सामग्री पर जाएँ

पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी

ब्रह्मानन्दे - अहैतानन्दप्रकरणम् ॥१३॥

योगानन्दः पुरोक्तो यः स आत्मानन्द इष्यताम् ।
कथं ब्रह्मत्वमेतस्य सद्वयस्येति चेच्छृणु ॥ १ ॥

 पुरा एकादशप्रकरणे यो योगानन्द उक्तः स एव आत्मानन्द इष्यताम् । ब्रह्मानन्दो योगेन साक्षात्क्रियत इति योगानन्द इत्युच्यते । स एव गौणमिथ्या मुख्यात्मविवेचनेन विवेचितमुख्यात्मरूपत्वादात्मानन्द इत्युच्यत इति भावः । ननु गौणमिथ्यामुख्यभेदैरात्मा त्रिधा भवति (१२-३९) इत्युक्तवात् सद्वयस्यात्मानन्दस्य कथं योगानन्दैकतेरयाशंकते, कथमिति। सद्वयस्य गौणमिथ्यारूपद्वयसहितस्य एतस्य आत्मानन्दस्य अद्वयानन्दरूपब्रह्मत्वं कथं सिध्यतीति चेच्छणु॥ १॥

 आत्मानन्दस्य ब्रह्मत्वं दर्शयति, आकाशेति ।

आकाशादिस्वदेहान्तं तैत्तिरीयश्रुतीरितम्।।
जगन्नास्त्यन्यदानन्दाद्वैतब्रह्मता ततः ।-२॥

 यतः “तस्माद्वा एतस्मादात्मान आकाशः संभूत" इत्यारभ्य "स वा एष पुरुषोऽन्नरसमयः” (तै.२-१) इत्यन्तं तैत्तिरीयश्रुतीरितं आकाशादिस्वेदेहान्तं आकाशानिलानलाप्पृथिव्यौषध्यन्नपुरुषात्मकमिदं जगत् स्वस्य सृष्टिस्थितिलयानां कारणभूतादानन्दादन्यत् भिन्नं नास्ति । ततः आत्मानंदस्य अद्वैतब्रह्मता । कार्यभूतस्य जगतः कारणभूतादानन्दादभिन्नत्वान्न तस्य पृथक्त्वमुच्यते । एवं सति गौणमिथ्यात्मनोराकाशादेश्च न पृथक्त्वं, तेषां जगदन्तःपातित्वादिति भावः ॥२॥