पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

31 कलासवर्णव्यवहारः

गुणधनगुणसङ्कलितधनयोः सूत्रम् --
पदमितगुणहतिगुणितप्रभवः स्याह्नणधनं तदायूनम् ।
एकोनगुणविभक्तं गुणसङ्कलितं विजानीयात् ।। ४० ।।

गुणसङ्कलितान्त्यधनानयने तसङ्कलितानयने च सूत्रम्--
गुणसङ्कलितान्त्यधनं विगतैकपदस्य गुणधनं भवति ।
तदृणगुणं भुवनं व्येकोत्तरभाजितं सारम् ॥ ४१ ॥

अत्रोद्देशकः ।

प्रभवोऽष्टमश्चतुर्थः प्रचधः पञ्च पदमत्र गुणगुणितम् ।
गुणसङ्कलितं तस्यान्यधनं चाचक्ष्व मे शीघ्रम् ॥ ४२ ॥

'गुणधनसङ्कलित धनयोराद्युत्तरपदान्यपि पूर्वोक्तसूत्रैरानयेत् ।

समानेष्टोत्तरगच्छसङ्कलितगुणसङ्कलितसमधनस्याद्यानयनसूत्रम-
मुखमेकं चयगच्छाविौ मुखवितराहितगुणचित्या ।
हृतचयधनमादगुणं मुखं भवेदिचतधनसाम्ये ॥ ४३ ॥

अत्राद्देशकः ।

भाववार्धिभुवनानि पदान्य
क्षोधिपथमुनयस्त्रिहृतास्ते ।
उत्तरााण वदनानि काति स्यु-
युग्मसङ्कलेतांवत्तसमेषु ॥ ४४ ॥

इति भिन्नसङ्कलितं समाप्तम् ।

भिन्नव्युत्कलितम् ।

भिन्नव्युत्कलिने करणसूत्र यथा --
गच्छाधिकेष्टमिष्टं चयहतमूनोत्तरं द्विहादियुतम् ।
शेषेष्टपदार्थगुणं व्युत्कलितं स्वेष्टवित्तं च ॥ ४९ ॥


  • Found cnly in B.