(कठ.२.४.११)"सत्यम् ज्ञानमनन्तं ब्रह्मे" (तै.२-१) त्यादि श्रुतिप्रतिपादितरूपेण वेद्यत्वम् । तथैव शास्त्रबलादुपास्यत्वस्यापि वृत्तिव्याप्यत्वमात्रेणामुख्यत्वं समानमिति भावः ॥ । ६१ ॥
वादिनोः परस्परोपलम्भोऽप्यत्र समान इत्याह, केति ।
का ते भक्तिरुपास्तौ चेत्कस्ते द्वेषस्तदीरय । |
उपास्तौ ते भक्तिः का किंमूलेति चेत्ते द्वेषः कः किंमूलकस्तदीरय । तत्र मानाभाव एव द्वेषकारणमित्युच्यते चेत् , उपास्तौ मानाभावो न वाच्यः कुतः ? अस्यामुपास्तौ प्रमाणस्य बहुश्रुतिषु दर्शनात् ॥ ६२॥
उपास्तेर्बहुश्रुतिषु प्रसिद्धिं प्रदर्शयति, उत्तरस्मिन्निति ।
उत्तरस्मिंस्तापनीये शैब्यप्रश्नेऽथ काठके। |
“देवा ह वै प्रजापतिमब्रुवन्नणोरणीयांसमिममात्मानमोंकारं नो व्याचक्ष्वेतिं" (उत्त. ता. १-१) उत्तरस्मिंस्तापनीये उपनिषदि, “यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत", इति शैब्यप्रश्ने प्रश्नोपनिषदि शैब्यकृतपंचमप्रश्ने, “स वेदा यत्पदमामनन्ती”त्यारभ्य “एतद्ध्येवाक्षरं ब्रह्म एतदालंबनं श्रेष्ठ" मित्यन्तं (का. १-२-१५-१७) काठके “ओमित्येतदक्षरमिदं सर्वं” (मां.१.) इति मांडूक्ये “ओमिति ब्रह्म ओमितीदगं सर्व"मिति तैत्तिरीये च सर्वत्र निर्गुणोपास्तिरीरिता ॥ ६३ ॥
निर्गुणोपासनस्य परंपरया मोक्षसाधनत्वकथनम् ।
एवं निर्गुणोपासनायाः श्रुतियुक्तिसाध्यतां प्रदर्श्य तदनुष्ठानप्रकारविवक्षयाऽऽदौ तस्याः परंपरया मोक्षसाधनत्वमाह,अनुष्ठानेति
अनुष्ठानप्रकारोऽस्याः पंचीकरण ईरितः । |
अस्याः निर्गुणोपास्तेः अनुष्ठानप्रकारः पंचीकरणे विवरणात्मकतया