अथर्ववेदः/काण्डं ११/सूक्तम् ०५

विकिस्रोतः तः
← सूक्तं ११.०४ अथर्ववेदः - काण्डं ११
सूक्तं ११.०५
अथर्वा
सूक्तं ११.०६ →
दे. ओदनः ( बार्हस्पत्योदनः) (त्रयः पर्यायाः) । - - - - -- -

एतद्वै ब्रध्नस्य विष्टपं यदोदनः ॥५०॥ [१]
ब्रध्नलोको भवति ब्रध्नस्य विष्टपि श्रयते य एवं वेद ॥५१॥ [२]
एतस्माद्वा ओदनात्त्रयस्त्रिंशतं लोकान् निरमिमीत प्रजापतिः ॥५२॥ [३]
तेषां प्रज्ञानाय यज्ञमसृजत ॥५३॥ [४]
स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ॥५४॥ [५]
न च प्राणं रुणद्धि सर्वज्यानिं जीयते ॥५५॥ [६]
न च सर्वज्यानिं जीयते पुरैनं जरसः प्राणो जहाति ॥५६॥ [७] {१०}