अथर्ववेदः/काण्डं ४/सूक्तम् ०७
← सूक्तं ४.०६ | अथर्ववेदः - काण्डं ४ सूक्तं ४.०७ गरुत्मान् |
सूक्तं ४.०८ → |
दे. वनस्पतिः। अनुष्टुप्, ४ स्वराट्
विषनाशनम् |
वारिदं वारयातै वरणावत्यामधि ।
तत्रामृतस्यासिक्तं तेना ते वारये विषम् ॥१॥
अरसं प्राच्यं विषमरसं यदुदीच्यम् ।
अथेदमधराच्यं करम्भेण वि कल्पते ॥२॥
करम्भं कृत्वा तिर्यं पीबस्पाकमुदारथिम् ।
क्षुधा किल त्वा दुष्टनो जक्षिवान्त्स न रूरुपः ॥३॥
वि ते मदं मदावति शरमिव पातयामसि ।
प्र त्वा चरुमिव येषन्तं वचसा स्थापयामसि ॥४॥
परि ग्राममिवाचितं वचसा स्थापयामसि ।
तिष्ठा वृक्ष इव स्थाम्न्यभ्रिखाते न रूरुपः ॥५॥
पवस्तैस्त्वा पर्यक्रीणन् दूर्शेभिरजिनैरुत ।
प्रक्रीरसि त्वमोषधेऽभ्रिखाते न रूरुपः ॥६॥
अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे ।
वीरान् नो अत्र मा दभन् तद्व एतत्पुरो दधे ॥७॥
सायणभाष्यम्
'वारिदं वारयाते' इति द्वितीयसूक्तस्य पूर्वसूक्तेन सह उक्तो विनियोगः ।
वारि॒दं वा॑रयातै वर॒णाव॑त्या॒मधि॑।
तत्रा॒मृत॒स्यासि॑क्तं॒ तेना॑ ते वारये वि॒षम् ।।१।।
वाः । इदम् । वारयातै । वरणऽवत्याम् । अधि ।
तत्र । अमृतस्य । आऽसिक्तम् । तेन । ते । वारये । विषम् ॥ १ ॥
वरणावत्याम् वरणा नाम वृक्षविशेषाः ते अस्यां सन्तीति वरणावती । 'शरादीनां च' (पा ६,३,१२० ) इति मतौ पूर्वपदस्य दीर्घः । तस्याम् अधि । अधिः सप्तम्यर्थाsनुवादी। तस्यां स्थितम् इदम् विषहरं वाः वारि वारयातै अस्मदीयं विषं वारयतु । वारयतेर्लेटि आडागमः । वरणावत्युदकस्य कोतिशय इति तत्राह-तत्रामृतस्येति । तत्र वरणावत्याम् अमृतस्य द्युलोकस्थस्य विषहरं स्वरूपम् आसिक्तम् प्रक्षिप्तं विद्यते । अतः तेन अमृतमयेन उदकेन ते त्वदीयं कन्दमूलादिजनितं विषं वारये निवारयामि ।
अ॑र॒सं प्रा॒च्यं॑ वि॒षम॑र॒सं यदु॑दी॒च्य॑म्।
अथे॒दम॑धरा॒च्यं॑ कर॒म्भेण॒ वि क॑ल्पते ।।२।।
अरसम् । प्राच्य म् । विषम् । अरसम् । यत् । उदीच्यम् ।
अथ । इदम् । अधराच्य म् । करम्भेण । वि । कल्पते ॥२॥
प्राच्यम् प्राग्देशे भवं विषम् अरसम् नीरसं निर्वीर्यम् अस्तु । तथा उदीच्यम् उदग्देशे भवं यद् विषम् अस्ति तदपि अरसं निर्वीर्यं भवतु । 'द्युप्रागपागुदक्प्रतीचो यत्' (पा ४,२,१०१) इति शैषिको यत्प्रत्ययः। अथ अनन्तरं इदम् अधराच्यम् । अधरम् अधोदेशम् अञ्चतीति अधराक् पृथिव्या अधस्ताद् वर्तमाना दिक् । तत्र भवम् अधराच्यं विषम् । यद्वा 'प्रागपागुदगधराक्' (अ २०,१३४,१), 'प्राक्तादपाक्तादधरादुदक्तात्' (ऋ ७,१०४,१९) इत्यादिमन्त्रान्तरेषु प्रागादिदिक्त्रयसमभिव्याहारेण दक्षिणा दिक् अधराक्शब्दवाच्या । एतच्च प्रत्यग्दिशोप्युपलक्षकम् । एवं सर्वदिक्संबन्धि विषं करम्भेण । 'मन्थं संयुतं करम्भ इत्याचक्षते' (आपश्रौ १२,४,१३ ) इति आपस्तम्बवचनाद् अत्र विषहरे प्रयोगे प्रयुज्यमानो मन्थः करम्भशब्दवाच्यः। तेन वि कल्पते । विगतसामर्थ्यं भवतीत्यर्थः । कृपू सामर्थ्ये । 'कृपो रो लः' (पा ८,२,१८) इति लत्वम्।
क॑र॒म्भं कृ॒त्वा ति॒र्यं॑ पीबस्पा॒कमु॑दार॒थिम्।
क्षु॒धा किल॑ त्वा दुष्टनो जक्षि॒वान्त्स न रू॑रुपः ।।३।।
करम्भम् । कृत्वा । तिर्यम् । 'पीबःऽपाकम् । उदारथिम् ।
क्षुधा । किल । त्वा । दुस्तनो इति दुःऽतनो । जक्षिऽवान् । सः। न। रूरुपः ॥३॥
हे दुष्टनो दुष्टशरीर विष तिर्यम् तिरोभवं प्रच्छन्नत्वेन प्रयुक्तम् । तिरस्शब्दात् 'भवे छन्दसि' (पा ४,४,११० ) इति यत् । 'अव्ययानां भमात्रे' (पावा ६,४,१४४ ) इति टिलोपः। पीवस्पाकम्। पीवो मेदः पच्यते येन तत् पीवस्पाकम् । पचेः करणे घञ् । उदारथिम् उद्रिक्तार्तिजनकम् ईदृशं त्वा त्वां करम्भं कृत्वा करम्भशब्दवाच्यं मन्थं विभाव्य क्षुधा किल बुभुक्षया । किलेति अपरमार्थे । जक्षिवान् भक्षितवान् । पुरुषो भक्षितवान् । स भक्षितस्त्वं तं पुरुषं न रूरुपः मूर्छितं मा कुरु । जक्षिवान् इति । अदेर्लिटः क्वसुः । 'लिट्यन्यतरस्याम्' (पा २,४,४०) इति घस्लादेशः। 'वस्वेकाजाद्घसाम्' (पा ७,२,६७ ) इति इटि कृते उपधालोपे स्थानिवद्भावाद् द्विर्वचनादि । रूरुप इति । रुप विमोहने । ण्यन्तात् लुङि चङि रूपम् ।
वि ते॒ मदं॑ मदावति श॒रमि॑व पातयामसि।
प्र त्वा॑ च॒रुमि॑व॒ येष॑न्तं॒ वच॑सा स्थापयामसि ।।४।।
वि । ते । मदम् । मदऽवति । शरम्ऽइव । पातयामसि ।
प्र । त्वा । चरुम्ऽइव । येषन्तम् । वचसा । स्थापयामसि ॥ ४ ॥
हे मदावति मूर्छाकरमदयुक्ते विषोपादानभूते ओषधे ते त्वदीयं मदम् मूर्छाकरं विषम् शरुमिव धनुषो विमुक्तं शरमिव वि पातयामसि विपातयामः । शरीराद् विश्लेषयामः । शरुम् इति । शॄ हिंसायाम् इत्यस्मात् 'शॄस्वृस्निहि' (पाउ १,१०) इत्यादिना उप्रत्ययः । हे विष चरुम् चरणशीलं गूढचरं दूतम् इव जेषन्तम् । जेषृ प्रयत्ने । प्रयतमानम् अङ्गप्रत्यङ्गानि व्याप्नुवन्तं त्वा त्वां वचसा मन्त्रेण प्र स्थापयामसि प्रस्थापयामः। ।
परि॒ ग्राम॑मि॒वाचि॑तं॒ वच॑सा स्थापयामसि।
तिष्ठा॑ वृ॒क्ष इ॑व॒ स्थाम्न्यभ्रि॑खाते॒ न रू॑रुपः ।।५।।
परि । ग्रामम्ऽइव । आऽचितम् । वचसा । स्थापयामसि ।
तिष्ठ । वृक्षःऽइव । स्थाम्नि । अभ्रिऽखाते । न । रूरुपः ॥ ५॥
ग्राममिव जनसमूहमिव आचितम् उपचितं विषम् । ग्रामदृष्टान्तेन विषस्य प्राबल्यम् उक्तम् । ईदृशमपि वचसा मन्त्रेण [परि ] परिहृत्य अन्यत्र स्थापयामसि स्थापयामः। निरस्याम इत्यर्थः। हे अभ्रिषाते। अभ्रिः खननसाधनम् । तदीयखननेन लब्धे ओषधे स्थाम्नि स्थाने स्वकीये वृक्ष इव निश्चला भूत्वा तिष्ठ । मा व्याप्नुहीत्यर्थः। अत एव न रूरुपः पुरुषं नामूमुहः।
प॒वस्तै॑स्त्वा॒ पर्य॑क्रीणन्दू॒र्शेभि॑र॒जिनै॑रु॒त।
प्र॒क्रीर॑सि॒ त्वमो॑ष॒धे ऽभ्रि॑खाते॒ न रू॑रुपः ।।६।।
पवस्तैः । त्वा । परि । अक्रीणन् । दूर्शेभिः । अजिनैः । उत ।
प्रऽक्रीः । असि । त्वम् । ओषधे । अभ्रिऽखाते । न । रूरुपः ॥ ६॥
हे ओषधे विषमूलिके त्वा त्वाम् पवस्तैः पवनाय अस्तैः संमार्जनीतृणैः पर्यक्रीणन् परिक्रीतवन्तो महर्षयः। पवस्तशब्दो दाशतय्यां द्यावापृथिव्योर्वाचकत्वेन दृष्टः। 'द्वे पवस्ते परि तं न भूतः' (ऋ १०,२७,७) इति । तथा दूर्शेभिः दूर्शैः दुष्टऋश्यसंबन्धिभिः अजिनैः त्वग्भिश्च पर्यक्रीणन् । उतशब्दः समुच्चये। दूर्शेभिरिति । 'बहुलं छन्दसि' (पा ७,१,१०) इति भिस ऐसभावः । यत एवम् अतो हेतोः त्वं प्रक्रीः प्रकर्षेण क्रीता असि भवसि । अतस्तैर्द्रव्यैस्त्वं प्रक्रीता सती अस्मात् स्थानान्निर्गच्छेति भावः । प्रपूर्वात् क्रीणातेः कर्मणि संपदादिलक्षणः क्विप् । अभ्रिषाते इत्यादि व्याख्यातम् ।
अना॑प्ता॒ ये वः॑ प्रथ॒मा यानि॒ कर्मा॑णि चक्रि॒रे।
वी॒रान्नो॒ अत्र॒ मा द॑भ॒न्तद्व॑ ए॒तत्पु॒रो द॑धे ।।७।।
अनाप्ताः । ये । वः । प्रथमाः । यानि । कर्माणि । चक्रिरे ।
वीरान् । नः । अत्र । मा । दभन् । तत् । वः । एतत् । पुरः । दधे ॥ ७ ॥
हे जनाः वः युष्माकम् अनाप्ताः अननुकूला ये शत्रवः प्रथमा प्रथमानि मुख्यानि यानि योगादीनि कर्माणि चक्रिरे कृतवन्तः तैः कर्मभिस्ते शत्रवः नः अस्माकं वीरान् वीर्याज्जातान् पुत्रपौत्रादीन् अत्र अस्मिन् देशे यद्वा एषु कर्मसु निमित्तभूतेषु मा दभन् मा हिंसन्तु। दम्भु दम्भे । तद् एतत् क्रियमाणं भैषज्यरूपं कर्म वः युष्माकं पुरः पुरस्ताद् दधे रक्षणार्थं धारयामि।
इति द्वितीयं सूक्तम् ।