अथर्ववेदः/काण्डं ६/सूक्तम् ००३

विकिस्रोतः तः
← सूक्तं ६.००२ अथर्ववेदः - काण्डं ६
सूक्तं ६.००३
अथर्वा
सूक्तं ६.००४ →
दे. १ इन्द्रापूषणौ, अदितिः, मरुतः, अपांनपात्, सिन्धवः, विष्णुः, द्यौः, २ द्यावापृथिवी, ग्रावा, सोमः, सरस्वती, अग्निः, ३ अश्विनौ, उषासानक्ता, अपांनपात्, त्वष्टा। जगती, १ पथ्याबृहती


पातं न इन्द्रापूषणादितिः पान्तु मरुतः ।
अपां नपात्सिन्धवः सप्त पातन पातु नो विष्णुरुत द्यौः ॥१॥
पातां नो द्यावापृथिवी अभिष्टये पातु ग्रावा पातु सोमो नो अंहसः ।
पातु नो देवी सुभगा सरस्वती पात्वग्निः शिवा ये अस्य पायवः ॥२॥
पातां नो देवाश्विना शुभस्पती उषासानक्तोत न उरुष्यताम् ।
अपां नपादभिह्रुती गयस्य चिद्देव त्वष्टर्वर्धय सर्वतातये ॥३॥