आपातदृष्टितस्तत्र ब्रह्मणो भाति हेतुता । |
आपातदृष्टितः सम्यक्पर्यालोचनाविरहितमतेर्ब्रह्मणो निष्क्रियस्य हेतुता जगत्कारणता तत्र भाति । तथैव तत्त्रैव श्रुतौ हेतोर्जगद्धेतुभूतस्येश्वरस्य सत्यता च तदा परामर्शाद्भाति । तस्माद्भासमानं शुद्धस्य हेतुत्वं हेतुभूतस्य चिदाभासस्य सत्यत्वं चान्योन्यासध्यासमन्तरा न घटते । अतः स इष्यत । एवं श्रुतिसिद्धमीश्वरशुद्धचैतन्ययोरन्योन्याध्यासं सिद्धवत्कृत्य वार्तिककारैः परस्य जगत्कारणत्वं पूर्वम् प्रतिपादितमिति न तयोस्तद्विधशंकावकाश इति भावः ॥१९२॥
नन्वध्यस्तयोरीश्वरब्रह्मणोरैक्यं कथं सिध्यतीत्याशंक्य भ्रान्तिमूलकं तदैक्यमित्याह, अन्योन्येति ।
अन्योन्याध्यासरूपोऽसावन्नलिप्तपटो यथा । |
यथान्नलिप्तः पटः घट्टितेनैकतामेति । स्वतश्शुभ्रः उपरि घट्टितेनान्नेनाच्छादितो भवतीत्यर्थः । तद्वदसौ परमात्माऽन्योन्याध्यासमापन्नस्सन् भ्रान्या ईश्वरेणैकतां गतः॥ १९३ ॥
दृष्टान्तान्तरं स्मारयति, मेघेति ।
मेघाकाशमहाकाशौ विविच्येते न पामरैः। |
स्पष्टोऽर्थः ॥१९४॥
षड्विधलिंगैस्तात्पर्यविचारणाफलम् ।
श्रुतैौ तदोपक्रान्तस्य शुद्धस्य हेतुत्वे स्पष्टं प्रतीयमानेऽसिद्धमीश्वरस्य हेतुत्वं पंचम्या बोध्यत इत्यभ्युपेत्याघटिततद्धेतुत्वघटनाय मध्येऽध्यासः श्रुति सिद्ध इति निश्चीयते । यथाश्रुतं सिद्धस्य हेतुत्वं कुतो नाद्रियते । श्रुतिबलाद संगस्यैव हेतुत्वं वाऽगीम्कार्यम् । हेतुत्वस्य ससंगमात्रवृत्तित्वनियमाभ्युपगमे