समासः०६ श्रोतृस्तवनम्
अथ वन्दे श्रोतृजनान्।ये भक्ताः, ज्ञानिनः, साधवव्व्ः, सज्जनाः,विरक्ताः, योगिनः, गुणसम्पन्नाः सत्यवादिनः: (तान् श्रोतृजनान् वन्दे)। ॥१.६.१
एके सत्त्वसागराः, एके बुद्धेः आधारभूताः, एके श्रोतारः, नाना शब्दरत्नानां खनिभूताः (तान् श्रोतृजनान् वन्दे)॥१.६.२
ये नाना अर्थामृतस्य भोक्तारः:, प्रसङ्गे वक्तुः अपि वक्तारः, नाना संशयच्छेदकाः, निश्चयिनः पुरुषाः, (तान् श्रोतृजनान् वन्दे)॥१.६.३
येषां धारणाशक्तिः अपारा,ये ईश्वरस्य अवताराः, अथवा साक्षात् सुरवराः,एव उपविष्टाः, (तान् श्रोतृजनान् वन्दे)॥१.६.४
अथवा ये सत्त्वस्थानां शान्तानाम् ऋषिवराणां मण्डलं, येन सभामण्डलम् अतीव शोभितं, (तान् श्रोतृजनान् वन्दे)॥१.६.५
येषां हृदये वेदसारः विलसति, मुखे सरस्वती विलसति, ये साहित्यं यदा वदन्ति तदा बृहस्पतितुल्या भासन्ते,(तान् श्रोतृजनान् वन्दे) ॥१.६.६
ये पावित्र्येण वैश्वानराः,ये स्फूर्तिकिरणानां दिनकराः,ज्ञातृत्वेन ब्रह्माण्डाद् अपि विस्तृताः, (तान् श्रोतृजनान् वन्दे)॥१.६.७
ये सदा सावधानाः,ये त्रिकालज्ञाः,सर्वदा निरभिमानाः, आत्मज्ञाः,(तान् श्रोतृजनान् वन्दे)॥१.६.८
यैः अदृष्टं किमपि नावशिष्टम्।यैः मनसा सकलपदार्थाः लक्षिताः(तान् श्रोतृजनान् वन्दे) ॥१.६.९
यत् किमपि वदामः तद् एतेषां ज्ञातपूर्वं विद्यते।तत्र ज्ञातृत्वाभिनिवेशेन किमिति अनुवदनीयम?॥१.६.१०
परमेते गुणग्राहकाः अतः निःशङ्कं वदामि।भाग्यवन्तः पुरुषाः किमिति न सेवन्ते?॥१.६.११
भाग्यवन्तः पुरुषाः सदा दिव्यान्नानि सेवन्ते तथापि परिवर्तनाय सामान्यम् अन्नम् अपि सेवन्ते।तथैव मम प्राकृतानि (सामान्यानि) वचनानि अपि (सेविष्यन्ते)॥१.६.१२
स्वशक्तिम् अनुसृत्य भावेन देवः पूजनीयः।(सामग्र्यभावः अस्तीति)देवः नैव पूजनीयः इति विचारः क्वापि नास्ति॥१.६.१३
तथैवाहं कश्चिद् वाग्दुर्बलः।श्रोतारः साक्षात् परमेश्वररूपाः।वाचालोऽहं तेषां पूजनाय प्रवृत्तः॥१.६.१४
न मे व्युत्पत्तिः, न कला, न चातुर्यं न प्रबन्धकौशलं, न भक्तिः, न ज्ञानं, न वैराग्यं, न वा माधुर्यम्॥१.६.१५
ईदृशो मम वाग्विलासः।तथापि जगदीशः भावम् अपेक्षते, इत्यतः निःशङ्कतया सावकाशं वदामि॥१.६.१६
श्रोतारः यूयं भगवन्मूर्तिरूपाः।तत्र मम व्युत्पत्तिः कीदृशी?बुद्धिहीनः अल्पमतिः अहं तथापि (युष्माभिः सह) सख्यभावेन वर्ते॥१.६.१७
समर्थपुत्रः मूर्खोऽपि (पितुः) सामर्थ्यं लभते।अतः युष्माभिः साधुभिः सह सख्यम् अहं करोमि॥१.६.१८
व्याघ्राः, सिंहाः भयानकाः सन्ति।तान् दृष्ट्वा जनाः भीताः भवन्ति।तथापि तेषां शावकाः तेषां पुरतः निःशङ्कं क्रीडन्ति॥१.६.१९
तथैव भवद्भिः सद्भिः अङ्गीकृतः अहं भवतां पुरस्ताद् भाषे।अतः भवतां चित्तं मम चिन्तां वहिष्यति एव।१.६.२०
अस्मदीयः जनः अनुचितं भाषते चेत् तस्य वचनस्य (ज्येष्ठैः) सम्पादनं क्रियते।मम न्यूनं पूरयन्तु इति वचनं नावश्यकम्।१.६.२१
इदं तु प्रीतिलक्षणम्।मनसि स्वभावतः एव वर्तते।तथा भवन्तः सज्जनाः विश्वस्य मातरः पितरः च।१.६.२२
मम आशयं विज्ञाय यथोचितं विधातव्यम्।अथ अग्रिमकथा अवधार्यताम् इति वक्ति दासानुदासः॥१.६.२३
॥ श्रोतृजनस्तवनं नाम षष्ठः समासः॥
दशक ०१ - स्तवनम् दासबोधः समर्थरामदासकृतयः मराठीभाषितस्य संस्कृतेन