बाह्यभोगात्स्रगादिबाह्यविषयाणां भोगात् । मनोराज्यान्मानसिकभावनातश्च सुखदुःखे द्विधा मते । सुखदुःखान्तरालेषु तयोर्मध्यकालेषु तूष्णीमवस्थितिरौदासीन्यं भवेत् ॥ ९४॥
जाग्रदवस्थायां विद्यमानमौदासीन्यमेव स्वस्वरूपभूतानन्दाभिव्यंजकमित्याह, नेति ।
न कापि चिन्ता मेऽस्त्यद्य सुखमास इति ब्रुवन् । |
अद्य मे न काऽपि चिन्ताऽस्ति, सुखमासे इति ब्रुवन्नौदासीन्ये निजानन्दभानं स्वस्वरूपानन्दस्फुरणमखिलो जनो वक्ति ॥ ९५॥
औदासीन्ये भासमान आनन्दो बासनामात्र एव न तु मुख्यो निजानन्द इत्याह, अहमिति ।
अहमस्मीत्यहंकारसामन्याच्छादितत्त्वतः । |
औदासीन्ये भासमान आनन्दोऽयं मुख्यो निजानन्दो न, किन्तु असौ तस्य मुख्यनिजानन्दस्य वासना, कुतः ? अहमस्मीत्यहंकारसामान्याच्छादितत्वतः, प्रत्येकव्यक्तिमनुल्लिख्य सुख्यस्मी' ति स्वसुखावबोधके वाक्ये उल्लिख्यमानं यदहंकारसामान्यं तेनाच्छादितत्वात् । उपाधिकृतजीवभावसहितत्वादित्यर्थः ॥ ९६॥
तत्र दृष्टान्तमाह, नीरेति ।
नीरपूरितभाण्डस्य बाह्ये शैत्यं न तज्जलम् । |
नीरपूरितभाण्डस्य बाह्ये हस्तस्पर्शेनानुभूयमानं यच्छैत्यं तज्जलम् न । किन्तु नीरगुणः। तेन शैत्येन घटे नीरसता नीरस्य विद्यमानताऽनुमीयते । जलवानयं घटः शैत्यवत्वात् । यथा नीरधृतिरिति प्रयोगः ॥ ९७ ॥
एवमेव वामनानन्दान्निजानन्दोऽनुमीयत इत्याह, यावदिति ।