जैमिन्यादिभिः पूर्वाचार्यैर्बहुशाखाविप्रकीर्णस्य कर्मकांडस्य निर्णीतोऽर्थ: कल्पसूत्रैरेकत्र समाहृत्य प्रथितः एकस्मिन् सूत्र इव निषद्धः । तावताऽस्तिकः तेषु विश्वासबुद्धिमान् विचारमंतरेणांजसा युक्तोऽनुष्ठातुं शक्तस्समर्थः ॥ २७॥
उपासनाविचारोऽपि ब्राह्मवासिष्ठादिग्रंथेषुपलभ्यत इत्याह, उपास्तीनामिति।
उपास्तीनामनुष्ठानमार्षग्रन्थेषु वर्णितम् । |
सुलभा पदयोजना। "अनेकशास्त्रं बहुवेदितव्यमल्पश्च कालो बहुवश्च विघ्ना:" इत्यभियुक्तोक्तेः स्वयमेव विचार्य निर्णेतुमपर्याप्तोऽयमायुष्काल इति गूढाभिसंधिः॥
नन्वेवं पूर्वाचार्यैर्ग्रथितयोरपि तयोर्मीमांसा किमर्थमाधुनिकैः क्रियत इत्यत आह, वेदेति ।
वेदवाक्यानि निर्णेतुमिच्छन् मीमांसतां जनः । |
वेदवाक्यानि निर्णेतुमिच्छन् वेदार्थस्य निर्णिनीषयाSSधुनिको जनः मीमांसतां शास्त्रसहायेनार्थतत्त्वविचारणां करोतु। 'मान'धातोर्जिज्ञासार्थे 'मान्वदधा'नित्यादिना सन्प्रत्ययोऽभ्यासे इकारो दीर्घश्च। किंतु विश्वासयुक्तस्य आप्तोपदेश मात्रेणानुष्ठानं संभवेत् । हीति निश्चये । कार्याचरणधीराः मीमांसां नापेक्षन्त इत्याकूतम् ॥२९॥
तर्हि ब्रह्मणः परोक्षज्ञान इवापरोक्षज्ञानेऽप्याप्तवाक्यमेवालमित्यत आह, ब्रह्मेति ।
ब्रह्मसाक्षात्कृतिस्त्वेवं विचारेण विना नृणाम् । |
शास्त्रादधिगतार्थस्य विचारेण विना मननादिना विना एवमाप्तोपदेशमात्रेण ब्रह्मसाक्षात्कृतिः कुत्र चिन्न संभवति। अतो विचारणाऽवश्यं कर्तव्येत्यर्थः । पितुरुपदेशेन भृगुस्तपस्तप्त्वाऽन्नमयादिपंचकोशविचरेणैवानंदं | ब्रह्मेति स्वयं व्यजा-