पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणितसारसङ्ग्रहः


गणितशास्त्रप्रशंसा।

लौकिके वैदिके वापि तथा सामायिकेऽपि यः।

व्यापारस्तत्र सर्वत्र सङ्ख्यानमुपयुज्यते ॥ ९ ॥

कामतन्त्रेऽर्थशास्त्रे च गान्धर्वे नाटकेऽपि वा।

सूपशास्त्रे तथा वैद्ये वास्तुविद्यादिवस्तुषु ॥ १० ॥

छन्दोऽलङ्कारकाव्येषु तर्कव्याकरणादिषु ।

कलागुणेषु सर्वेषु प्रस्तुतं गणितं परम् ॥ ११ ॥

सूर्यादिग्रहचारेषु ग्रहणे प्रहसंयुतौ ।

त्रिप्रश्ने चन्द्रवृत्तौ च सर्वत्रङ्गीकृतं हि तत् ।। १२ ॥

द्वीपसागरशैलानां सङ्ख्याव्यासपरिक्षिपः।

भवनव्यन्तरज्योतिर्लोककल्पार्थिवासिनाम् ॥ १३ ॥

नारकाणां च सर्वेषां श्रेणीबन्धेन्द्रकोत्कराः ।

प्रकीर्णकप्रमाणाद्या बुध्यन्ते गणितेन ते ॥ १४ ॥

प्राणिनां तत्र संस्थानमायुरष्टगुणादयः।

यात्राद्यास्संहिताद्याश्च सर्वे ते गणिताश्रयाः ॥ १५ ॥

बहुभिर्विप्रलापैः किं त्रैलोक्ये सचराचरे ।

यत्किचिद्वस्तु तत्सर्वं गणितेन विना न हि ॥ १६ ॥

तीर्थकृद्भ्यः कृतार्थेभ्यः पूज्येभ्यो जगदीश्वरैः।

तेषां शिष्यप्रशिष्येभ्यः प्रसिद्धाद्गुरुपर्वतः ॥ १७ ॥

जलधेरिव रत्नानि पाषाणादिव काञ्चनम्।

शुक्तेर्मुक्ताफलानीव सङ्ख्याज्ञान महोदधे ॥ १८ ॥


  • M स्यात् ; B चापि.

A B च.

  • M and B दण्डा°.

5 M and B पुरा. 3 K and M महा' ७ K a nन'M क्षिपाः

K and P मव for ज्ञान. 8 M 1 K, M and B वदे°.