येते; एवं कथमुच्यते तस्य स्थिरत्वमित्याशंक्याह, अन्तस्थेति ।
अन्तस्था धीः सहैवाक्षैर्बहिर्याति पुनः पुनः। |
चिदाभासविशिष्टाऽन्तस्था धीश्चक्षुराद्यक्षैरिन्द्रियैस्सह विविधविषयग्रहणाय देहाद्वहिः पुनः पुनर्याति । एवं सति भास्यबुद्धिचांचल्यं साक्षिभास्याया बुद्धेश्चांचल्यम् साक्षिणि वृथाऽऽरोप्यते । वास्तवतो न साक्षिणो गमनागमने ॥ १७॥
तत्र दृष्टान्तमाह, गृहान्तरेति ।
गृहान्तरगतः स्वल्पो गवाक्षादातपोऽचलः। |
यथा गवाक्षात् गावः सूर्यकरान् जलानि वाऽक्ष्णुवन्ति व्याप्नुवन्त्येतमनेन वा गवाक्षो वातायनं । तस्माद्गृहान्तरगतः स्वल्प आतपोऽचलश्चांचल्यरहितः । तथापि तत्रातपे हस्ते नत्र्यमाने संचालिते सस्यातपो नृत्यतीव दृश्यते ॥१८॥
दृष्टान्तार्थम् दार्ष्टान्तिके योजयति, निजेति ।
निजस्थानस्थितः साक्षी बहिरन्तर्गमागमौ । |
निजस्थानस्थितः स्वरूपस्थाने स्थितः साक्षी देहाद्वहिरन्तश्च गमागमावकुर्वन्नपि बुद्धिचांचल्याद्बुद्धेंश्चचलस्वभावात्तथा तथा तदनुरूपं गमागमौ करोतीव । दृश्यते । वस्तुतो न चलतीत्यर्थः ॥ १९॥
साक्षिणो देशकालाद्यनवच्छिन्नत्वकथनम् ।
ननु निजस्थानस्थितः साक्षी बहिरन्तर्गमागमौ करोतीवेत्यत्र बहिरन्तर्देशौ साक्षिण आहोस्विद्बुद्धेरिति विकल्प्याह, नेति ।
न बाह्यो नान्तरः साक्षी बुद्धेर्देशौ हि तावुभौ । |