पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७६
[ब्रह्मानंदे विषयानंद
पञ्चदशी

वासनानन्दस्तु ११-९६ श्लोके निरूपित वृतिसहितं ध्यानं त्रिविधं, तद्रहितमेकं मिलित्वा चतुर्विधं ध्यानम् ॥२९॥

 नेतुं वृत्तिविनिर्मुक्तब्रह्मचिन्तनस्य ध्यानत्वोक्तौ ततोऽविशिष्टत्वेनं ज्ञान योगाभ्यामुत्पन्नं ज्ञानं ध्यानावानन्तरभेद एव भवेदित्याशंक्याह,नेति ।

न ध्यानं ज्ञानयोगाभ्यां ब्रह्मविद्यैव सा खलु ।
ध्यानेनैकाग्र्यमापन्ने चित्ते विद्या स्थिरीभवेत् ॥ ३० ॥

 योगानन्दमानन्दाद्वैतानन्दप्रकरणेषु विवृताभ्यां ज्ञानयोगाभ्यां लब्धं ब्रह्मज्ञानं न ध्यानम् । अतो ब्रह्मज्ञानं न ज्ञानावान्तरभेदः । तर्हि तत् ज्ञानं किं भवे दित्यत आह, ब्रह्मेति । सा ब्रह्मविद्यैव खलु । तस्य ज्ञानस्य ब्रह्मविद्यास्वरूपत्वेन ब्रह्मविद्यासाधनभूते ध्यानेऽन्तर्भावो भवतीति शंकाऽपि नेति भावः । ध्यानब्रह्म- विद्ययोः साध्यसाधनभावं विशदयति, ध्यानेनेति । ध्यानेनैकाग्र्यमापन्ने चित्तवृत्ति निरोधकरूपेण सच्चिदानन्दस्वरूपचिन्तनेनैकग्र्यमापन्ने चिते विद्या ब्रह्मज्ञानं स्थिरीभवेत् । एवं च स्थिरीभूतं ब्रह्मज्ञानं ध्यानेऽभवितुं नार्हतीति भावः ॥ ३ग

विद्यास्वरूपनिरूपणम् ।

 अखंडैकानन्दरससाक्षात्कारोपकारकत्वात् बह्मविद्यायाः विद्यात्वमित्याह, विद्यायामिति ।

विद्यायां सच्चिदानन्दा अखंडैकरसात्मताम् ।
प्राप्य भान्ति न भेदेन भेदकोपाधिवर्जनात् ॥ ३१ ॥

 विद्यायां ज्ञानदशायां सच्चिदानन्दा अखंडैकरसात्मतां प्राप्य भान्ति । भेदकोपाधिवर्जनात् भेदपरिकल्पनसमर्थस्योपाधेरभावात् भेदेन न भान्ति । यद्वा । ब्रह्मविद्यायां सच्चिदानन्दा अखडैकरसात्मतां एकस्वरूपतां प्राप्य भान्ति । भेदेन प्रातिस्विकरूपेण ते न भान्ति । ध्याने तावत् सच्चिदानन्दानां त्रयाणां भानेऽपि तत्त्द्रूपेणैव भान्ति । विद्यायामिवैकरूप्यं प्राप्य न भान्ति । एवं ब्रह्मविद्यायाः विषयतोऽपि वैलक्षण्यं प्रदर्शितम् ॥३१॥

 तानेव भेदकोपाधीना, शान्ता इति ।