलञ्च


६० कार्तिकशुक्लपञ्चम्यां शान्तिव्रतम् वर्षमेकमाचरणीयमिति, अनन्त शायिहरेः पूजनम्, संवत्सरान्ते ब्राह्मणभोजनादिकमू, तत्फलम्,


६१ पौषसितषष्ठ्यां कामव्रतम्, सेनानीरूपविष्णुपूजनम् , व्रतान्ते ब्राह्मणभो- जनादिकम्, तत्फलञ्च.


६२ अथापरमारोग्यव्रतम्, तत्रादित्यरूपविष्णोः पूजनम्, मानसंसरआसा- द्यानरण्यनृपस्य तज्जं पद्म ग्रहीतुमिच्छोः कुष्ठित्वप्राप्तिः, तत्रागतेन वसिष्ठेन व्रतोपदेशतस्तन्निवारणम्.


६३ भाद्रपदकृष्णाष्टम्यां करणीयं पुत्रप्राप्तिव्रतम् तत्फलं च


६४ आश्वयुजे मासिं शुद्धनवम्यां शौर्यव्रतम्, तत्र दुर्गादेवीपूजनं तत्फलं च.


६५ कार्तिकशुक्लदशम्यां सार्वभौमव्रतम्, तत्र दिक्प्रार्थना, तत्फलञ्च


६६ नारदपुराणार्थपाञ्चरात्रम्, श्वेतद्वीपंगतस्य नारदस्य नारायणदर्शनं हरिणोपदिष्टं पाञ्चरात्रमाहात्म्यम्.


६७ अथ विष्ण्वाश्चर्यम्.


६८ अथ प्रागितिहासवर्णनम्,चतुर्युगेषु परमेश्वरस्वरूपम्, अगम्यागम्यादिवर्णनम, अन्यसंकरे विप्राणां शुद्ध्यादिकम्


६९ अथ नारायणाश्चर्यवर्णनम्, परितोटतः इलावृतोपकण्ठे सरस्तीरे तपश्चरतः कस्यचिदाश्रमपदं प्राप्तस्यागस्त्यस्य मुनिहुंकारमात्रेण निर्गताभिः कन्याभिरातिथ्यम्, मुनेर्द्वितीयहुंकृत्या कोटिशः कन्यकाकुलहेमद्रोण्यागमनम्, द्रोणीं प्रविष्टस्यागस्त्यस्य सप्तसमुद्रनगादिदर्शनञ्च-


७० अथ कृतत्रेताद्वापरादिविषयाः, हरिं क्रतुभिराराधयतोगस्त्यस्य तत्र ब्रह्मादिदेवानामागमनम्, एतेषां को याज्य इति भ्रान्तमगस्त्यं प्रति रुद्रेणोक्तं त्रिदेवानां भेदराहित्यम्, तत्रापि नारायणश्रैष्ठ्यम्,कृतादिषु नारायणोपासना, रुद्रेण नारायणादेशात्पाशुपतशास्त्राणां करणम्


७१ कलियुगीया विषयाः, अगस्त्यस्य रुद्रहृदये कमलासननारायणदर्शनम्, मोहनशास्त्रकरणहेतुः, तत्र शतशृङ्गे कमलासनप्राप्तवरे गौतमे निवसति कस्यचित्कालस्य द्वादशाब्दिकानावृष्ट्या क्षुत्क्षामवि- प्रपालनम्, निवृत्तायां च तीर्थयात्रानिमित्तं गन्तुकामैर्विप्रैर्मायामय्या गोः प्रेषणेन गौतमोपरि गोहत्यानिमित्तमिथ्याभिशापः गोहत्यात्रस्तेन गौतमेन गंगानयनस्तन्निवारणम्, तत्र सप्तर्षीणामागमनम् ब्राह्मणानां छलं विज्ञाय तेभ्यः कलौ पाखण्डित्वप्राप्तिनिमित्तशापदानम्, तां नदीं गोदावरीं विदुस्तत्र गोदानमाहात्म्यम्, ततः कलियुगसमुत्पन्नानां ब्राह्मणानां श्रेयसे शिवेन निश्वाससंहिताकरणम्.


७२ अथ प्रकृतिपुरुषनिर्णयः, त्रयाणां देवानां यजनादिकम्


७३ अथ वैराजवृत्तम्, प्रजाः स्रष्टुं ब्रह्मणादिष्टः शिवो जले निमज्जन्नंगु ष्ठमात्रपरिमितपुरुषं दशादित्यान् ददर्शेति तं प्रति शंभुकृता स्तुतिः, ततस्तुष्टेन विष्णुना शंभवे वरप्रदानम्


७४ अय भुवनकोषवर्णनम्, स्वायंभुवमनोः प्रियव्रतोत्तानपादौ पुत्रौ, तयोर्मध्ये प्रियव्रतपुत्रचरित्रवर्णनम् तत्पुत्रेभ्यः सप्तद्वीपदानम्, तेषामपि पुत्रसंख्या, नाभेः सर्गकथनम्


७५ अथ जम्बूद्वीपमेरुनिरूपणम्, जम्बूद्वीपयोजनपरिमाणम्, तत्रस्थितानां पर्वतानां वर्णनम्, तत्रस्थानामन्येषां पर्वतानां परिमाणञ्च, जंबुद्वीपस्थानां खण्डानां वर्णनम्, तेषां परिमाणं च, मेरुपर्वतपरिमाणम्, मेरोः पूर्वादिप्रदेशस्थाः पर्वताः, मेरोरुपर्यधस्तान्मानम्, मेरोः पार्श्वतः स्थिताश्चत्वारो देशाः, तत्र मनोवती नाम ब्रह्मसभा, तत्परिमाणं च, तत्र देवादीनां स्थितिः ...


७६ अथाष्टदिक्पालपुर्यः, तत्रामरावत्यैश्वर्यादिवर्णनम्, सैश्वर्याष्टदिक्पालपुरीनामानि.


७७ अथ मेरुवर्णनम्, चत्वारो मर्यादापर्वताः, तत्र मन्दराचलशृङ्गस्यक दम्बवृक्षवर्णनम्, तद्भूतयः गन्धमादनपर्वतस्थजम्बूपादपवर्णनम् तत्र कर्दममुनेराश्रमपदञ्च, तथैव ताम्राभस्य शैलस्य पतंगस्य चांतरे महत्सरस्तस्य च मध्ये महाशिखरः, तस्य चोपरि महारथ्या तत्र विद्याधरपुरम्, तत्र पुलोमनामविद्याधरनिवासस्थानम्, तेषां परिमाणं च, तथा विशालाचलेन्द्रस्य श्वेतस्य चान्तरे सरस्तस्य पूर्वतीरे महदाम्रवनम्, तत्र देवादीनां निवासः सुमूलाचलेन्द्रस्य वसुधारस्य चान्तरे बिल्वस्थली, वसुधाररत्नधारयोर्मध्ये किंशुकवनम, तत्र प्रतिमासमादित्यावतरणम्, पञ्चकूटस्य कैलासस्य चान्तरे स्वर्गसोपान- मिव भूमण्डलम्, तद्विस्तारायतपरिमाणम्, सुपार्श्वशिखिशैलयोर्मध्ये भौमशिलातलम्, तस्य मध्ये त्रिंशद्योजनविस्तीर्णं वह्निस्था- नम्, शैलवरयोः कुमुदाञ्जनयोरन्तरे शतयोजनविस्तीर्णा मातुलुंगस्थली, शैलयोः पिञ्जरगौरयोरन्तरे नारायणायतनम्, शुक्लपाण्डुरयोरन्तरे त्रिंशद्योजनविस्तीर्ण एकशिलोद्देशः, तत्फलरससंभूतजाम्बूनदसुवर्णवर्णनम्, विपुलशृंगसंभूताश्वत्थपादपवर्णनम्, सुपार्श्वशृंगस्य न्यग्रोधपादपवर्णनम् तत्परिमाणं च.


७८ मन्दरादिपर्वतचतुष्टयवर्णनम्, चतुर्षु गिरिषु अरुणोदादिसरांसि, तेषां पूर्वादिदिक्षु स्थितिः, अरुणोदयस्य प्राच्यां शैलाः, मानस दक्षिण- स्थितानां पर्वतानां वर्णनम्, असितोदस्य पाश्चात्त्याः पर्वताः, महाभद्रस्योत्तरतः पर्वतानां कथनम्


७९ अथ मेरोर्द्रोणीनां निरूपणम्, तत्र श्रीसरोबिल्ववनवर्णनम्, तद्विस्तरायतप्रमाणम्, तद्वृक्षशोभावर्णनम्,तत्र मुन्यादीनामाश्रमाः, सुखानंदीतीरे तालवनपरिमाणादिकम्


८० अथ मेरोर्द्रोण्यादिवर्णनम्, शिशिरपतङ्गयोर्मध्ये शुक्लभूमिरुदुम्बरंनाम वनञ्च, तत्परिमाणम्, तत्र निष्कम्पा दीर्घिका, तस्या मध्ये न्यग्रोधवृक्षोपरि चन्द्रशेखरवसनम्, सहस्रशिखरस्य कुमुदस्यान्तरे पञ्चाशद्योजनायामं विंशद्योजनविस्तृतमिक्षुक्षेपोच्चशिखरम्, तत्रेन्द्राश्रमः, शंखकूटऋषभयोर्मध्ये पुरुषस्थली, कपिञ्जलनागशैलयोरन्तरे द्राक्षादि- वृक्षमण्डिता स्थली तत्प्रमाणञ्च, पुष्करमहामेघयोरन्तरे पाणितलप्रख्यास्थली, तत्प्रमाणञ्च.


८१ अथ तेषुतेषु देवानामवकाशा वर्ण्यन्ते, सीताख्ये गिरौ महेन्द्रक्रीडास्थानम्, तत्र पारिजातवनञ्च, कुञ्जरे गिरौ दानवानां पुराणि, वज्रके पर्वते राक्षसानां पुराणि, महानीले शैले किन्नराणां पञ्चदशसहस्राणि पुराणि, वेणुमतिपर्वते विद्याधरपुरत्रिकम्, कुञ्जरे गिरौ पशुपतिनिवासस्थानम्, वसुधारेपि वृषभध्वजस्थानम्, वसुधार- रत्नधारयोर्मूर्ध्नि वसुसप्तर्षीणां पुराणि, एकशृंगे गिरौ परमेष्ठिनः स्थानम्, गजपर्वते भगवतीस्थानम्, प्रभेदकस्य पश्चिमे दले देवदानवसिद्धादिपुराणि, तत्र स्थितायां महाशिलायां प्रति- पर्वणि सोमस्यावतरणम्, त्रिकूटे ब्रह्मणः स्थानम्, शृङ्गाख्यपर्वते पूर्वा- दिक्रमेण नारायणादिदेवतानां निलयाः, जातुच्छमहापर्वते त्रिंशद्योजनमण्डल नदजलं नाम सरः, उपयुक्तानामष्टपर्वतानां वर्णाः पृथ्वीस्थितिः


८२ अथ नद्यवताराः, इन्द्रगजेन क्षोभिताया आकाशगामिन्याः सरितो मेरोरुपरि पतनम्, मेरुकटतटेभ्यः प्रस्खलितायाः षष्टिसहृस्रयोजनान्निरालंबं पतमानायाश्चातुर्विध्यम्, तासां चतसृणां पृथक्पृथक्खण्डेषु प्रवृत्तिः, तत्तद्देशानां जीवनभूता नद्यः


८३ अथ नैषधस्थकुलाचलजनपदनदीवर्णनम्, सप्त कुलपर्वताः, तन्निवासिनां जनपदानां नामानि, तेषां पानीयमहानदीनां नामानि.


८४ मेरोर्दक्षिणोत्तरवर्षवर्णनम्, मेरोर्दक्षिणेन श्वेतस्योत्तरेण च रम्यकंनाम वषंम्, तत्रत्यन्यग्रोधफलप्राशिनामृद्धिवर्णनम्, श्वेतस्योत्तरे त्रिशृङ्गस्य च दक्षिणे हिरण्मयंनाम वर्षम्, तत्रत्यानां वृक्षाणां समृद्धिवर्णनम्, तत्रदेशस्या वृक्षाः, उत्तरशृंगाद्दक्षिणसमुद्रान्तमुत्तरकुरवस्तत्र वस्त्राभरणाद्यैश्वर्यजनका वृक्षाः, तत्रत्यानां पुरुषाणां परमायुः, चन्द्रकान्तसूर्यकान्तनगयोर्मध्ये चन्द्रावर्ता नाम नदी, सूर्यद्वीपे सूर्यावर्ता नाम नदी, तत्रार्कस्थानम्, तमुल्लंघ्य भद्राकारं नाम खण्डम्, तत्र वायोरधिष्ठानम् ...


८५ अथ भारते नवखण्डवणर्नम्, नवभेदं भारतम्, तत्र सप्तकुलपर्वताः क्षुद्रपर्वताश्च, हिमवत्पादविनिर्गता नद्यः, पारियात्रोद्भवा नद्यः, ऋ- क्षप्रसूतानद्यः, विन्ध्यपादोद्भवाः सरितः, मलयजा नद्यः, शुक्तिमत्प्रभवा नद्यः, जम्बुद्वीपप्रमाणम्.


८६ अथ शाकद्वीपनिरूपणम्, तत्प्रमाणम्, तत्रत्यानां स्थितिश्च, सप्तकुल- पर्वतास्तदुपनामानि, तत्रत्याः सप्तमहानद्यः.


८७ अथ कुशद्वीपवर्णनम्, तत्र क्षीरोदः समुद्रः द्वीपपरिमाणम्, एतेषां द्विना- मवर्णभेदः, तत्र द्विनाम्न्यो नद्यः


८८ अय क्रौंचद्वीपवर्णनम्, तन्मानम्, तत्र सप्तप्रधानपर्वताः, तत्र वर्षाणि, तत्रापि सप्तनद्यः, तस्य परितः समुद्रः.


८९ अथ शाल्मलीद्वीपवर्णनम्, तन्मानम्, सप्तपर्वतास्तावत्यो नद्यस्तत्समुद्रश्च, अथ षष्ठगोमेदकथनम्, तत्र द्वौ प्रधानपर्वतौ तत्समुद्रः, पुष्क- राख्ये खण्डे मानसपर्वतः, प्रतिकल्पमेतेषां मण्डलानां स्थितिः.


९० अन्धकासुरवधाकांक्षया ब्रह्मविष्ण्वोः कैलासागमनम्, तत्रैकीभूतानां त्रिदेवानामेकीभूतया दृष्ट्या त्रिवर्णदेव्युत्पत्तिः, तस्यै वरप्रदानम, तत्त्रि- मूर्तिदेव्याजगदुत्पत्त्यादिकथनम्, तासां श्वेतादिपर्वतगमनम्, ब्रह्मसृष्टिवर्द्धनञ्च.


९१ अथ सरस्वतीवर्णनादिकम्, सरस्वतीं प्रति ब्रह्मणा कृता स्तुतिः,


९२ वैष्णवीमाहात्म्यम्, मन्दराचले तपश्चरन्त्या देव्या कुमारीणामुत्पत्तिः, तत्र पुरनिर्माणम्, कन्यानामानि, देव्यन्तिकमागत्य महिषासुराय देवीरूपं कथयित्वा नारदगमनम्


९३ मंत्रिमहिषासुरसंवादः, महिषस्य मन्त्रिभिः साकं देव्यानयनविचारः, देवीं प्रतिदूतप्रेषणम्, योद्धुं दैत्यचमूप्रयाणम्


९४ अथ सुरासुरयुद्धवर्णनम्, असुरैः सुरसैन्येषु भग्नेषु विद्रुतानां तेषां ब्रह्मलोकगमनम्


९५ अथ महिषासुरवधः, आगतेन दूतेन कथिता महिषासुरोत्पत्तिः, परिचारिकया परिधर्षितस्य दूतस्य गमनम्, देव्या युद्धे प्रयाणम्, ताभिः कन्याभिर्हतसैन्यस्य महिषस्य देवीं प्रति धावमानस्य दशसहस्रवर्ष पर्यन्तं देव्या सह युद्धम्, देवैः स्तुतया देव्या महिषासुरहननम्.


९६ त्रिशक्तिरहस्ये रौद्रीव्रतम्, रुरुदैत्येन पराजितैर्देवैः स्तुतया रौद्र्या देव्या तद्धननम्, अन्यासाञ्च तासां सर्वासां तत्रागतेन रुद्रेण भक्ष्यकल्पनम्, रुद्रकृता स्तुतिः, त्रिशक्तिसर्गश्रवणफलम्.


९७ अथ रुद्रमाहात्म्यम् ब्रह्मणोक्तकपालशब्दात्कुपितेन रुद्रेण ब्रह्मशिरःकृन्तनम्, करलग्नकपालनिवृत्तये सर्वतीर्थेषु पर्यटन्वाराण सीमागत्य गंगायां स्नातस्य रुद्रस्य हस्तात्कपालनिवृत्तिः, तत्रा गतेन ब्रह्मणा कपालमोचनेति तत्तीर्थनामकरणम्, रुद्रस्य कैलासगमनम्


९८ अथ पर्वाध्यायः, कुठारेण दर्भानुद्धृतवतः सत्यतपसोंगुल्याश्छिन्नाया निःसृतं भस्मावलोक्य केनापि किन्नरेण विज्ञापितयोरिन्द्रविष्ण्वोरस्मै वरप्रदानम्, सत्यतपोरुणिमुक्तिः


९९ अथ तिलधेनुदानमाहात्म्यम्, कार्तिकशुल्लद्वादश्यां गुरुपूजितहरिदर्शनम्, संवत्सरान्ते गुरुप्रसादनम्, एकादश्यामुपोष्य देवालयं गत्वेन्द्रादिदेवपूजनम्, ब्राह्मणभोजनादि होमादिकं च, तत्र वसिष्ठश्वेतसंवादरूपेतिहासः, विनान्नं पीडिताय श्वेताय विनीताश्वोपाख्यानकथनम्, अन्नदानमहिमा, तिलधेनुदानविधिः, अस्यश्रवणफलम्.


१०० जलधेनुदानविधिः, तद्दानफलम्


१०१ अथ रसधेनुदानमाहात्म्यम्, तद्दानविधानं फलञ्च.


१०२ गुडधेनुदानमाहात्म्यम्, तद्विधानं दानफलं श्रवणफलञ्च


१०३ शर्कराधेनुदानमाहात्म्यम्, तद्विधानं तद्दानफलञ्च.


१०४ अथ मधुधेनुदानमाहात्म्यम्, तद्विधानं, तत्फलञ्च.


१०५ अथ क्षीरधेनुदानविधिः, तत्फलम्. ...


१०६ अथ दधिधेनुदानमाहात्म्यम्, तद्विधानम्, फलञ्च.


१०७ अथ नवनीतधेनुदानमाहात्म्यम् , तद्विधानं तद्दानफलं दर्शन फलञ्च.


१०८ अय लवणधेनुदानम्, तद्विधानं फलञ्च


१०९ कार्पासधेनुदानमाहात्म्यम् तद्विधानं फलञ्च


११० अथ धान्यधेनुदानमाहात्म्यम्, तद्विधानं फलञ्च. ...


१११ कपिलाधेनुदानमाहात्म्यम्, तद्विधानं फलञ्च, कपिलालक्षणानि.


११२ अथोभयतोमुखीगोदाने हेमकुम्भदानम, पुराणप्रशंसा, कपिलामाहा- त्म्यम्, शूद्रात्कपिलादाननिषेधः, प्रतिग्रहकर्तुर्द्विजस्य वर्जनम् तेनसह व्यापारिणां प्रायश्चित्तम्, कपिलायाः पृथिवीत्वनिरूपणम्, कपिलादानविधिः, तत्फलञ्च, वसिष्ठेनोपदिष्टस्य श्वेतस्य मुक्तिः, पुराणानां गणना, अस्य श्रवणफलञ्च


११३ भगवत्स्तुतिः, कल्पान्ते रसातलगतया धरण्या कृता माधवस्तुतिः, श्रवणफलञ्च.


११४ अथ श्रीवराहावतारः,वराहरूपिणं देवं स्तुवन्तीमहीकृता योगसांख्यविनिश्चयात्मकाः प्रश्नाः


११५ अथ विविधधर्मोत्पत्तिः, प्रतिद्वादशि वराहपूजनम्,, व्राह्मणस्य भगवत्कर्मनियमः , क्षत्रियाणां भगवत्कर्मनियमः, भगवत्कर्मस्थानां वैश्यानां कर्म, शूद्रस्य कर्माणि, योगप्राप्तिहेतुः


११६ अथ सुखदुःखनिरूपणम्, दुःखरूपाणि कर्माणि सुखरूपाणि कर्माणि.


११७ अथ द्वात्रिंशदपराधाः, आहारानाहारादिद्वात्रिंशदपराधाः, अन्यदृढव्रतम्, कर्मणामुत्तमं कर्म


११८ अथ देवोपचारविधिस्तत्कृतफलञ्च.


११९ अथ भोज्यनियमविधिः, प्रापणद्रव्यकर्मण्यभोज्यनियमविधिः


१२० अय त्रिसंध्यामंत्रोपस्थानम्


१२१ अथ जन्माभावः, भगवत्परायणानां पुरुषाणां लक्षणानि, प्रसन्नानां पुरुषाणां धर्मः, अगर्भप्रापकधर्माः


१२२ अथ कोकामुखमाहात्म्यम्, शकाधिपनृपस्य प्राग्जन्मवृत्तान्तम्, चिल्लीगस्त्ययोः परासिद्धिस्तत्क्षेत्रकृतदानादिफलम्.


१२३ अथ सुमनोगंधादिमाहात्म्यम्, कार्तिकशुद्धद्वादश्यां प्रबोधिनी कर्म, शैशिरं कर्म, द्वादशीमाहात्म्यम्, हरये गन्धपत्रसमर्पणम्


१२४ अथ ऋतूपस्करम्, फाल्गुनशुक्लद्वादश्यां हरेः पूजनम्, तद्व्रताचरणफलम् भगवतोपदिष्टमृतुकर्म, तच्छ्रवणादिफलञ्च.


१२५ अथ मायाचक्रम्, वसुधया प्रार्थितेन वराहरूपिहरिणा तस्यै मायायाः सर्वत्र व्याप्तिकथनम् सोमशर्मणे द्विजाय प्रदर्शितं मायाख्यानम् एतच्छ्रवणफलम्.


१२६ अथ कुब्जाम्रकमाहात्म्यम्, कुब्जाम्रके तपश्चरतो रैभ्यस्य तपसा परितुष्टेन भगवतान्यतीर्थानां माहात्म्यकथनम्, कुब्जाम्रके स्थितस्य कुमुदाकारतीर्थस्य माहात्म्यम, तत्रस्थमानसतीर्थमहिमा, मायातीर्थमाहात्म्यम्, सर्वात्मकतीर्थमाहात्म्यम्, पूर्णमुखतीर्थमाहात्म्यम्, करवीरपुण्डरीकाख्यतीर्थफलम्,अग्नितीर्थमाहात्म्यम्, वायुतीर्थशुक्रतीर्थमा० सप्तसामुद्रकं तीर्थम्, मानससरोनामतीर्थम्, कुब्जाम्रके वृत्तं व्यालीन- कुलाख्यानम्, एतत्पठनफलम्,


१२७ अथ ब्राह्मणदीक्षासूत्रवर्णनम्, दीक्षितानां वज्यार्वर्ज्यकर्माणि, दीक्षा- ग्रहणप्रकारः


१२८ अथ कङ्कताञ्जनदर्शनम्, क्षत्रियदीक्षाप्रकारः, वैश्यदीक्षाप्रकारः, शूद्रदीक्षाप्रकारः, चतुर्णां वर्णानां छत्रम् दीक्षितानां कर्तव्यता,. स्नानोप कल्पान्तेषु कर्तव्यता .-.


१२९ संध्यादिप्रकारः, विष्णुपूजनादिकञ्च, ताम्रोत्पत्तिस्तन्माहात्म्यञ्च. ...


१३० राजान्नभोगे प्रायश्चित्तम्.


१३१ अथ दन्तकाष्ठचर्वणप्रायश्चित्तम्


१३२ अथ मृतकस्पर्शप्रायश्चित्तम्, मैथुनं कृत्वा शवस्पर्शदोषः, तद्दोष- निवारणप्रायश्चित्तम्, शवस्पर्शदोषः, रजस्वलां दृष्ट्वा भगवत्स्पर्शनतः पापम्, तत्प्रायश्चित्तम्


१३३ अथ पूजासामयिकगुदरवपुरीषोत्सर्गयोः प्रायश्चित्तम्


१३४ अथ पूजादिसामयिकान्यापराधेषु प्रायश्चित्तम्, मौनत्यागप्रायश्चित्तम्, नीलवस्त्रं धृत्वा भगवत्पूजनादिप्रायश्चित्तम्, विनाविधिं भगवत्स्पर्शने प्रायश्चित्तम्, आचारविधिः, क्रुद्धतया भगवदुपसर्पणे दोषः प्रायश्चित्तञ्च. १३५ जालपादभक्षणापराधप्रायश्चित्तम्, रक्तवस्त्रं धृत्वा भगवदुपसर्पणे दोषः प्रायश्चित्तम्, विनादीपेनान्धकारे भगवत्सेवादिना दोषः प्रायश्चित्तञ्च, कृष्णवस्त्रं धृत्वा विश्वपूजने दोषः प्रायश्चित्तञ्च, अधौतवस्त्रं धृत्वा भगवत्कर्मकरणे दोषः प्रायश्चित्तञ्च, श्वानोच्छिष्टदाने दोषः, प्रायश्चित्तञ्च, वराहमांसं भुक्त्वा भगवत्सेवायां दोषः प्रायश्चित्तञ्च, जालपादं भक्ष- यित्वा विष्णुपूजनादौ दोषः प्रायश्चित्तञ्च.


१३६ अथ प्रायश्चित्तकर्मसूत्रम्, दीपं स्पृष्ट्वा विष्णुकर्मणि दो० प्रा०, श्मशानं गत्वाऽस्नात्वा विष्णुपूजने दो० प्रा०, विष्णुना श्मशानजुगुप्सनकारणम्, वराहमांसेन प्रापणे कृते दो० प्रा०, मद्यं पीत्वा विष्णूपसर्पणे दो० प्रा० भगवद्भक्तः कौसुम्भं शाकं भक्षयेत्तद्दो० प्रा०, नवान्नमदत्त्वा भोजने दो० प्रा०, गन्धमाल्यान्यदत्त्वा विष्णवे धूपदाने पद्भ्यामुपानहौ वहन्भगवत्कर्मपरायणे दो० प्रा०, भेर्यादिशब्दमकृत्वा भगवत्प्रबोधने दो०प्रा० बहुतरमन्नं भुक्त्वाऽजीर्णेनपरिप्लुतेऽस्नाते भगवत्कर्मणिप्रवृत्तौ दो०, अस्य पठनफलम्.


१३७ अथ गृध्रजम्बूकाख्यानम्, चकतीर्थागमनफलम्,सोमतीर्थमाहात्म्यम्, तत्रसोमाय विष्णुना वरप्रदानम्, शृगालीगृध्रयोस्तत्र क्षेत्रे मरणेन मानु- षत्वप्राप्तिः, तदाख्यानम्,


१३८ अथ खञ्जरीटोपाख्यानम्, सौकरवे मृतस्य खञ्जरीटस्य क्रीडद्भि- र्बालकैर्गंगाम्भसि क्षेपणेन मानुषत्वप्राप्तिसंबध्याख्यानम्, तच्छ्रवणफलम्.


१३९ सौकरवमाहात्म्यम, गोमयमाहात्म्यम्, स्नानोपलेपने धूमे सलिल- दाने फलम्, संमार्जनफलम्, गायनफलम, श्वपाकवृत्तम्, सत्यमाहात्म्यम्, एकगीतफलदानेन ब्रह्मरक्षसो देवाग्रे नृत्यमानस्य मुक्तिफलम्-


१४० कोकामुखमाहात्म्यम्, तत्र पर्वतात्पतितायां विष्णुधारायां स्नानात्फलम्, तत्र विष्णुपदं नाम स्थानम्, तत्र स्नानफलम्, विष्णुसरोनाम तीर्थमा० सोमतीर्थमा० तुङ्गकूटेतिख्याततीर्थ मा०, अत्राग्निसरोनाम्- तीर्थमा० ब्रह्मसरः क्षेत्रमा०, धेनुपरतीर्थमा०, धर्मोद्भवतीर्थमा०, पापप्रमोचननामतीर्थमा०, यमव्यसनकं तीर्थम्, मातंगा तीर्थमा०, वज्रभवं नामतीर्थम्, शक्ररुद्रेति विख्यातं तीर्थम्, विष्णुतीर्थम्, मत्स्यशिलानामतीर्थम्, एतत्पठनफलम्


१४१ अथ बदरिकाश्रममाहात्म्यम्, तत्रत्यं ब्रह्मकुण्डमितिख्यातं तीर्थम्, अग्निसत्यपदं नाम तीर्थम्, तत्र इन्द्रलोकमितिख्यातो विष्ण्वाश्रमः, पञ्चस्रोतस्तीर्थम्, चतुःस्रोतस्तीर्थम्, वेदधारं नाम तीर्थम्, द्वादशा दित्यकण्डं नाम तीर्थम्, लोकपालं नामतीर्थम्. मेरोर्वरं नाम तीर्थम्, मानसोद्भेदं नाम तीर्थम्, पञ्चशिरं नाम तीर्थम्, तच्चिह्नम्. सोमाभिषेकं नाम तीर्थम्, उर्वशीकुण्डं नाम तीर्थम् , अस्य श्रवणफलम्.


१४२ अथ गुह्यकर्ममाहात्म्यम्, भगवति चित्तधारणत्वम्, ऋतुकाले गमननिषेधः, ऋतुकालानंतरं स्त्र्यभिगमनम्, शयने स्त्रीदर्शननिषेधः, संभोगानन्तरं स्नानम्, अपूर्णे ऋतुकाले स्त्रीगमननिषेधः ऋतुस्नातायामनभिगमने दोषः, स्त्रीगमनदिवसः संन्यासयोगः, एतच्छ्रवणफलम्.


१४३ अथ मन्दारमहिमनिरूपणम्, मन्दारतीर्थमाहात्म्यम्, तत्रप्रापणो नामगिरिः स्नानकुंडं नाम तीर्थम्, मोदनं नामतीर्थम्, वैकुण्ठकारणं नाम तीर्थम्, सोमस्रोतोनामतीर्थम्, पूर्वेण गुह्यनामतीर्थम्, विन्ध्यविनिःसृतं गुह्यं तीर्थम्, पश्चिमपार्श्वे देवसमन्वितं चक्रवर्तं नाम तीर्थम्, गुह्यो गभीरको नाम महाह्रदः, दक्षिणे चक्रम्, वामे गदा, एतच्छ्रवणफलम्.


१४४ अथ सोमेश्वरादिलिङ्गमुक्तिक्षेत्रत्रिवेण्यादिमाहात्म्यम्, शापनिवृत्तये तपश्चरते सोमाय संतुष्टेन हरेण वरदानम्, रेवायास्तपसा तुष्टेन शंभुना तस्यै लिंगरूपेण तव गर्भे स्थास्यामि इति वरप्रदानम्, ततः परं रेवाखण्डमिति ख्यातम्, गण्डक्या तपसा स्तुत्या च संतुष्टेन हरिणा तस्यै शालग्रामशिलारूपी तव गर्भगतो भविष्यामि इति वर- प्रदानम्, बाणगंगोत्पत्तिः, रावणतपोवनम्, नर्तनाचलोत्पत्तिः, मुक्तिक्षेत्रे गण्डकीसमुत्पत्तिः, तन्माहात्म्यम्, त्रिवेणीप्रकटनं, परस्परं शाप- प्रदानतो गजग्राहत्वमाप्तयोर्जयविजययोस्तत्र मोक्षः हरिहरप्रभं तीर्थम्, हंसतीर्थम्, यक्षतीर्थम्,


१४५ शालग्रामक्षेत्रमाहात्म्यम्, तपस्यते सालंकायनाय वरदानम्, नन्दिके. श्वरोत्पत्तिः, तत्र च बिल्वप्रभं नाम क्षेत्रम्, चक्रस्वामितीर्थम्, विष्णुपदं नाम क्षेत्रम्, ह्रदस्रोतस्तीर्थम्,शंखप्रभं क्षेत्रम्, गदाकुण्डं क्षेत्रम् अग्निप्रभं नाम क्षेत्रम्, सर्वायुधं तीर्थ, देवप्रभक्षेत्रम्, विद्याधरं नाम क्षेत्रम्, पुण्यनदी नाम तीर्थम्, गन्धर्वक्षेत्रम्, देवह्रदं क्षेत्रम्, देवनद्योः संभेदः, श्वेतगंगा, त्रिशूलगगा, सिद्धाश्रमः, तन्माहात्म्यम्


१४६ अथ रुरुक्षेत्रस्थहृषीकेशमाहात्म्यम्, रुरुतीर्थप्राकट्येतिहासः, तपस्यतो देवदत्तस्य पदच्युतिं शंकमानेनेन्द्रेण तपःखण्डनम्,पुनर्निर्वेदमाप्तस्य भृगुतुङ्गे तपस्यतस्तस्य शिवेन वरप्रदानम्, ततःपरं समङ्गेति तीर्थख्यातिः, प्रम्लोचाप्सरसः कन्यकां प्रसूय स्वर्गं गता सती रुरुभिर्मृगैः पोषिताया अतएव रुरुनाम्न्याः कन्यकायास्तपसा तुष्टेन हारिणा त्वन्नाम्ना ख्यातं भविष्यति क्षेत्रम् इति वरप्रदानं तस्मै.


१४७ अथगोनिष्क्रमणमाहात्म्यम्, महादेवतेजसाभस्मोद्भूतमाश्रमं वीक्ष्य क्रोधकलुषितेनौर्वेण दत्तशापप्रभावतस्तप्तस्य महादेवस्य नारायणसन्निधावागमनम्, ततो गवां स्नापनतो रुद्रतापनिवृत्तिः, ततः परं गोनिष्क्रमं नामतीर्थं, तत्र स्नानदानादिफलम्, पञ्चक्रोशतीर्थम्, एतच्छ्रवणफलम्-


१४८ अथ स्तुतस्वामिमाहात्म्यम, मात्सर्यदोषाः, पञ्चारुमेतिख्यातं तीर्थम्, भृगुकुण्डं नामतीर्थम्, मणिकुण्डं नामतीर्थम्, धूतपापं नामतीर्थम्, तत्र स्नानादिजन्यं फलम्


१४९ द्वारकामाहात्म्यम्, द्वारकापरिमाणम्, यादवकुलस्य दुर्वाससः शापकारणकथनम्, तत्र पञ्चाप्सरस्तीर्थम्, शतशाखःप्लक्षः, तत्र प्रभासं नामतीर्थम्, तत्राश्चर्यम्, पञ्चपिण्डतीर्थम्, संगमनक्षेत्रम्, हंसकुण्डं तीर्थम्, कदम्बतीर्थम्, चक्रतीर्थम्, रैवतकतीर्थम्, विष्णुसंक्रमणं तीर्थम्, एतत्पठनफलम्


१५० अथ सानन्दूरमाहात्म्यम्, यत्र रामगृहं नामतीर्थम्, रामसरोनामतीर्थम्, ब्रह्मसरः, संगमनं नामतीर्थम, शक्रसरोनामतीर्थम््, शूर्पारकं नामक्षेत्रम्, जटाकुण्डं तीर्थम्, एतत्पठनफलम् ...


१५१ अथ लोहार्गलमाहात्म्यम्, पञ्चसरोनाम क्षेत्रम्, नारदकुण्डं तीर्थम्, वसिष्ठकुण्डम्, पञ्चकुंडम्, सप्तर्षिकुण्डम् शरभङ्गकुंडम्, अग्निसरोनाम कुंडम्, वैश्वानरकुंडम्, कार्तिकेयकुंडम्, उमाकुंडम्, महेश्वरकुण्डम्, ब्रह्मकुण्डम्, पठनफलम्.


१५२ अथ मथुरामाहात्म्यम्, तत्र विश्रान्तिसंज्ञकं तीर्थम्, प्रयागं नामतीर्थम्, कनखलं तीर्थम्, तिन्दुकं क्षेत्रम्, सूर्यतीर्थम्, ऋषितीर्थम्, कोटि तीर्थम्, वायुतीर्थम्.


१५३ अथ मथुरामाहात्म्यम्, नवकं तीर्थम्, संयमनं तीर्थम्, निषादाख्यानम्, कुन्दवनं नाम वनम्, काम्यकवनम्, बकुलवनम्, भद्रवनम्, खादिरंवनम्, महावनम्, लोहजंघवनम्, बिल्ववनम्, भाण्डीरवनम्, वृन्दावनम्.


१५४ अथ यमुनातीर्थप्रभावः, पीवरीवृत्तान्तम्, धारापतनकतीर्थमाहात्म्यम्, नागतीर्थम्, घण्टाभरणकं तीर्थम्, सोमतीर्थम्, मानसं तीर्थम्, विघ्नराजतीर्थम्, कोटितीर्थम्, शिवक्षेत्रम्

१५५ अथाक्रूरतीर्थप्रभावः, सुधन्ववृत्तान्तम्.


१५६ अथ मथुराप्रादुर्भावः आदित्यस्थानम्.


१५७ अथ मलयार्जुनतीर्थादिस्नानादिप्रशंसा, भांडह्रदं तीर्थम्, वीरस्थलंनाम तीर्थम्, कुशस्थलं ती० पुष्पस्थलं ती० सप्तसामुद्रकं कूपम्, वसुपत्रं तीर्थम्, फाल्गुनकं तीर्थम्, वृषभाञ्जनकतीर्थम्, तालवनम्, स्वच्छजलं कुंडम्, सपीठकं ती० प्रसन्नसलिलं कुण्डम्


१५८ अथ मथुरातीर्थप्रादुर्भावः, दिक्पालादिभिर्मथुरारक्षणम्, मुचुकुन्दक्षेत्रम.


१५९ अथ मथुराप्रदक्षिणा, विध्यादिकम्, मथुराप्रदक्षिणाफलम्, तद्विधानम्.


१६० अथ मथुरापरिक्रमः । मथुरास्थतीर्थप्रदेशेषूत्तरोत्तरंगमनक्रमः प्रदक्षिणा फलम्


१६१ द्वादशवनयात्राप्रभावः, तन्माहात्म्यञ्च..


१६२ अथ चक्रतीर्थप्रभावः मथुराया उत्तरे चक्रतीर्थवृत्तं ब्राह्मणवृत्तांतम्. ...


१६३ अथ कपिलवराहमाहात्म्यम्. मथुरास्थकुण्ठतीर्थेस्नानेन कस्यचिद्ब्राह्म णस्य ब्रह्महत्या निवारणम्, रावणेन वराहरूपिणो देवस्यानयनम्, रावणवधानन्तरं रामेणायोध्यायामानयनम्, ततः लवणासुरवधानन्तरं शत्रुघ्नेन मथुरायाः स्थापनम्, तत्र स्नानादिफलम,


१६४ अथान्नकूटपरिक्रमप्रभावः, मथुरापश्चिमे भागे गोवर्द्धन क्षेत्रम्। पूर्वेणेन्द्रम् दक्षिणे यमतीर्थम्, पश्चिमे वारुणम्, उत्तरेण कौबेरम्, अन्नकूटप्रदक्षिणम्, प्रदक्षिणाविधानम्, पुण्डरीकतीर्थमहिमा, आप्सरसं कुण्डम्, सङ्कर्षणं तीर्थम्, कदम्बखण्डकुण्डम्, अरिष्टतीर्थम्, राधाकुण्डम्, मोक्षराजाख्यं तीर्थम्, इन्द्रध्वजतीर्थम्, अन्नकूटपरिक्रमफलम्.


१६५ ब्राह्मणमाहात्म्यम्, कूपप्रभावः, मथुरायां प्रेतमुक्तिः.....


१६६ असिकुण्डप्रभावः, असिकुण्डोत्पत्तिः. ...


१६७ विश्रान्तिमाहात्म्यम्, राक्षसमुक्तिः


१६८ मथुरायां महादेवस्यक्षेत्रपालत्वनिरूपणम्, महादेवदर्शनेन मथुरायां प्रवेशात्फलप्राप्तिः.


१६९ गरुडवृत्तान्तम् ...


१७० वसुकर्णवैश्यस्यापुत्रस्य कस्यचिन्मुनेरुपदेशतः सस्त्रीकस्यव्रतं गोकर्ण- नाममहादेवस्य चरतः गोकर्णनामपुत्रप्राप्तिः पुत्राकांक्षया मथुरायां निवसन्धनसंक्षये सति वाणिज्येनोपार्जितं द्रव्यं गृहीत्वा प्रतिनिवृत्तस्य मार्गे कंचिच्छैलं दृष्टा त रिष्टाद्गतस्य तस्य कन्दरे कस्यचिच्छुकस्य समागमे तेनोक्तंस्वस्यप्राक्तनवृत्तम्, गोकर्णशबरसंवादः.


१७१ शुकपञ्जरं गृहीत्वा गोकर्णस्य मथुरागमनम्, धनसंक्षये शुकेन सह धनसञ्चयाय नावि समारुह्यगच्छतो महावातविह्वलस्य सतो गोकर्णस्य शुकेन कुतोपि द्वीपांतरात्संप्रार्थनयाऽऽनीतेन जटायुषः पीठोपरिसमा- रुह्य द्वीपान्तरगमनम्, ततः स्वदेशं गन्तुमशक्तेन गोकर्णेन स्वपित्रोरग्रे शुकप्रेषणम्, मथुरामागत्य गोकर्णवृत्तनिवेदनं तत्पितृभ्याम्. ...


१७२ तद्द्वीपस्थदेवीनां प्रसादतो गोकर्णस्य मथुरागमनम्. ..


१७३तत्र महान्ति कार्याणि कृत्वा गोकर्णस्य मोक्षः


१७४ महानामब्राह्मणाख्यानम्, नानातीर्थेषु पर्यटतो ब्राह्मणस्य प्रेतसंवादः, प्रेतानामाहारः, प्रेतयोन्यामागमनकारणम्, प्रेतत्वप्राप्तिहेतुः, धर्म- विरुद्धकारिणां सद्गतिप्राप्तिकरणम्, मथुरायां सङ्गमे वामनदेवपूजाप्रकारः, प्रेतानां मुक्तिः, एतत्पठनफलम्.


१७५ कृष्णगंगाकालञ्जरमाहात्म्यम्, वसुब्राह्मणाख्यानम्


१७६ वसुब्राह्मणाख्यानम्, कृष्णगंगोद्भवमाहात्म्यम् ...


१७७ द्वारिकायामागतनारदवचनेन सदःसमाहूतानां स्त्रीणां सांबरूपदर्श- नेन कामोद्दीपनम्, सांबाय कृष्णदत्तःशापः, आदित्याराधनं प्रति साम्बाय नारदेनोपदिष्टो धर्मः, तपश्चरतः साम्बस्य सूर्याद्वरप्राप्तिः सूर्यप्रतिष्ठापनञ्च, ततः परं सांबपुरप्राकट्यम्. ..


१७८ मार्गशीर्षद्वादश्यामुपोष्यशत्रुघ्नचरितश्रवणफलम्.


१७९ द्वात्रिंशदपराधेषु प्रायश्चित्तानि मथुरास्थतीर्थानि.


१८० चन्द्रसेननृपाख्यानम्, ध्रुवतीर्थमाहात्म्यम् एतच्छ्रवणफलम् श्राद्धकरणमावश्यकम्, सत्पात्रेषुदानम्, पठनफलम्, .


१८१ अथ मपुकाष्ठाप्रतिमायामर्चास्थापनम्, प्रतष्ठितार्चायामर्चनविधानम् १८२ शैलार्चास्थापनम्, पूजनप्रकारः, अस्य फलम् ...


१८३ मृन्मयार्चास्थापनम्, अर्चनप्रकारस्तत्फलञ्च. -


१८४ ताम्रार्चास्थापनम्, तद्विधानम्, पूजनप्रकारस्तत्फलम्,


१८५ कांस्यार्चास्थापनम्, तद्विधानम्, पूजनप्रकारस्तत्फलञ्च


१८६ रौप्यप्रतिमास्थापनम्, तदभिषेकः, सुवर्णार्चास्थापनम्, गृहे नार्च्यानि लिंगानि, क्रयविक्रयनिषेधः,


१८७ अथ सृष्टिपितृयज्ञौ, स्वर्गोत्पत्तिः, देवादीनामुत्पत्तिः, पुत्रशोकसन्तप्तस्यनिमेर्नारदेनज्ञानोपदेशतः समाश्वासनम्, तच्चिन्तनेनागतेन स्ववंश- कर्त्राऽऽत्रेयेणोपदिष्टः पितृयज्ञः, मृतस्योत्तरक्रिया.


१८८ अथ पिण्डकल्पश्राद्धोत्पत्तिप्रकरणम्, मृतस्य त्रयोदशाहपर्यंतं करणीयं कार्यम्, श्राद्धे वर्जनीयाः, आगतानां द्विजानां पूजनादिकम्, छत्रादिदानम्, प्रेतनिमित्तं भक्ष्यभोज्यादिदानम्. प्रेतविसर्जनम्


१८९ अथ पिण्डकल्पोत्पत्तिप्रकरणम्. प्रेतभोजनविशोधनार्थमुपवासादिकम्, उदरस्थे प्रेतान्ने नरकादिप्राप्तिः, पात्रे दानादिकम्, मेधातिथिवृत्तान्तम्,


१९० अथ श्राद्धपितृयज्ञनिश्चयप्रकरणम्, श्राद्धेऽभोज्याः, अदर्शनीयदर्शनेन श्राद्धस्य राक्षसत्वम्, गृहस्थानां श्राद्धादिप्रकारः, श्राद्धादिकरणफ- लम्, पितॄनुद्दिश्य प्रथमं श्राद्धमग्नये दातव्यम्, तत्कारणम्, तत्पश्चात् पितृभ्यः पिण्डदानादिकम्, अपांक्तेया विप्राः अपांक्तेयानां भोजनेन पितॄणां दुःखम्, मृताऽन्नाभोक्तॄणां दानप्रकारः । प्रेतान्नं भुज्यमानानां प्रायश्चित्तम्, तत्र भोजने संकल्पाकरणम्


१९१ अथ मधुपर्कोत्पत्तिदानसंकरणप्रकरणम्.


१९२ अथ सर्वशान्तिवर्णनम्, शान्तिः, मधुपर्कः


१९३ नाचिकेतप्रयाणवर्णनम्, जनमेजयस्यवैशंपायनसमागमः, उद्दालके- नशप्तस्य नचिकेतोनामपुत्रस्य यमसदनगमनम्...


१९४ नचिकेतसः पुनः पितुरन्तिकमागमनम्, संयमिनीस्थानां वृत्तान्तश्रव- णोत्सुकानां प्रश्नाः,


१९५ यमलोकस्थपापिवर्णनम्, अन्ये च तापसैः पृष्टाः प्रश्नाः, ...


१९६. धर्मराजपुरवर्णनम्, यमपुरप्रमाणमू, .पुष्पोदकसरिद्वर्णनम्, पुरस्य नानाविधसमृद्धिवर्णनम् ...


१९७ धर्मिष्ठपापिष्ठानां प्रवेशस्थानानि, धर्मयुक्तानां पापकारिणाञ्च सभा, कूष्माण्डयातुधानाद्यन्यशुभाशुकर्मकारिणां वर्णनम्


१९८ अथ संसारचक्रयातनास्वरूपवर्णनम्, नाचिकेतस्य यमकृतमातिथ्यम्, नाचिकेतकृतं यमस्तोत्रम्, तुष्टेन यमेन ऋषिपुत्राय जीवानां नानविधयातनाप्रदर्शनम्


१९९ विविधपापकारिणां विविधयातनादर्शनम्


२०० नरकयातनास्वरूपवर्णनम्, वैतरणीनदीवर्णनम्, सहकारवनम्, यमचुल्लीवर्णनम्, शूलग्रहः पर्वतः, शृङ्गारकवनम्, नानाविधस्तैन्यकर्तॄणां दशा


२०१ अथ राक्षसकिंकरयुद्धम्


२०२ अथनारकीयदण्डनकर्मविपाकवर्णनम्. नानाविधदुष्कृतकारिणां चित्रगुप्तादिष्टनानाविधदुःखप्रदयातनादानम्


२०३ अथ पापसमूहानुक्रमवर्णनम्, चित्रगुप्तादिष्टपापफलानि


२०४ अथ दूतप्रेषणम्, चित्रगुप्तेन नानाप्रकाररूपधारिणां दूतानां प्रेषणम्


२०५ अथ शुभफलानुकीर्तनवर्णनं सुकृतकारिणां सत्स्थानप्रेषणम्


२०६ अथ शुभकर्मफलोदयप्रकरणम् ...


२०७ संसारचक्रपुरुषविलोभनप्रकरणम्, यमसदसि नारदागमनम्, यमनारदसंवादः, नरकप्राप्तिनिवारणकृत्यानि, तपआदिनियमकारिणां सत्फलावाप्तिः, नानाप्रकारव्रतदानादिजन्य- फलवर्णनम्, .. ...


२०८ अथ पतिव्रतोपाख्यानम्, तपसा सिद्धानां द्विजानां माहात्म्यम्, निमि पुत्रस्य मिथे रूपवतीनामपत्न्याः पतिव्रताप्रभावः, अरण्ये वसतो मिथिरूपवत्योर्ग्रीष्मतापतप्तायारूपवत्या महीं पतमानायाः क्रूरकटाक्षप्रक्षेपाद्गगनतलान्मरीचिमालिनः पतनम्.


२०९ पतिव्रतामाहात्म्यवणर्नम्, पतिव्रताभिराचरणीयानि भर्तृनिमित्तकार्याणि --


२१० अथ पापनाशोपायनिरूपणम्, पापनाशनोपायाः, प्रजापतिप्रोक्तपापनाशनोपायाः,


२११ चतुर्वर्णानां पापनाशनोपायवर्णनम्, महापातकिनां पापनिराकरणोपायः, एकादशीमाहात्म्यम्, एकादश्यां भोजननिषेधः, दशावतारपूजनादिकम, तत्फलं च.


२१२ अथ संसारचक्रोपाख्यानप्रबोधनीयवर्णनम्, संयमिनीवृत्तान्तं श्रुत्वा तापसानामाश्चर्यम्


२१३ गोकर्णेश्वरमाहात्म्यम्, मुञ्जवन्नामनगे स्थाणुतुष्टये तपस्तप्यतो नन्दिनामद्विजस्य तपस्तुष्टेनागतेन शंभुना तस्मै स्वसाम्यरूपवरप्रदानम्,


२१४ पुनः गोकर्णमाहात्म्यम्, नन्दिकेश्वरवरप्रदानवर्णनम्, नन्दीश्वरवरप्राप्त्या त्रस्तनां मौञ्जवति पर्वते ब्रह्मादिदेवानामागमनम्, तत्र समग्रदेवगन्धर्वतीर्थविद्याधरोरगादीनामागमनम्. इन्द्रस्यार्थनयो महेश्वरात्स्ववरप्राप्तिकथनम्


२१५ अथ गोकर्णेश्वरजलेश्वरमाहात्म्यवर्णनम्, शिवं विचिन्वतो देवान् प्रत्यन्तरिक्षस्थेन शंभुनोक्तं शैलेश्वरमाहात्म्यम्, तत्र मृगशृंगोदकं नामतीर्थम्, पञ्चनदं तीर्थम्, वाग्मतीमाहात्म्यम्, वासुकिदर्शनफलम्, क्रोशोदकं तीर्थम्, ब्रह्मोद्भेदं तीर्थम्, गोरक्षकं तीर्थम्, गौरीशिखरः उमास्तनकुण्डम्, प्रान्तकपानीयं तीर्थम्, ब्रह्मोदयं तीर्थम्, सुन्दरिकातीर्थम्, वाग्मती वणिवती- संगमः, क्षेत्रस्यास्य गोकर्णेश्वर इति ख्यातिः


२१६ अथ गोकर्णेशृंगेश्वरादिमाहात्म्यम्, , तत्रैव दशग्रीवस्य तपःकरणम्, दक्षिणगोकर्णोत्पत्तिः.


२१७ अथ धरणीवराहसंवादफलश्रुतिवर्णनम्.


२१८ पुराणपठनादिविषयानुक्रमणिका.


इति श्रीगोंडलनिवासिकालिदासतनूजनुषाजीवनरामशर्मणाविनिर्मिता श्रीवराहपुराणस्थविषयानुक्रमणिका संपूर्णा ।।