एषोऽखिलो जनः जन्मान्तरैः कर्मभिः प्रेरितः पश्चान्नानादुःखानि सन्तापकराणि भावयन् मनस्यनुसंदधानः शनैर्बह्मानंदं विस्मरति ॥ ७५॥
सर्वप्राणिनां ब्रह्मानन्दे पक्षपात इत्यत्र न कोऽपि विवाद इत्याह, प्रागिति ।
प्रागूर्ध्वमपि निद्रायाः पक्षपातो दिने दिने । |
निद्रायाः प्रागूर्ध्वमपि नृणां ब्रह्मानंदे दिने दिने पक्षपातोऽस्त्येव । अत एव निद्रादौ मृदुशय्यादि संपादयति । निद्रान्ते तूष्णीमास्ते । तेन हेतुना कः प्राज्ञोऽस्मिन् ब्रह्मानन्दे विवदेत ? नकोऽपीति भावः ॥ ७६ ॥
श्रवणादिनापि सुदुर्लभस्य ब्रह्मानन्दस्य तूष्णीम्भावमात्रेण लभ्यत्वे गुरु- शास्त्रादीनामनावश्यकतामाशंकते, नन्विति ।
ननु तूष्णीम् स्थितौ ब्रह्मानन्दश्चेद्भाति लौकिकाः। |
ननु सुप्तोत्थितस्य कंचित्कालं तूष्णींस्थितौ ब्रह्मानन्दो भाति चेल्लौकिकाः शास्त्रानभिज्ञा: अलसाः तत्तत्कार्याचरणासामर्थ्येन मन्दाः चरितार्थाः कृतकृत्या: स्युः। तेषामपि प्रायस्तूष्णींभावस्थितेर्दर्शनात् । एवं सत्यत्र ब्रह्मानंदविषये शास्त्रेण गुरुणा च किं प्रयोजनम् ? न तयोरावश्यकतात्र विषय इत्यर्थः ॥ ७७ ॥
ब्रह्मानन्दलाभे गुरुशास्त्रे साधनम् ।
गुरुशास्त्राभ्यां विनेदं ब्रह्मानंदसुखमिति न ज्ञायते, तच्च तयोरधीनमिति । समाधत्ते, बाढमिति ।
बाढं ब्रह्मेति विद्युश्चेत्कृतार्थास्तावतैव ते । |
बाढं युक्तमेव। सषुप्तौ तदुत्थाने चानुभूयमानमानंदं ब्रह्मेति विद्युश्चेत्तावतैव ते लौकिकादयः कुतार्था एव । तथापि गुरुशास्त्रे विनाऽत्यन्तं गंभीरं वाक्मनसा