दृष्टान्तान्तरमाह, कालेनेति ।
कालेन परिपच्यन्ते कृषिगर्भादयो यथा |
गर्भो मातृगर्भस्थपिंडः । ते यथा कालेन परिपक्वतां गच्छन्ति तथाऽऽत्मविचारोऽपि कालेनैव परिपक्वतां गच्छतीति भावः ॥३७॥
भूयो भूयस्तत्त्वविचारे कृतेऽपि फलाभावे वार्तिककारोदाहृतं कारणमाह, पुनरिति ।
पुनःपुनर्विचारेऽपि त्रिविधप्रतिबंधतः । |
स्पष्टोऽर्थः ॥३८॥
फलोद्गमे प्रतिबन्धविचारः ।
प्रतिबंधत्रयस्य क्षये सत्यात्मज्ञानमुदेतीति प्रदर्शयन् प्रतिबंधानाह,कुत इति ।
कुतस्तद्ज्ञानमितिचेत्तद्धि बंधपरिक्षयात् । |
तर्हि तद्ज्ञानमात्मतत्त्वस्य ज्ञानं कुत उदेति चेत्, बंधपरिक्षयात्तदुदेति हि । प्रतिबंधत्रयं विवृणोति, असाविति । “असौ प्रतिबंधः भूतः, भावी, अथवावर्तते, वर्तमानकालिको वेति त्रिविधः ॥ ३९॥
अस्मिन्नर्थे सदृष्टान्तां श्रुतिप्रसिद्धिमाह, अधीतेति ।
अधीतवेदवेदार्थोऽप्यत एव न मुच्यते । |
अतएव त्रिविधप्रतिबंघस्य सद्भावादेवाधीतवेदवेदार्थोऽपि न मुच्यते । हिरण्यनिधिदृष्टान्तात्, यथा हिरण्यनिध्युपरि संचरन्नपि निधिशास्त्रज्ञानेन तं न जानाति, तद्वदिदमेव सति प्रतिबंधे न मुच्यत इत्येतत् "यथा हिरण्यनिधिं निहि तमक्षेत्रज्ञाः" (छां, ८. ३.२) इति श्रुत्या दर्शितमित्यर्थः ॥ ४०॥