इत्यन्तेन भूमशब्दाभिधेय ब्रह्म आनन्द एवेति सनत्कुमारः प्राह । एवमेव “आनन्दं ब्रह्मणो विद्वान् ” इति (तै. २-४) तैत्तिरीयादिष्वन्यत्र गम्यताम् । एवं ब्रह्मणः सच्चिदानन्दरूपत्वं श्रुत्यभिहितम् ॥ ६३॥
जगतो नामरूपस्वरूपत्वे श्रौतं प्रमाणं दर्शयति, विचित्येति ।
विचित्य सर्वरूपाणि कृत्वा नामानि तिष्ठति । |
धाता सर्वरूपाणि यथा पूर्वमकल्पयत् तथा पुनः सर्जनाय विचित्य तेषां नामानि कृत्वा तिष्ठति । “सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाऽभिवदन् । यदास्ते" इति पुरुषसूक्ते । इमे नामरूपे अहं व्याकरणवाणीति “अनेन जीवेनां त्मनानुप्रविश्य नामरूपे व्याकरणी"ति (छां. ६. ३. २.) श्रुते श्रुत्या प्रदर्शिते ॥६४
तत्रेदं तर्कव्याकृतमासीत्तन्नामरूपाभ्यामेव व्यााक्रीयताऽसौ नामाडय- मिदं रूप”मिति (बृ. १. ४. ७.) श्रुत्या सृष्टस्य जगतो नामरूपात्मकत्वं दर्शितमिति तां श्रुतिमर्थतः पठति, अंव्याकृतमिति ।
अव्याकृतं पुरा सृष्टेरूध्र्वं व्याक्रियते द्विधा । |
सृष्टेः पुरा इदं जगदव्याकृतं अनभिव्यक्तनामरूपात्मकं किंचिदासीत् किंचिद्रूपेणासीत् । सृष्टेरूध्र्वं सृष्टिसमये द्विधा नामरूपभावेन व्याक्रियते व्यक्ती क्रियते । “विस्पष्टं नामरूपाविशेषावधारणमर्यादं व्यक्तभावमापद्यत इत्यर्थः । प्रागुत्पत्तेर्जगत् बीजावस्थमासीत् । तदा अप्रत्यक्षात् परोक्षतया तच्छब्देनाभि बीयते । सृष्टिसमये व्याकृतनामरूपात्मकमासीत् । प्रत्यक्षवादिदं शब्देन चाभि धीयते । सृष्टेः पूर्वं यदव्याकृतावस्थमासीतदेव सृष्टिसमये व्याकृतावस्थमित्यवगम्यते । परोक्षप्रत्यक्षावस्थस्य जगतः एकत्वमेवोच्यते । तदेवेदं इदमेव तदव्याकृतमासीदिति। “तद्धेदं तर्ह्यव्याकृतमासोत्” इत्यत्र अव्याकृतशब्दार्थमाह, अचिन्त्येति । अचिन्त्य शाक्तिः यस्याः शक्तिरिदमित्थमिति मनसाप्यवगन्तुमशक्या ब्रह्मणि स्थिता सैषा माया अव्याकृताभिधा व्याकृतेति नाम्ना अभिधीयते ॥ १५॥