शुक्तिरजतभ्रमस्य निर्माधिकत्वात्तत्र तदभानमपि निवृत्तिरित्यभ्युपेयते । सोपाधि- कत्वनिरुपाधिकत्वभेदेनोभयोर्भ्रमयोवैषम्यात् । तद्दृष्टान्तेन घटादेर्निवृत्तिं प्रत्याशा न कार्या ॥ ४६ ॥
सोपाधिकभ्रमस्थलेऽभानं न निवृत्तिः। किंत्वारोपितसत्यत्वज्ञाननिवृत्ति रैव तन्निवृत्तिरित्यत्र दृष्टान्तमाह, पुमानिति ।
पुमानधोमुखो नर भातोऽप्यस्ति न वस्तुतः । |
नीरे अधोमुखः भातोऽपि प्रतीयमानोऽपि पुमान् वस्तुतः परमार्थतो नास्ति । तस्मिन्नधोमुखजने कस्यचित् क्वचिदपि तटस्थमर्त्यवत् तीरवर्तिजनवत् आस्था अभिमानो न विद्यते एव । तटस्थजनेऽस्तित्वबुद्धिवत्प्रतीयमानेऽप्यधोमुखजने ऽस्तित्वबुद्धिर्न कस्याप्यस्ति । अतः स निवृत इत्येवांगीकार्य इति भावः ॥ १७ ॥
नन्वारोपितं घटादिकार्यं मिथ्या स्यात् । तन्मिथ्यात्वज्ञानस्य न पुरुषा र्थत्वमित्याशंक्याह, ईदृगिति ।
ईदृग्बोधे पुमर्थत्वं मतमद्वैतवादिनाम् । |
ईदृग्बोधे सर्वं जगत् विकारस्वरूपं परं ब्रह्मण्यधिष्ठाने आरोपितं ब्रह्मणो ऽन्यत् सर्वं मिथ्येत्याकारके ज्ञाने सति पुमर्थत्वं अद्वितीयानन्दस्वरूपस्य पुरुषार्थस्य सिद्धिरिति अद्वैतवादिनां मतम् अभिमतम् । ननु घटो मृद्विवर्त इति यदि सिध्यति तदा मृदज्ञानाद्धटसत्यत्वज्ञानं निवर्तेत । न च मृद्विवर्तत्वमेव घटस्य सिद्धमित्याशंक्याह, मृद्रूपस्येति । घटरूपविकारावस्थायामपि मृद्रूपस्य परित्यागा न्मृद्रूपपरित्यागाभावात् घटे विवर्तत्वं स्थितम् ॥ १८ ॥
आरंभादिविवरणम् ।
ननु मृदूपपरित्यागाभावेऽपि मृत्परिणामो घट इति किं न वक्तव्य मित्याशंक्याहपरिणाम इति ।