अद्वितीयज्ञानरूपेण यस्तिष्ठति स ब्रह्मैव । न तु ब्रह्मवित्। जानामीति व्यव- हारस्य ज्ञातृज्ञानज्ञेयभावसापेक्षत्वेन तद्व्यवहारत्यागस्य ज्ञातृज्ञेयभावपरित्यागपूर्वकतया तदानीं ज्ञातृज्ञेयभावयोर्नष्टत्वेन तत्सापेक्षो ब्रह्मविदिति व्यवहारो न स्वारसिक उपपद्यते । तथा चाह श्रुतिः “परमं ब्रह्म वेद ब्रह्मैव भवती"ति (मुं. ३.२.९) ॥६८॥
ईश्वरद्वैताज्जीवद्वैतविवेचनम्य फलं प्रदर्शयन् प्रकरणमुपसंहरति, जीवन्निति ।
जीवन्मुक्तेः पराकाष्ठा जीवद्वैतविवर्जनात् । |
असावेवंरूपा जीवन्मुक्तेः पराकाष्ठा परा उत्कृष्टा च सा काष्ठा सीमा जीवद्वैतविवर्जनाल्लभ्यते । अतोऽत्रास्मिन् प्रकरणे इदं जीवद्वैतमीशद्वैताद्विवेचि- तंम्। जीवद्वैतविवेचनेन तत्परित्याग एव जीवन्मुक्तिः पराकाष्ठाप्राप्तिरिति सैव तत्फलमिति स्फुटमभिहितम् ॥ ६९ ॥
इति
श्रीमत्परमहंसपरिव्राजकाचार्यश्रृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशित
जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनाऽत्रि
गोत्रसमुद्भूतेन लिङ्गनसोमयाजिना विरचितेयं द्वैत
विवेकप्रकरणस्य कल्याणपीयूषव्याख्या समाप्ता ॥
इति द्वैतविवेकप्रकरणम्।