साक्षी देहान्न बाह्यः; तथाऽऽन्तरोऽपि न । देहस्य बाह्याभ्यन्तरवर्तित्वं न साक्षिणो वक्तव्यं, पूर्णत्वादिति भावः । तावुभौ बुद्धेरन्तःकरणस्य देशौ। तर्हि साक्षिणः स्थानं कुत्रेत्यत आह, बुद्धोति । बुद्ध्याद्यशेषसंशान्तौ बुद्धेरिन्द्रियाणां चास्यन्तं प्रतीतेरुपरमे सति यत्र साक्षी भाति तत्र स साक्षी अस्ति ॥२०॥
नन्वशेषबुध्युपरमे देशव्यवहार एव नोपलभ्यते । किमुत तन्निष्ठत्व मित्याशंक्येष्टापत्तिमेवाचष्टे देश इति ।
देशः कोऽपि न भासेत यदि तर्ह्यस्त्वदेशभाक् । |
बुद्ध्याद्यशेषसंशान्तौ सर्वव्यवहाराभावात्कोऽपि देशो यदि न भासेत तर्हि सक्षी अदेशभाक् देशानवच्छिन्नोऽस्तु। अस्माकमधीष्टमेव । “नन्वाकाशवत्सर्वगतश्च नित्यः” इति श्रुतिस्तस्य बाधिका स्यादित्याशंक्याह, सर्वेति । सर्वदेशप्रक्लृप्त्यैव सर्वदेशप्रकल्पनेनैव तस्य सर्वगत्वं सिध्यति; तस्मिन् साक्षिणि सर्वस्यापि देशस्य प्रकल्पनात्तस्य सर्वगतत्वं कल्पितं न तु वास्तवमित्यर्थः, स्वतस्तु तस्य सर्वगत्वं न विद्यत एव ॥२१॥
सर्वगतत्वं प्रपंचयति, अन्तरिति ।
अन्तर्बहिर्वा सर्वम् वा यं देशं परिकल्पयेत् । |
बुद्धिरन्तर्बहिर्वा यम् सर्वम् देशं परिकल्पयेत् तद्देशगः साक्षी भवेत् , सर्वगतत्वमिव सर्वसाक्षित्वमप्यवास्तवमेवेत्याह, सक्षीति । तथैव वस्तुष्वपि, साक्षीतियोजयेत् ॥ २२॥
सर्वद्वैतशान्तौ साक्षी स्वयं प्रकाशते ।
योजनप्रकारं विवृणोति, यदिति ।
यद्यद्रूपादि कल्प्येत बुद्ध्या तत्तत्प्रकाशयन् । |