श्रद्धालुर्व्यसनी योऽत्र निश्चिनोत्येव सर्वदा। |
यः श्रद्धालुर्व्यसनी तद्ज्ञानेऽभिनिवेशवानत्र समाधौ सर्वदा ब्रह्मानन्दं निश्चिनोत्येव । ननु भवतु निश्चयः, तथापि तस्य क्षणिकत्वातदज्ञानकाले ब्रह्मानन्दस्य सत्त्वे सिद्धेऽपि तत्सार्वदिकं न स्यादित्याशंक्याह,निश्चित इति । अस्मिन् ब्रह्मानन्दे सकृन्निश्चिते त्वयं सकृन्निश्चयवान् पुरुषोऽन्यदापि समाधीतरकालेऽपि । तस्मिन् ब्रह्मानन्दस्य सत्वे विश्वसिति ॥ १२०॥
एवं ब्रह्मानन्दसत्ताविषये जातविस्रम्भ उदासीनसमयेऽपि ब्रह्मानन्द वासनामपहाय मुख्यमानन्दं भावयतीत्याह,तादृगिति ।
तादृक्पुमानुदासीनकालेऽप्यानन्दवासनाम् । |
स्पष्टोऽर्थः ॥ १२१॥
अत्र दृष्टान्तमाह, परेति ।
परव्यसनिनी नारी व्यग्राऽपि गृहकर्मणि । |
व्याख्यातपूर्वः (९.९४.) ॥ १२२॥
दृष्टान्तं दार्ष्टान्तिके योजयति, एवमिति ।
एवं तत्वे परे शुद्धे धीरो विश्रान्तिमागतः। |
स्पष्टोऽर्थः । धीरो वक्ष्यमाणलक्षणः ॥ १२३ ॥
किं नाम धीरत्वमित्यत आह, धीर इति ।
धीरत्वमक्षप्राबल्येऽप्यानंदास्वादवाञ्छया । |
अक्षप्राबल्येऽपि पुरुषाकर्षणे इन्द्रियाणां प्राबल्येऽप्यानन्दास्वादवाञ्छया