तमःप्रधानः मायोपाधिकः परः क्षेत्राणां जडवस्तूनां कारणतामेति । अचेतनसृष्टौ तमोमात्रसहकारिकारणकं चैतन्यं कारणमित्यर्थः । पर एव चित्प्रधानश्चैतन्यप्रधानो भूत्वा चिदात्मनां जीवानां भावनाज्ञानकर्मभिः भावना संस्कारः ज्ञानमुपासनादिकं कर्माणि धर्माधर्मरूपाणि तैरेतैः कारणतां जगदुपतेर्हतुतामेति । पर एव मायाकार्यभावनाज्ञानकर्मसहकारिकारणसहकृतश्चेतनानां सृष्टौ कारणतामेतीति भावः । इत्येवं वार्तिककारेण परमात्मन एव सहकारिभेदेन जडचेतनहेतुतोक्ता नत्वीश्वरस्येति वदसि चेच्छृणु ॥ १८८-१८९॥
सुरेश्वराशयाविष्कारेण विरोधं वारयति, अन्योन्येति ।
अन्योन्याध्यासमत्रापि जीवकूटस्थयोरिव । |
यथा जीवकूटस्थयोरन्योन्याध्यासस्तथाप्यारोप्याधिष्ठानयोरीश्वरब्रह्मणो- रन्योन्याध्यास इति सिद्धंकृत्वा एवं सुरेश्वरो ब्रूते ।१९० ॥
कुत्र दृष्टाध्यासं सिद्धवत्कृत्य वार्तिककारोक्तिरित्याशंक्य तदध्यासदर्शनस्थलं प्रामाणिकमाह सत्यमिति ।
सत्यं ज्ञानमनन्तं यद्ब्रह्मं तस्मात्समुत्थिताः। |
"सत्यं ज्ञानमनन्त" मित्यनेन यदुपक्रान्तं ब्रह्म तस्मात् खं वाय्वग्नि जलोव्योंषध्यन्नदेहाः आकाशपवनतेजोंऽबुभुवः ओषधयोऽन्ने देहश्व समुत्थितास्संभूताः। "तस्माद्वा एतस्मादात्मन आकाशसंभूतः’ (तै.१।२) इत्यादिश्रुतिरूपक्रान्तं शुद्धचैतन्यं तदा परामृश्य तस्यैव जगत्कारणतां ब्रूते ॥१९१॥
ब्रह्मणों जगद्धेतुत्वमध्यासमूलकम् ।
नन्विदं श्रुत्युक्तहेतुत्वमसंगस्य शुद्धब्रह्मणो न घटते, एवं च श्रुतेरप्रामाण्य प्रसंगः, श्रुतिश्च सर्वधा प्रमाणभूतैव, अतस्तप्रामाण्यलक्षणं केनाप्युपायेन श्रुतिप्रामाण्यवादिनां कर्तव्यमित्याशयेनोक्तं हेतुत्वमुपपादयति, आपातेति ।