सामग्री पर जाएँ

अथर्ववेदः/काण्डं ११/सूक्तम् ०७

विकिस्रोतः तः
← सूक्तं ११.०६ अथर्ववेदः - काण्डं ११
सूक्तं ११.०७(११.०५)
ब्रह्मा
सूक्तं ११.०८ →
दे. ब्रह्मचारी। - - - - -- -

ब्रह्मचारीष्णंश्चरति रोदसी उभे तस्मिन् देवाः संमनसो भवन्ति ।
स दाधार पृथिवीं दिवं च स आचार्यं तपसा पिपर्ति ॥१॥
ब्रह्मचारिणं पितरो देवजनाः पृथग्देवा अनुसंयन्ति सर्वे ।
गन्धर्वा एनमन्वायन् त्रयस्त्रिंशत्त्रिशताः षट्सहस्राः सर्वान्त्स देवांस्तपसा पिपर्ति ॥२॥
आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः ।
तं रात्रीस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवाः ॥३॥
इयं समित्पृथिवी द्यौर्द्वितीयोतान्तरिक्षं समिधा पृणाति ।
ब्रह्मचारी समिधा मेखलया श्रमेण लोकांस्तपसा पिपर्ति ॥४॥
पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस्तपसोदतिष्ठत्।
तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥५॥
ब्रह्मचार्येति समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः ।
स सद्य एति पूर्वस्मादुत्तरं समुद्रं लोकान्त्संगृभ्य मुहुराचरिक्रत्॥६॥
ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापतिं परमेष्ठिनं विराजम् ।
गर्भो भूत्वामृतस्य योनाविन्द्रो ह भूत्वासुरांस्ततर्ह ॥७॥
आचार्यस्ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च ।
ते रक्षति तपसा ब्रह्मचारी तस्मिन् देवाः संमनसो भवन्ति ॥८॥
इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च ।
ते कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥९॥
अर्वागन्यः परो अन्यो दिवस्पृष्ठाद्गुहा निधी निहितौ ब्राह्मणस्य ।
तौ रक्षति तपसा ब्रह्मचारी तत्केवलं कृणुते ब्रह्म विद्वान् ॥१०॥ {१४}
अर्वागन्य इतो अन्यः पृथिव्या अग्नी समेतो नभसी अन्तरेमे ।
तयोः श्रयन्ते रश्मयोऽधि दृढास्तान् आ तिष्ठति तपसा ब्रह्मचारी ॥११॥
अभिक्रन्दन् स्तनयन्न् अरुणः शितिङ्गो बृहच्छेपोऽनु भूमौ जभार ।
ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्रः ॥१२॥
अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्यप्सु समिधमा दधाति ।
तासामर्चींषि पृथगभ्रे चरन्ति तासामाज्यं पुरुषो वर्षमापः ॥१३॥
आचार्यो मृत्युर्वरुणः सोम ओषधयः पयः ।
जीमूता आसन्त्सत्वानस्तैरिदं स्वराभृतम् ॥१४॥
अमा घृतं कृणुते केवलमाचार्यो भूत्वा वरुणः यद्यदैच्छत्प्रजापतौ।
तद्ब्रह्मचारी प्रायच्छत्स्वान् मित्रो अध्यात्मनः ॥१५॥
आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापतिः ।
प्रजापतिर्वि राजति विराडिन्द्रोऽभवद्वशी ॥१६॥
ब्रह्मचर्येण तपसा राजा राष्ट्रं वि रक्षति ।
आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिच्छते ॥१७॥
ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् ।
अनड्वान् ब्रह्मचर्येणाश्वो घासं जिगीषति ॥१८॥
ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत ।
इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत्॥१९॥
ओषधयो भूतभव्यमहोरात्रे वनस्पतिः ।
संवत्सरः सह ऋतुभिस्ते जाता ब्रह्मचारिणः ॥२०॥ {१५}
पार्थिवा दिव्याः पशव आरण्या ग्राम्याश्च ये ।
अपक्षाः पक्षिणश्च ये ते जाता ब्रह्मचारिणः ॥२१॥
पृथक्सर्वे प्राजापत्याः प्राणान् आत्मसु बिभ्रति ।
तान्त्सर्वान् ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् ॥२२॥
देवानामेतत्परिषूतमनभ्यारूढं चरति रोचमानम् ।
तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥२३॥
ब्रह्मचारी ब्रह्म भ्राजद्बिभर्ति तस्मिन् देवा अधि विश्वे समोताः ।
प्राणापानौ जनयन्न् आद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥२४॥
चक्षुः श्रोत्रं यशो अस्मासु धेह्यन्नं रेतो लोहितमुदरम् ॥२५॥
तानि कल्पन् ब्रह्मचारी सलिलस्य पृष्ठे तपोऽतिष्ठत्तप्यमानः समुद्रे ।
स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते ॥२६॥ {१६}

सायणभाष्यम्

तृतीयेऽनुवाके पञ्च सूक्तानि । तत्र 'ब्रह्मचारीष्णंश्चरति' इत्यादिभिस्त्रिभिः सूक्तैर्ब्रह्मचारिणो माहात्म्यम् उच्यते । तस्य ब्रह्मयज्ञजपे विनियोगः।

ब्रह्मचा॒रीष्णंश्च॑रति॒ रोद॑सी उ॒भे तस्मि॑न्दे॒वाः संम॑नसो भवन्ति।
स दा॑धार पृथि॒वीं दिवं॑ च॒ स आ॑चा॒र्यं॒ तप॑सा पिपर्ति ।।१
ब्रह्मचारी । इष्णन् । चरति । रोदसी इति । उभे इति । तस्मिन् । देवाः । सम्ऽमनसः । भवन्ति ।
सः । दाधार । पृथिवीम् । दिवम् । च । सः । आऽचार्यम् । तपसा । पिपर्ति ॥१॥
ब्रह्मचारी ब्रह्मणि वेदात्मके अध्येतव्ये चरितुं शीलम् अस्य स तथोक्तः उभे रोदसी द्यावापृथिव्यौ इष्णन् आत्मीयेन तपसा अभीक्ष्णं व्याप्नुवन् चरति स्वनियमे प्रवर्तते । इष आभीक्ष्ण्ये । अस्मात् लटः शत्रादेशः । क्र्यादित्वात् श्नाप्रत्ययः । तस्मिन् ब्रह्मचारिणि सर्वे इन्द्रादयो देवाः संमनसः समानमनस्का भवन्ति । अनुग्रहबुद्धियुक्ता भवन्तीत्यर्थः । स ब्रह्मचारी आत्मीयेन तपसा पृथिवीम् भूमिं दिवम् द्यलोकं च दाधार । तुजादित्वाद् अभ्यासदीर्घत्वम् । धारयति पोषयति । तथा आचार्यम् स्वं गुरुं तेनैव तपसा पिपर्ति पालयति । सन्मार्गवृत्त्या आचार्यं परिपालयतीत्यर्थः । ‘शिष्यपापं गुरोरपि' इति शिष्यकृतेन पापेन गुरोरपि पातित्यस्मरणाद् एवम् उक्तम् । 'चरेराङि चागुरौ' (पावा ३,१,१००) इति गुरावभिधेये आङ्पूर्वाच्चरतेः 'ऋहलोर्ण्यत्' (पा ३,१,१२४) इति ण्यदेव प्रत्ययो भवति । 'तित् स्वरितम्' (पा ६,१,१८५) इति स्वरितत्वम् । पिपर्तीति । पॄ पालनपूरणयोः । जुहोत्यादित्वात् शपः श्लुः । 'अर्तिपिपर्त्योश्च' ( पा ७,४,७७ ) इति अभ्यासस्य इत्त्वम् ।

ब्र॑ह्मचा॒रिणं॑ पि॒तरो॑ देवज॒नाः पृथ॑ग्दे॒वा अ॑नु॒संय॑न्ति॒ सर्वे॑।
ग॑न्ध॒र्वा ए॑न॒मन्वा॑य॒न्त्रय॑स्त्रिंशत्त्रिश॒ताह्ष॑ट्सह॒स्राः सर्वा॒न्त्स दे॒वांस्तप॑सा पिपर्ति ।।२
ब्रह्मऽचारिणम् । पितरः । देवऽजनाः। पृथक् । दे॒वाः । अनुऽसंयन्ति । सर्वे ।
गन्धर्वाः। एनम् । अनु। आयन् । त्रयःऽत्रिंशत् । त्रिऽशताः । षट्ऽसहस्राः । सर्वान् । सः । दे॒वान् । तपसा। पिपर्ति ॥२॥
ब्रह्मचारिणम् ब्रह्मचर्यम् आचरन्तं पुरुषं पितरः पितृगणा देवजनाः एतत्संज्ञा देवगणा अन्ये च सर्वे देवा इन्द्रादयः पृथग् अनुसंयन्ति । तस्य रक्षणार्थं पृथक् पृथक् तम् अनुगच्छन्तीत्यर्थः । तथा गन्धर्वाः अन्तरिक्षसंचारिणो विश्वावसुप्रभृतयः एनं ब्रह्मचारिणम् अन्वायन् अनुगच्छन्ति । ये च त्रयस्त्रिंशद् देवाः 'अष्टौ वसवः एकादश रुद्राः द्वादशादित्याः प्रजापतिश्च वषट्कारश्च' (ऐब्रा १,१०) इत्येवं प्राग् उदाहृताः ये च त्रिशताः । त्रय इति अत्रापि संबध्यते । त्र्युत्तरत्रिशतसंख्याकास्तद्विभूतिरूपा देवाः। तथा षट्सहस्राः ये च तद्विभूतिरूपाः षट्सहस्रसंख्याका देवाः। एवमेव वैश्वदेवनिविदि देवानां संख्या उत्तरोत्तरं भूयसी तन्माहात्म्यप्रतिपादनाय समाम्नायते-- 'ये स्थ त्रय एकादशास्त्रयश्च त्रिंशश्च त्रयश्च त्री च शता त्रयश्च त्री च सहस्रा' इति प्रक्रम्य 'अतो वा देवा भूयांसः स्थ' (खि ५,५,७) इति तत्र प्रकृतसंख्यातो भूयस्त्वश्रवणाद् अत्र षट्सहस्रा इति अधिकसंख्योक्तिः । तान् सर्वान् देवान् स ब्रह्मचारी तपसा आत्मीयेन ब्रह्मचर्यनियमेन पिपर्ति पालयति । देवमनुष्यादिरूपं सर्वं जगद् ब्रह्मचर्येण ध्रियत इत्यर्थः ।

आ॑चा॒र्य॑ उप॒नय॑मानो ब्रह्मचा॒रिणं॑ कृणुते॒ गर्भ॑म॒न्तः।
तम्रात्री॑स्ति॒स्र उ॒दरे॑ बिभर्ति॒ तं जा॒तं द्रष्टु॑मभि॒संय॑न्ति दे॒वाः ।।३
आऽचार्यः । उपऽनयमानः । ब्रह्मऽचारिणम् । कृणुते । गर्भम् । अन्तः ।
तम् । रात्रीः । तिस्रः । उदरे । बिभर्ति । तम् । जातम् । द्रष्टुम् । अभिऽसंयन्ति । देवाः ॥ ३ ॥
ब्रह्मचारिणम् माणवकम् उपनयमानः स्वसमीपम् उपगमयन् आचार्यः अन्तः विद्याशरीरस्य मध्ये गर्भं कृणुते करोति । उपनयमान इति । 'सम्माननोत्सञ्जनाचार्यकरण' (पा १,३,३६ ) इति आत्मनेपदम् । तं गर्भीभूतं ब्रह्मचारिणं तिस्रो रात्रीः । अत्यन्तसंयोगे द्वितीया । तावत्कालपर्यन्तं त्रिरात्रम् उदरे आत्मीये बिभर्ति धारयति । चतुर्थे दिवसे जातम् विद्यामयशरीराद् उत्पन्नं तं ब्रह्मचारिणं द्रष्टुम् अवलोकयितुं देवा अभिसंयन्ति अभिमुखं संभूय गच्छन्ति । उपनयनसंस्कारेण माणवकस्य आचार्यसकाशाद उत्पत्तिं भगवान् आपस्तम्बोऽपि आह स्म -- स हि विद्यातस्तं जनयति। तच्छ्रेष्ठं जन्म। शरीरमेव मातापितरौ जनयतः' ( आपध १,१,१५-१७) इति।

इ॒यं स॒मित्पृ॑थि॒वी द्यौर्द्वि॒तीयो॒तान्तरि॑क्षं स॒मिधा॑ पृणाति।
ब्र॑ह्मचा॒री स॒मिधा॒ मेख॑लया॒ श्रमे॑ण लो॒कांस्तप॑सा पिपर्ति ।।४
इयम् । सम्ऽइत् । पृथिवी । द्यौः। द्वितीया । उत । अन्तरिक्षम् । सम्ऽइधा । पृणाति ।
ब्रह्मऽचारी । सम्ऽइधा । मेखलया। श्रमेण । लोकान् । तपसा । पिपर्ति ॥ ४ ॥
पूर्वं ब्रह्मचारिणो माहात्म्यकथनपुरःसरं तदुत्पत्तिरभिहिता । अधुना स्तुतिव्याजेन तन्नियमा उपदिश्यन्ते -- इयं परिदृश्यमाना पृथिवी ब्रह्मचारिणः प्रथमा समित् । द्यौः द्युलोकात्मिका द्वितीया समित् । उत अपिच अन्तरिक्षे द्यावापृथिव्योर्मध्ये समिधा अग्नावाधीयमानया पृणाति पूरयति । पॄ पालनपूरणयोः । 'प्वादीनां
ह्रस्वः' ( पा ७,३,८०) इति ह्रस्वत्वम् । इत्थं ब्रह्मचारी समिधा आधीयमानया मेखलया धार्यमाणया मौञ्ज्या श्रमेण इन्द्रियनिग्रहोद्भूतखेदेन तपसा अन्येनापि देहसन्तापकेन नियमजातेन लोकान् प्रागुक्तान् पृथिव्यादीन् पिपर्ति पूरयति पालयति वा। अतः समिदाधानादिकम् अवश्यम् अस्य कर्तव्यम् इत्यर्थः।

पूर्वो॑ जा॒तो ब्रह्म॑णो ब्रह्मचा॒री घ॒र्मं वसा॑न॒स्तप॒सोद॑तिष्ठत्।
तस्मा॑ज्जा॒तं ब्राह्म॑णं॒ ब्रह्म॑ ज्ये॒ष्ठं दे॒वाश्च॒ सर्वे॑ अ॒मृते॑न सा॒कम् ।।५
पूर्वः । जातः । ब्रह्मणः । ब्रह्मऽचारी । घर्मम् । वसानः । तपसा । उत् । अतिष्ठत् ।
तस्मात् । जातम् । ब्राह्मणम् । ब्रह्म ! ज्येष्ठम् | देवाः । च । सर्वे । अमृतेन । साकम् ॥
यत् सर्वजगत्कारणं ब्रह्म सत्यज्ञानादिलक्षणं तस्माद् ब्रह्मणः सकाशाद् ब्रह्मचारी पूर्वो जातः प्रथमम् उत्पन्नः । स च उत्पन्नो घर्मम् दीप्तं रूपं वसानः आच्छादयन् तपसा समिदाधानादिरूपेण सह उदतिष्ठत् उत्थितवान् । तस्मात् ब्रह्मचार्यात्मना तपस्तप्यमानाद् ब्रह्मणः सकाशाद् ब्राह्मणम् ब्राह्मणानां स्वभूतं ज्येष्ठम् प्रशस्यतमं वृद्धतमं वा ब्रह्म वेदात्मकं जातम् प्रादुर्भूतम् । तत्प्रतिपाद्याः सर्वे अग्न्यादयो देवाश्च अमृतेन अमृतत्वप्रापकेण स्वोपभोग्येन साकं सह । जाता इत्यर्थः । प्रथमजननाद् ब्रह्मचारी सर्वश्रेष्ठ इत्यर्थः।

ब्र॑ह्मचा॒र्ये॑ति स॒मिधा॒ समि॑द्धः॒ कार्ष्णं॒ वसा॑नो दीक्षि॒तो दी॒र्घश्म॑श्रुः।
स स॒द्य ए॑ति॒ पूर्व॑स्मा॒दुत्त॑रं समु॒द्रं लो॒कान्त्स॒म्गृभ्य॒ मुहु॑रा॒चरि॑क्रत् ।।६
ब्रह्मऽचारी । एति । सम्ऽइधा । सम्ऽइद्धः । कार्ष्णम् । वसानः । दीक्षितः । दीर्घऽश्मश्रुः ।
सः । सद्यः । एति । पूर्वस्मात् । उत्तरम् । समुद्रम् । लोकान् । सम्ऽगृभ्य । मुहुः । आऽचरिक्रत् ॥ ६॥
समिधा सायंप्रातरग्नावाधीयमानया तज्जनितेन तेजसा समिद्धः संदीपितः कार्ष्णम् कृष्णमृगसंबन्धि अजिनं वसानः धारयन् दीक्षितः भिक्षाचरणादिभिर्नियमविशेषैर्नियन्त्रितः दीर्घश्मश्रुः दीर्घैरायतैः श्मश्रुभिर्युक्तः सन् ब्रह्मचारी ब्रह्मचर्यधर्मेण युक्तः एति वर्तते । स उदीरितलक्षणो ब्रह्मचारी सद्यः शीघ्रं पूर्वस्मात् समुद्रात् उत्तरम् उत्तरदिगवस्थितं समुद्रम् एति गच्छति । तपसो महिम्ना व्याप्नोतीत्यर्थः। तथा लोकान् पृथिव्यन्तरिक्षादीन् संगृह्य हस्ते धृत्वा मुहुः अत्यर्थम् आचरिक्रत् आभिमुख्येन करोति । सर्वे लोका अस्य वशे भवन्तीत्यर्थः । आचरिक्रत् इति करोतेर्यङ्लुगन्तात् लङि रूपम् ।

ब्र॑ह्मचा॒री ज॒नय॒न्ब्रह्मा॒पो लो॒कं प्र॒जाप॑तिं परमे॒ष्ठिन॑म्वि॒राज॑म्।
गर्भो॑ भू॒त्वामृत॑स्य॒ योना॒विन्द्रो॑ ह भू॒त्वासु॑रांस्ततर्ह ।।७
ब्रह्मऽचारी। जनयन् । ब्रह्म । अ॒पः । लोकम् । प्रजाऽप॑तिम् । परमेऽस्थिनम् । विराजम् ।
गर्भः । भूत्वा । अमृतस्य । योनौ । इन्द्रः । ह । भूत्वा । असुरान् । ततर्ह ॥ ७ ॥
उक्तलक्षणो ब्रह्मचारी ब्रह्मचर्यमहिम्ना ब्रह्म ब्राह्मणजातिम् अपः स्नानपानार्था गङ्गाद्या नदीः इमम् आत्मनः फलभूतं लोकं स्वर्गादिलोकं प्रजापतिम् प्रजानां स्रष्टारम् अवान्तरसृष्टिकरं परमेष्ठिनम् परमे उत्कृष्टे सत्यलोके तिष्ठतीति परमेष्ठी तम् आदिब्रह्माणं विराजम् स्थूलप्रपञ्चशरीराभिमानिनम् ईश्वरं च जनयन् उत्पादयन् वर्तते स्वस्वकारणाद् उत्पद्यमानानाम् एषां ब्रह्मचर्यं निमित्तकारणम् इति तदाश्रयभूतो ब्रह्मचार्येव जनयन्निति उपचर्यते । अमृतस्य अमरणशीलस्य ब्रह्मणः संबन्धिन्यां योनौ सत्वरजस्तमोगुणात्मिकायां प्रकृतौ प्रथमं ब्रह्मचारी गर्भो भूत्वा उदीरितं सर्वं जनयति । पश्चात् इन्द्रो ह भूत्वा तपोबलाद् इन्द्रत्वं प्राप्य असुरान् सुरविरोधिनो दैत्यान ततर्ह जघान । तृह हिसि हिंसायाम् । इत्थं सर्वजगत्कर्तृत्वेन ब्रह्मचारिणः स्तुतिः।

आ॑चा॒र्य॑स्ततक्ष॒ नभ॑सी उ॒भे इ॒मे उ॒र्वी ग॑म्भी॒रे पृ॑थि॒वीं दिवं॑ च।
ते र॑क्षति॒ तप॑सा ब्रह्मचा॒री तस्मि॑न्दे॒वाः संम॑नसो भवन्ति ।।८
आऽचार्यः । ततक्ष । नभसी इति । उभे इति । इमे इति । उर्वी इति । गम्भीरे इति । पृथि॒वीम् । दिवम् । च ।
ते इति । रक्षति । तप॑सा । ब्रह्मऽचारी । तस्मिन् । दे॒वाः । सम्ऽमनसः । भवन्ति ।
इमे परिदृश्यमाने उभे नभसी नभः अन्तरिक्षम् । तत्साहचर्याद् द्विवचनेन पृथिव्युपलक्ष्यते । द्यावापृथिव्यौ आचार्यस्ततक्ष तक्षणेन जनयामास । तक्षू त्वक्षू तनूकरणे । अस्मात् लिट् । नभसी विशेष्येते-उर्वी विस्तीर्णे गम्भीरे गाम्भीर्ययुक्ते । परिच्छेत्तुम् अशक्ये इत्यर्थः । ते एव व्यस्तं निर्दिशति-पृथिवीं दिवं च इति । तं द्यावापृथिव्योरुत्पादकम् आचार्यं ब्रह्मचारी आत्मीयेन तपसा ब्रह्मचर्यनियमेन रक्षति पालयति तस्मिन् तथाविधे ब्रह्मचारिणि सर्वे देवाः संमनसः समानमनस्काः प्रीता भवन्ति ।

इ॒मां भूमिं॑ पृथि॒वीं ब्र॑ह्मचा॒री भि॒क्षामा ज॑भार प्रथ॒मो दिवं॑ च।
ते कृ॒त्वा स॒मिधा॒वुपा॑स्ते॒ तयो॒रार्पि॑ता॒ भुव॑नानि॒ विश्वा॑ ।।९
इमाम् । भूमिम् । पृथिवीम् । ब्रह्मऽचारी । भिक्षाम् । आ । जभार । प्रथमः । दिवम् । च
ते इति । कृत्वा । सम्ऽइधौ । उप । आस्ते । तयोः । आर्पिता । भुवनानि । विश्वा ।। ९ ।
इमां परिदृश्यमानां पृथिवीम् प्रथितां विस्तीर्णां भूमिं ब्रह्मचारी प्रथमः प्रथमभावं सन् भिक्षाम् आ जभार भिक्षात्वेन आहृतवान् । अनन्तरं दिवम् द्युलोकं च द्वितीयां भिक्षाम् आजहार । 'हृग्रहोर्भः' ( पावा ८,२,३२) इति भत्वम् । ते द्यावापृथिव्यौ भिक्षणेन लब्धे समिधौ कृत्वा उपास्ते आग्निं परिचरति । समिन्धनसाधनयोः तयोः द्यावापृथिव्योः विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि आर्पिता अर्पितानि स्थापितानि । आश्रित्य वर्तन्त इत्यर्थः।

अ॒र्वाग॒न्यः प॒रो अ॒न्यो दि॒वस्पृ॒ष्ठाद्गुहा॑ नि॒धी निहि॑तौ॒ ब्राह्म॑णस्य।
तौ र॑क्षति॒ तप॑सा ब्रह्मचा॒री तत्केव॑लं कृणुते॒ ब्रह्म॑ वि॒द्वान् ।। १०{१४}
अर्वाक् । अन्यः । परः । अन्यः । दिवः । पृष्ठात् । गुहा । निधी इति निऽधी । निऽहितौ । ब्राह्मणस्य ।
तौ । रक्षति । तप॑सा । ब्रह्मऽचारी । तत् । केवलम् । कृणुते । ब्रह्म । विद्वान् ॥१०॥
दिवः द्युलोकस्य पृष्ठात् उपरिभागाद् अर्वाक् अधः भूलोके अन्यः एको निधिर्वेदात्मकः गुहा गुहायाम् आचार्यहृदयरूपायां निक्षिप्तः । अन्यः अपरो निधिस्तत्प्रतिपाद्यदेवतारूपः परः परस्ताद् उपरि देशे गुहायां ज्ञातुम् अशक्ये स्थाने निक्षिप्तः । ब्राह्मणस्य अधीतवेदस्य संबन्धिनौ तौ निहितौ निक्षिप्तौ निधी ब्रह्मचारी तपसा ब्रह्मचर्यनियमेन रक्षति पालयति । विद्वान् वेदार्थरहस्याभिज्ञः तत् शब्दतदर्थात्मकं निधिद्वयं केवलम् निष्प्रपञ्चं ब्रह्म कृणुते कुरुते । स्वात्मभूते परब्रह्मणि वेदराशेस्तदर्थस्य च अध्यस्तत्वेन अधिष्ठानभूतं ब्रह्मैव ताद्रूप्येण साक्षात्करोतीत्यर्थः ।
इति तृतीयेऽनुवाके प्रथमं सूक्तम् ।

अ॒र्वाग॒न्य इ॒तो अ॒न्यः पृ॑थि॒व्या अ॒ग्नी स॒मेतो॒ नभ॑सी अन्त॒रेमे।
तयोः॑ श्रयन्ते र॒श्मयो ऽधि॑ दृ॒ढास्ताना ति॑ष्ठति॒ तप॑सा ब्रह्मचा॒री ।।११
अर्वाक् । अन्यः । इतः । अन्यः। पृथिव्याः। अग्नी इति । सम्ऽएतः । नभसी इति । अन्तरा। इमे इति ।
तयोः। श्रयन्ते । रश्मयः । अधि । दृढाः। तान् । आ। तिष्ठति । तप॑सा । ब्रह्मऽचारी ॥११॥
इतः अस्याः पृथिव्या अर्वाक् अधःप्रदेशे अन्यः एकोऽग्निः अनुद्यत्सूर्यात्मको वर्तते । अन्यः अपरः पार्थिवोऽग्निः पृथिव्या उपरि वर्तते । ततः सूर्य उदिते सति इमे नभसी अन्तरा अनयोर्द्यावापृथिव्योर्मध्ये तौ अग्नी समेतः परस्परं संगतौ भवतः । 'अन्तरान्तरेणयुक्ते' ( पा २,३,४ ) इति द्वितीया । तयोः सूर्याग्न्योः संबन्धिनो रश्मयः परस्परसंमेलनेन अतिदृढाः श्रयन्ते द्यावापृथिव्यौ आश्रयन्ति । 'वैश्वानरो यतते सूर्येण' (ऋ १,९८,१) इति हि निगमः । इत्थम् अग्निद्वयोपेतां तां भूमिं ब्रह्मचारी तपसा तपोमहिम्ना आ तिष्ठति अधितिष्ठति । अग्निरूपेण तस्या अधिदेवता भवतीत्यर्थः।

अ॑भि॒क्रन्द॑न्स्त॒नय॑न्नरु॒णः शि॑ति॒ङ्गो बृ॒हच्छेपो ऽनु॒ भूमौ॑ जभार।
ब्र॑ह्मचा॒री सि॑ञ्चति॒ सानौ॒ रेतः॑ पृथि॒व्यां तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ।।१२
अभिऽक्रन्दन् । स्तनयन् । अरुणः । शितिङ्गः । बृहत् । शेपः । अनु । भूमौ । जभार।
ब्रह्मऽचारी । सिञ्चति । सानौ । रेतः । पृथिव्याम् । तेन । जीवन्ति । प्रऽदिशः । चतस्रः ॥
अभिक्रन्दन् अभितः शब्दं कुर्वन् । एतदेव विव्रियते-- स्तनयन् मेघेषु स्तनितं गर्जितं कुर्वन् श्यतिङ्गः श्येतवर्णं जलपूर्णं मेघं प्रातः एवंभूतो वरुणः बृहत् प्रभूतं शेपः आत्मीयं प्रजननं भूमौ पृथिव्याम् अनु जभार जहार । तेन वरुणसंबन्धिना शेपसा ब्रह्मचारी स्वतपोमहिम्ना सर्वजगदुत्पादकम् उदकलक्षणं वरुणसंबन्धि रेतः पृथिव्यां सानौ उन्नतप्रदेशे सिञ्चति वर्षति । एतेन सर्वजगदुत्पादनार्थम् ऊर्ध्वरेतस्कत्वं ब्रह्मचारिणः सूचितं भवति । वारुणमेव रेतः सिञ्चति न स्वकीयम् इत्यर्थस्य अवगमात् । तेन वृष्टेन उदकलक्षणेन रेतसा प्रदिशश्चतस्रः प्राच्याद्या महादिशो जीवन्ति प्राणान् धारयन्ति । तत्रत्याः प्राणिनः समृद्धा भवन्तीत्यर्थः । यस्मिन् राष्ट्रे ब्रह्मचारी निवसति तत्र कालवृष्टिर्भवतीति तात्पर्यार्थः ।

अ॒ग्नौ सूर्ये॑ च॒न्द्रम॑सि मात॒रिश्व॑न्ब्रह्मचा॒र्य॒प्सु स॒मिध॒मा द॑धाति।
तासा॑म॒र्चीषि॒ पृथ॑ग॒भ्रे च॑रन्ति॒ तासा॒माज्यं॒ पुरु॑षो व॒र्षमापः॑ ।।१३
अ॒ग्नौ । सूर्ये । चन्द्रमसि । मातरिश्वन् । ब्रह्मऽचारी । अप्ऽसु । सम्ऽइधम् । आ । दधाति ।
तासाम् । अर्चींषि । पृथक् । अभ्रे । चरन्ति । तासाम् । आज्यम् । पुरुषः । वर्षम् । आपः ॥
ब्रह्मचारी ब्रह्मचर्यनियमवान् पुरुषः अग्नौ पृथिव्यामवस्थिते अन्तरिक्षगते सूर्ये चन्द्रमसि मातरिश्वन् मातरिश्वनि वायौ अप्सु च समिधम् आ दधाति प्रक्षिपति । अत्र अग्न्यादीनां पूर्वपूर्वस्याभावे उत्तरोत्तरस्मिन् समिदाधानं कर्तव्यं सर्वथा लोपो न कर्तव्यः तत्र सूर्यादिषु संस्मृत्य तद्रश्मियुक्तप्रदेशे समिदाधानम् । अपां संनिधानात् तदपेक्षया तासाम् इति स्त्रीलिङ्गेन प्रतिनिर्देशः। तासां तेषाम् अग्न्यादीनाम् अर्चींषि दीप्तयः अभ्रे अन्तरिक्षे पृथक् चरन्ति असंकीर्णं वर्तन्ते । यद्वा अभ्रे उदकपूर्णे मेघे धनुराकारेण पृथक् पृथग् वर्तन्ते । तासाम् । पूर्ववत् स्त्रीलिङ्गनिर्देशः । तेषाम् अग्न्यादीनां ब्रह्मचारिणा समिध्यमानानाम् आज्यादिकं कार्यम् । अग्न्यादयो ब्रह्मचारिसमिन्धनेन आज्यादिकम् उत्पादयन्तीत्यर्थः । आज्यम् इत्यनेन गोसमृद्धिरुक्ता। पुरुष इत्यनेन पुत्रादिसमृद्धिः । वर्षम् इति काले वृष्टिप्रादुर्भावः। आप इति वापीकूपतटाकादिसमृद्धिः ।

आ॑चा॒र्यो॑ मृ॒त्युर्वरु॑णः॒ सोमो॒ ओष॑धयः॒ पयः॑।
जी॒भूता॑ आस॒न्त्सत्वा॑न॒स्तैरि॒दं स्व॒राभृ॑तम् ।।१४
आऽचार्यः । मृत्युः । वरुणः । सोमः । ओषधयः । पयः ।
जीमूताः । आसन् । सत्वानः । तैः । इदम् । स्वः । आऽभृतम् ॥ १४ ॥
आचार्य एव मृत्युः मारयिता देवः । अपराधाचरणाद् रुष्टस्तस्य जीवनम् अपहरतीत्यर्थः। तथा स एव आचार्यो वरुणः दुरितस्य वारयिता देवः । परिचर्यापरं ब्रह्मचारिणं पापान्निवारयतीत्यर्थः । तथा आचार्य एव सोमः चन्द्रमाः तद्वद् आह्लादकरत्वात् । ओषधयः व्रीहियवाद्याः । पयः क्षीरम् । तत् सर्वम् आचार्यात्मकमेव तत्प्रसादलभ्यत्वात् । यद्वा यो मृत्युर्यमः स नचिकेतसे ब्रह्मविद्याम् उपदिश्य आचार्यः संपन्नः । वरुणोऽपि भृगवे ताम् उपदिश्य आचार्योऽभवत । एवं सोमोऽपीति। सर्वदेवतात्मक आचार्य इत्यर्थः। तत्र आचार्यरूपस्य वरुणस्य ये सत्वानः सदनशीला अनुचरास्ते जीमूता आसन् जीवनम् उदकं तस्य मूतवद् भर्तारः जलपूर्णा मेघा अभवन् । तैः जीमूतैः इदं स्वः सुष्ठु अरणशीलम् उदकम् आभृतम् आहृतम् । वृष्ट्यर्थम् आत्मनि धारितम् इत्यर्थः । यद्वा इदं स्वः सुप्रापं सर्वं जगत् आभृतम् । वृष्ट्या समन्तात् पोषितम् इत्यर्थः।

अ॒मा घृ॒तं कृ॑णुते॒ केव॑लमाचा॒र्यो॑ भू॒त्वा वरु॑णो॒ यद्य॒दैछ॑त्प्र॒जाप॑तौ।
तद्ब्र॑ह्मचा॒री प्राय॑छ॒त्स्वान्मि॒त्रो अध्या॒त्मनः॑ ।।१५
अ॒मा । घृतम् । कृणुते । केवलम् । आऽचार्यः । भूत्वा । वरुणः । यत्ऽयत् । ऐच्छत् ।
प्र॒जाऽप॑तौ । तत् । ब्रह्मऽचारी । प्र । अयच्छत् । स्वान् । मित्रः । अधि । आत्मनः ॥१५॥
वरुणो देवः आचार्यो भूत्वा घृतम् क्षरणशीलम् उदकं केवलम् अमा सह कृणुते कुरुते । उदकमेव अनन्यसाधारणं स्वम् आत्मना सहितं करोतीत्यर्थः । स वरुणः प्रजापतौ स्वजनके ब्रह्मणि यद्यत् फलम् ऐच्छत् मित्रो देवो ब्रह्मचारी भूत्वा स्वकीयब्रह्मचर्यमाहात्म्येन स्वात् स्वकीयात् आत्मनः शरीरात् । अधिः पञ्चम्यर्थानुवादी। ल्यब्लोपे च इयं पञ्चमी । स्वशरीरम् अनपेक्ष्येत्यर्थः । तत् अपेक्षितं सर्वम् आचार्यभूताय वरुणाय प्रायच्छत् दत्तवान् । ततश्च शिष्येण सता ब्रह्मचारिणा विद्योपदेष्टुर्गुरोः प्रीतिकरम् अपेक्षितं धनं संपाद्य प्रदातव्यम् इत्ययमपि एको नियमो ब्रह्मचारिण उक्तो वेदितव्यः ।

आ॑चा॒र्यो॑ ब्रह्मचा॒री ब्र॑ह्मच॒री प्र॒जाप॑तिः।
प्र॒जाप॑ति॒र्वि रा॑जति वि॒राडिन्द्रो॑ ऽभवद्व॒शी ।।१६
आऽचार्यः । ब्रह्मचारी । ब्रह्मऽचारी । प्रजाऽपतिः ।
प्रजाऽपतिः । वि । राजति । विऽराट् । इन्द्रः । अभवत् । वशी ॥ १६ ॥
आचार्यः प्रथमं विद्याम् उपदिश्य ब्रह्मचारी ब्रह्मचार्यात्मना जातः । स च ब्रह्मचारी तपसा ब्रह्मचर्येण अधिकं महिमानं प्राप्य प्रजापतिः जगत्स्रष्टा अभवत् । स च प्रजापतिः वि राजति विराड् भवति । 'यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै' ( श्वेउ ६,१८) इति श्रुत्युक्तः स्थूलप्रपञ्चशरीराभिमानी ईश्वरो विराट् । स च वशी स्वतन्त्रः इन्द्रः परमैश्वर्ययुक्तः सर्वजगत्स्रष्टा परमात्मा अभवत् । ततः आचार्यः परंपरया सर्वदेवतात्मक इति तस्य माहात्म्यं केन वर्णयितुं शक्यम् इति भावः।

ब्र॑ह्म॒चर्ये॑ण॒ तप॑सा॒ राजा॑ रा॒ष्ट्रं वि र॑क्षति।
आ॑चा॒र्यो॑ ब्रह्म॒चर्ये॑ण ब्रह्मचा॒रिण॑मिछते ।।१७
ब्रह्मऽचर्येण । तप॑सा । राजा । राष्ट्रम् । वि । रक्षति ।
आऽचार्यः । ब्रह्मऽचर्येण । ब्रह्मऽचारिणम् । इच्छते ॥ १७ ॥
ब्रह्म वेदः तदध्ययनार्थम् आचर्यम् आचरणीयं समिदाधानभैक्षचर्योर्ध्वरेतस्कत्वादिकं ब्रह्मचारिभिरनुष्ठीयमानं कर्म ब्रह्मचर्यम् । तेन ब्रह्मचर्येण तपसा तत्कृतेन उपवासादिव्रतनियमेन च राजा राष्ट्रं स्वकीयं वि रक्षति विशेषेण पालयति । यस्य राज्ञो जनपदे ब्रह्मचर्येण युक्ताः पुरुषास्तपश्चरन्ति तदीयं राष्ट्रम् अभिवर्धत इत्यर्थः । यद्वा राज्ञः कर्तव्यत्वेन कालविशेषेषु श्रुतिस्मृत्युदितं ब्रह्मचर्यं तपोऽनुतिष्ठन् राजा तेनैव ब्रह्मचर्येण तपसा राष्ट्रं पालयतीत्यर्थः। आचार्यः अपि ब्रह्मचर्येण नियमेन ब्रह्मचारिणम् शिष्यम् इच्छते आत्मनोऽभिलष्यति । ब्रह्मचर्यनियमस्थमेव आचार्यं शिष्या उपगच्छन्तीत्यर्थः । इषु इच्छायाम् । व्यत्ययेन आत्मनेपदम् । इषुगमियमां छः' ( पा ७,३,७७ ) इति छत्वम् ।

ब्र॑ह्म॒चर्ये॑ण क॒न्या॒ युवा॑नम्विन्दते॒ पति॑म्।
अ॑न॒ड्वान्ब्र॑ह्म॒चर्ये॒णाश्वो॑ घा॒सं जि॑गीर्षति ।।१८
ब्रह्मऽचर्येण । कन्या । युवानम् । विन्दते । पतिम् ।
अनड्वान् । ब्रह्मऽचर्येण । अश्वः । घासम् । जिगीर्षति ॥१८॥
अत्रापि ब्रह्मचर्यं प्रशस्यते - कन्या अकृतविवाहा स्त्री ब्रह्मचर्यं चरन्ती तेन ब्रह्मचर्येण युवानम् युवत्वगुणोपेतम् उत्कृष्टं पतिं विन्दते लभते । किं बहुना पशुजातिरपि ब्रह्मचर्येण स्वाभिलषितं फलं लभत इत्याह -- अनड्वान् इति । अनड्वान् अनो वहन् पुंगवः ब्रह्मचर्येण ऊर्ध्वरेतस्कत्वादिना धर्मेण अनोवहनादिकं स्वकार्यं निर्वर्तयन् उत्कृष्टं पतिं लभते । तथा अश्वः ब्रह्मचर्येण घासम् भक्षणीयं तृणादिकं जिगीर्षति भक्षितुम् इच्छति।

ब्र॑ह्म॒चर्ये॑ण॒ तप॑सा दे॒वा मृ॒त्युमपा॑घ्नत।
इन्द्रो॑ ह ब्रह्म॒चर्ये॑ण दे॒वेभ्यः॒ स्व॒राभ॑रत् ।।१९
ब्रह्मऽचर्येण । तपसा । दे॒वाः । मृत्युम् । अप । अघ्नत ।
इन्द्रः । ह । ब्रह्मचर्येण । देवेभ्यः । स्वः । आ । अभरत् ॥ १९॥
ब्रह्मचर्येण ब्रह्मचर्यरूपेण तपसा देवाः अग्न्यादयो मृत्युम् मरणम् अपाघ्नत अपहतवन्तः। अमर्त्याः संपन्ना इत्यर्थः । इन्द्रो ह इन्द्रोऽपि ब्रह्मचर्येण एव साधनेन देवेभ्यः देवानाम् अर्थे स्वः स्वर्गम् आभरत् आहरत् ।।

ओष॑धयो भूतभ॒व्यम॑होरा॒त्रे वन॒स्पतिः॑।
सं॑वत्स॒रः स॒ह र्तुभि॒स्ते जा॒ता ब्र॑ह्मचा॒रिणः॑ ।। २०{१५}
ओषधयः । भूतऽभव्यम् । अहोरात्रे इति । वनस्पतिः ।
सम्ऽवत्सरः । सह । ऋतुऽभिः । ते । जाताः । ब्रह्मऽचारिणः ॥ २० ॥
ओषः पाकः आसु धीयत इति ओषधयो व्रीहियवाद्याः अरण्यजा वीरुधश्च । भूतभव्यम् भूतम् उत्पन्नं चराचरात्मकं भव्यम् उत्पत्स्यमानम् । अहोरात्रे अहश्च रात्रिश्च । 'हेमन्तशिशिरावहोरात्रे च च्छन्दसि' (पा २,४,२८ ) इति नपुंसकलिङ्गता निपात्यते । वनस्पतिः वनानां पालयिता देवः । 'पारस्करप्रभृतीनि च संज्ञायाम्' (पा ६,१,१५७ ) इति सुट् । 'उभे वनस्पत्यादिषु युगपत्' (पा ६,२,१४० ) इति उभयपदप्रकृतिस्वरत्वम् । संवसन्ति अस्मिन्निति संवत्सरः द्वादशमासात्मकः कालः ऋतुभिः वसन्ताद्यैः षड्भिः सह । ते ओषध्यादयः अनुक्रान्ताः सर्वे ब्रह्मचारिणः तपोमाहात्म्यात् जाताः उत्पन्नाः ।
इति तृतीयेऽनुवाके द्वितीयं सूक्तम् ।

पार्थि॑वा दि॒व्याः प॒शव॑ आर॒ण्या ग्रा॒म्याश्च॒ ये।
अ॑प॒क्षाः प॒क्षिण॑श्च॒ ये ते जा॒ता ब्र॑ह्मचा॒रिणः॑ ।।२१
पार्थिवाः । दिव्याः । पशवः । आरण्याः । ग्राम्याः । च । ये ।
अपक्षाः । पक्षिणः । च । ये । ते । जाताः । ब्रह्मचारिणः ॥ २१ ॥
पार्थिवाः पृथिव्याः संबन्धिनो जनाः। 'पृथिव्या ञाञौ' (पावा ४,१,८५) इति तस्येदमर्थे अञ्प्रत्ययः । तथा दिव्याः दिवि भवाः । 'द्युप्रागपागुदक्प्रतीचो यत्' (पा ४,२,१०१) इति शैषिको यत्प्रत्ययः । आरण्याः अरण्ये भवाः पशवः सिंहशार्दूलहरिणाद्याः। ग्राम्याः गवाश्वमहिषाद्याः । एवंभूता ये पशवः सन्ति तथा अपक्षाः पक्षरहिताः प्राणिनो ये सन्ति पक्षिणः पक्षवन्तः च ये सन्ति ते सर्वे ब्रह्मचारिणो जाताः ब्रह्मचर्यप्रभावाद् उत्पन्ना इत्यर्थः।

पृथ॒क्सर्वे॑ प्राजाप॒त्याः प्रा॒णाना॒त्मसु॑ बिभ्रति।
तान्त्सर्वा॒न्ब्रह्म॑ रक्षति ब्रह्मचा॒रिण्याभृ॑तम् ।।२२
पृथक् । सर्वे । प्राजाऽपत्याः । प्राणान् । आत्मऽसु । बिभ्रति ।
तान् । सर्वान् । ब्रह्म । रक्षति । ब्रह्मऽचारिणि । आऽभृतम् ॥ २२ ॥
प्राजापत्याः प्रजापतिना सृष्टा देवमनुष्याद्याः सर्वे आत्मसु शरीरेषु प्राणान् पृथक् नाना स्वस्वसंबन्धिन एव बिभ्रति धारयन्ति पोषयन्ति वा । डुभृञ् धारणपोषणयोः। जुहोत्यादित्वात् शपः श्लुः । 'अदभ्यस्तात्' (पा ७,१,४) इति झस्य अदादेशः । 'भृञामित्' (पा ७,४,७६ ) इति अभ्यासस्य इत्त्वम् तान् सर्वान् प्राणान् ब्रह्मचारिणि आचार्यमुखाद् आभृतम् आहृतम् अध्ययनेन संपादितं ब्रह्म वेदात्मकं रक्षति पालयति । ब्रह्मचार्यधीतं ब्रह्म सर्वप्राणिरक्षणक्षमम् इत्यर्थः।

दे॒वाना॑मे॒तत्प॑रिषू॒तमन॑भ्यारूढं चरति॒ रोच॑मानम्।
तस्मा॑ज्जा॒तं ब्राह्म॑णं॒ ब्रह्म॑ ज्ये॒ष्ठं दे॒वाश्च॒ सर्वे॑ अ॒मृते॑न सा॒कम् ।।२३
देवानाम् । एतत् । परिऽसूतम् । अनभिऽआरूढम् । चरति । रोचमानम् ।
तस्मात् । जातम् । ब्राह्मणम् । ब्रह्म । ज्येष्ठम् । देवाः। च । सर्वे। अमृतेन । साकम् ॥२३॥
एतत् सर्वापरोक्षं परब्रह्म देवानां परिषूतम् परिगृहीतम् । आत्मतया साक्षात्कृतम् इत्यर्थः । रोचमानम् । स्वप्रकाशचिद्रूपतया दीप्यमानम् अनभ्यारूढम् अन्यैरनाक्रान्तं सर्वोत्कर्षेण चरति वर्तते । तस्मात् सकाशात् ब्राह्मणम् ब्रह्मणः संबन्धि ब्राह्मणस्य वा असाधारणं स्वं ज्येष्ठम् प्रवृद्धतमं प्रशस्यतमं वा ब्रह्म वेदात्मकं जातम् प्रादुर्भूतम् । 'अस्य महतो भूतस्य निश्वसितम् एतद् यद् ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः' ( बृउ २,४,१० ) इति श्रुतेः। देवाः तत्प्रतिपाद्या अग्न्यादयः च सर्वे अमृतेन स्वोपभोग्येन अमृतत्वप्रापकेण सुधारसेन साकम् सह जाता इत्यर्थः ।

ब्र॑ह्मचा॒री ब्रह्म॒ भ्राज॑द्बिभर्ति॒ तस्मि॑न्दे॒वा अधि॒ विश्वे॑ स॒मोताः॑।
प्रा॑णापा॒नौ ज॒नय॒न्नाद्व्या॒नं वाचं॒ मनो॒ हृद॑यं॒ ब्रह्म॑ मे॒धाम् ।।२४
ब्रह्मऽचारी । ब्रह्म । भ्राज॑त् । बिभर्ति । तस्मिन् । देवाः । अधि । विश्वे । सम्ऽओताः ।
प्राणापानौ । जनयन् । आत् । विऽआनम् । वाचम् । मनः । हृदयम् । ब्रह्म । मेधाम् ॥२४॥
ब्रह्मचारी ब्रह्मचर्यवान् पुरुषो भ्राजत् दीप्यमानं ब्रह्म वेदात्मकं बिभर्ति धारयति । तस्मिन् अधि उपरि विश्वे सर्वे देवा समोताः संबद्धाः । 'यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति' ( तैआ २,१५,१) इति श्रुतेः । स च सर्वेषां देवानां निवासभूतो ब्रह्मचारी प्राणापानौ सर्वप्राणिसंबन्धिनौ जनयन् उत्पादयन् वर्तते । आत् अनन्तरं व्यानम् । 'अथ यः प्राणापानयोः संधिः स व्यान.' ( छाउ १,३,३ ) इति श्रुत्यन्तरप्रसिद्धं व्यानाख्यं वायुम् वाचम् वागिन्द्रियं परापश्यन्त्यादिरूपां वा शब्दात्मिकां वाचम् मनः सर्वेन्द्रियानुग्राहकम् अन्तःकरणम् हृदयम् तदावासस्थानभूतं हृदयकमलम् ब्रह्म वेदात्मकम् मेधाम् आशुविद्याग्रहणकुशलां बुद्धिम् एतत् सर्वं ब्रह्मचारी जनयन् वर्तते।

चक्षुः॒ श्रोत्रं॒ यशो॑ अ॒स्मासु॑ धे॒ह्यन्नं॒ रेतो॒ लोहि॑तमु॒दर॑म्।२५
चक्षुः । श्रोत्रम् । यशः । अस्मासु । धेहि । अन्नम् । रेतः । लोहितम् । उदरम् ॥२५॥

तानि॒ कल्प॑न्ब्रह्मचा॒री स॑लि॒लस्य॑ पृ॒ष्ठे तपो॑ ऽतिष्ठत्त॒प्यमा॑नः समु॒द्रे।
स स्ना॒तो ब॒भ्रुः पि॑ङ्ग॒लः पृ॑थि॒व्यां ब॒हु रो॑चते ।। २६{१६}
तानि । कल्पत् । ब्रह्मऽचारी । सलिलस्य । पृष्ठे । तपः । अतिष्ठत् । तप्यमानः । समुद्रे ।
सः । स्नातः । बभ्रुः । पिङ्गलः । पृथिव्याम् । बहु । रोचते ॥ २६ ॥
हे ब्रह्मन् ब्रह्मचार्यात्मक अस्मासु स्तोतृषु चक्षुः रूपग्राहकम् इन्द्रियं श्रोत्रम् शब्दग्राहकम् । प्राधान्याद् उपलक्षणत्वेन एतद् इन्द्रियद्वयम् उक्तम् । चक्षुःश्रोत्रादीनि सर्वाणि इन्द्रियाणि यशः कीर्तिं च अस्मासु धेहि धारय । आन्ध्यबाधिर्यादिकं कदाचिदपि अस्माकं मा भूद् इत्यर्थः । तथा भोज्यम् अन्नम् पुत्रादिकारणं रेतः लोहितम् शरीरगतम् असृक् उदरम् उदरोपलक्षितं समस्तशरीरम् [२५] । तानि एतानि अन्नादीनि ब्रह्मचारी कल्पत् कल्पयन् सलिलस्य पृष्ठे उदकस्य मध्ये तपस्तप्यमानः समुद्रे अतिष्ठत् । वर्तत इत्यर्थः । स तपस्वी ब्रह्मचारी अनिशं स्नातः स्नानेन पवित्रीकृतः बभ्रुः बभ्रवर्णः । एतदेव विव्रियते -- पिङ्गल इति । पिङ्गलवर्णः सन् पृथिव्याम् भूम्यां बहु अधिकं रोचते दीप्यते।
इति तृतीयेऽनुवाके तृतीयं सूक्तम् ।