पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

36 गणितसारसङ्ग्रहः
एकांशवृद्धीनां राशीनां युगवंशाहारस्याधिक्ये सत्यंशोत्पादक सूत्रम् -
समहारौकांशकयुतिहतयुत्यंशोंऽश एकर्टीनाम् ।
शेषमितरांशयुतिहतमन्यांशोऽस्त्येवमा चरमत् ॥ ७३ fi

अत्रोद्देशकः ।
नवकदशैकादशहृतराशनां नवतिनवशतीभक्ता ।
यूनाशीत्यष्टशती संयोगः केंऽशकाः कथय ॥ ७४ ॥

छेदोत्पत्तौ सूत्रम्--
रूपांशकराशीनां रूपाद्यास्त्रिगुणिता हराः क्रमशः।
द्विद्वियंशाभ्यस्तावादिमचरमौ फले रूपे ॥ ७५ ॥

अत्रोद्देशकः।

पधानां राशीनां रूपांशानां युतिर्भवेद्पम् ।
षण्णां सप्तानां वा के हाराः कथय गणितज्ञ ॥ ७६ ॥

विषमस्थानानां छेदोत्पत्ता सूत्रम् --

एकांशकरानां द्याद्या रूपोत्तरा भवन्ति हराः ।
स्वासन्नपराभ्यस्तास्सर्वे दलिताः फले रूपे ॥ ७७ ॥

एकाशानामनेकांशानां चैकांशे फलं छेदोत्पत्तौ सूत्रम्
लब्धहरः प्रथमस्यच्छेदः सस्वांशकोऽयमपरस्य।
प्राक स्वपरेण हतोऽन्त्यः स्वांशेनैकांशके योगे ॥ ७८ ॥

अत्रोद्देशकः ।

सप्तकनवकत्रितयत्रयोदशांशप्रयुक्तराशीनाम् ।
रूपं पादः षष्टः संयोगाः के हराः कथय ।। ७९ ॥


• B सदृशवृष्यंशराशीनां अंशोत्पादकसूत्रम् ।