एकाक्षेण चक्षुरादिषु एकेन्द्रियेण एक एवार्थो रूपादिः पृथक् गृह्यते । इतरोऽर्थों न। चक्षू रूपमेव गृहाति न तु गंधादिकम् । तथा धीवृत्तौ चैतन्यमेवावभासते नानन्द इति भावः ॥ ७५॥
नन्वभिन्नयोश्चिदानन्दयोर्विषये विषमोऽयं दृष्टान्त इत्याशंक्याह, चिदिति।
चिदानन्दौ नैव भिन्नौ गंधाद्यास्तु विलक्षणाः । |
गंधाद्या विलक्षणाः भिन्नाः। अतस्तेषां पृथग्भिन्नाक्षविषयत्वं । न तथा वक्तव्यं चिदानन्दविषये । चिदानन्दौ न भिन्नाविति हेतोस्तयोर्न पृथग्विषयता सिद्धिरित्यर्थः । इति चेत् रूपरसादीनां समेपि विषयनैयत्ये भेद इति मतमाश्रित्यायं पूर्वपक्षः । उक्तवैषम्यपरिहारार्थं विकल्पयति । तदभेदः साक्षिणि वा अन्यत्र तदुपाधिभूतधीवृत्तिषु वेति वद ॥ ७६॥
समनियतानामभेद इति मतमाश्रित्य परिहरति, आद्येति ।
आद्ये गंधादयोऽप्येवमभिन्ना: पुष्पवर्तिनः । |
आद्ये चिदानन्दयोः साक्षिण्यमेदपक्षे पुष्पवर्तिनो गंधादय एवमेवाभिन्नाः। उपायान्तरेण एकं विहायापरस्य परिहर्तुमशक्यत्वात् द्वितीये औौपाधिकभेदस्तूभयत्र सम इत्याह, अक्षेति । अक्षभेदेन गंधादेर्व्यम्जकानां अक्षाणां भेदेन तद्भेदे तेषां गंधादीनां औपाधिके भेदेऽभ्युपगते तथैव राजससात्विकतामसादीनां वृत्तीनां भेदात्तयोश्चिदानन्दयोर्भिदा औपाधिकभेदोऽभ्युपगंतव्य इत्यर्थः ॥ ७७ ॥
चिदानन्दयोर्भेद: कल्पितः ।
बुद्धेः रजः सत्ववृत्तिभेदाच्चिदानन्दयोर्भदः कल्प्यत इत्याह, सत्वेति ।
सत्त्रवृत्तौ चित्सुखैक्यं तद्वृत्तेर्निर्मलत्वतः |