धर्मद्वयं न संभवति ॥ २४॥
किं चान्नपानादेरात्मति वैलक्षण्यं प्रदर्शयति सुख इति ।
सुखे वैषयिके प्रीतिमात्रमात्मा त्वतिप्रियः। |
वैषयिके सुखे प्रीतिमात्रं सामान्यतः अल्पा प्रीतिः। आत्मा तु अतिप्रियः अत्यन्तं प्रियः निरतिशयप्रेमास्पदः । निरतिशयत्वे उपपत्तिमाह; एषा प्रीतिः वैषयिकसुखे व्यभिचरति, भक्तिश्रद्धारागवत् सुखान्तरं गच्छति । आत्मनि विद्यमाना एषा प्रोतिः न व्यभिचारिणी विषयान्तरं न गच्छति, अतोऽस्या निरतिशयत्वम् ॥२५॥
अमुमेवार्थं स्पष्टयति, एकमिति ।
एकं त्यक्त्वाऽन्यदादत्ते सुखं वैषयिकं सदा । |
वषैयिकं विषयजन्यं सुखं सदा एकं विषयं त्यक्त्वा अन्यद्वस्तु आदत्ते स्वीकरोति । किन्तु आत्मा न त्याज्यः न चाऽऽदेयः न ग्रहणयोग्यः एवं सति । तस्मिन्नात्मनि कथं व्यभिचरेत् ॥ २६ ॥
नन्वात्मा परित्याज्यो वा परिग्राह्यो वा माऽस्तु । तृणवदुपेक्षितव्यो भवत्वित्याशंक्याह, हानेति ।
हानादानविहीनेऽस्मिन्नुपेक्षा चेत्तृणादिवत् । |
हानादानविहीने परिस्यागपरिग्रहणविरहिते अस्मिन् आत्मनि तृणादिवदुपेक्षा उदासीनभावश्चेत् अस्य आत्मन उपेक्षितुः स्वरूपत्वात् निजात्मन उपेक्ष्यत्वं न संभवति ॥२७॥
नन्वात्मनो हानविषयत्वमपि दृश्यत इत्याशंकते, रोगेति ।