पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गलन्धाधिकारः १४०७ सु- भा.-क्षितिजा सकाशात् स्वाहोरात्रवृत्ते दिनगते वा पश्चिमकपाले दिनशेषे या रवेरुच्चता लम्बरूपा स शङ्कुर्भवति । तस्माच्छुकश्च त्रिप्रश्नाधिका रविधिना दिनगतशेषं च भवति । शङ्कुकुमध्यान्तरं शङकुमूलस्य कुमध्यस्य भूगर्भस्य चान्तरं दृग्ज्येत्युच्यते । रविकेन्द्रात् क्षितिजोपरि लम्वः शङ्कुः। शङ्कु मूलं भूगर्भान्तरं च दृग्ज्या भवतीत्यर्थः।।६२।। वि. भा–क्षितिजात् स्वाहोरात्रवृत्त दिनगते वा पश्चिमकपाले दिनशेषे या रवेरुच्चता लम्बरूपा स शङ्कुर्भवति । तस्मात् (शङ्कःत्रिप्रश्नाधिकारोक्त विधिना दिनगतशेषं च भवति । शङ्कुसूलस्य भूगर्भस्य चान्तरं दृग्ज्येति कथ्यते । रविबिम्बकेन्द्रात् क्षितिजधरातलोपरि लम्बः शङ्कुः कथ्यते । सिद्धान्तशेखरे “पूर्वापरक्षितिजवृत्तत उन्नतांशज्याशङ्कुरत्र कथितः स्फुटमिष्टभायाम् । तस्या ग्रतो दिनकरोऽम्बररत्नबिम्बमध्यावलम्बकमुत प्रवदन्ति शङकुरु ।’ इत्यनेन श्रीपतिनापि भूगर्भभूपृष्ठयोरभेदस्वीकारात् सूर्यबिम्ब केन्द्रात् क्षितिजधरातलो परि लम्बसूत्रं शङ्कुः कथ्यते । शिष्यधीवृद्धिदतन्त्रे लल्लः “पूर्वापरकुजवृत्तादुन्नत लवशिञ्जिनीष्टभाशङ्कुः । तस्याम् दिवसकरो नरोऽर्कबिम्बावलम्बो वा । भास्कराचार्यश्च ‘दृष्टिमण्डलभवा लवाः कुजादुन्नत। गगनमध्यतो नताः । शङ्कु- रुन्नतलवज्यका भवेद् दृग्गुणश्च नतभाग शिञ्जिनी ।” तथैव सदृशोत्तय व शङ्कुं प्रतिपादयन्तीति ।।६२॥ 2. अब शंकु और दृग्ज्या की स्थिति को कहते हैं । हि- भा–क्षितिजवृत्त से स्वाहोरात्रवृत्त जो दिनगत है उसमें वा पश्चिमकपाल में दिनशेष में रवि की जो उच्चता है वह शङ्कु है अर्थात् रवि बिम्वकेन्द्र से क्षितिज धरातल के ऊपर लम्ब रेखा शङ्कु है। उस शङ्कु से त्रिप्रश्नाधिकारोक्त विधि से दिनगत और दिनशेष होता है, शङ्कु मूल से भूगर्भपर्यन्त रेखा दृग्ज्या कहलाती है तथा रविबिम्ब केन्द्र से क्षितिज घरातल के ऊपर लम्ब रेखा शड्कु है अर्थात् रबिबिम्ब केन्द्र से खस्वस्तिक गत वृत्त दृग्वृत्त है, रबि केन्द्र से खस्वस्तिक पर्यन्त चाप नतांश चाप है इसकी ज्या दृग्ज्या है, तथा रविबिम्ब केन्द्र से हुवृत्ता और क्षितिजबूत के सम्पात पर्यन्त दृग्वृत्तीय चाप उन्नतांश है, इसकी ज्या शङ,कु है । सिद्धान्तशेखर में श्रीपति, शिष्यधीवृद्धिदतन्त्र में लल्लाचार्य, गोलाध्याय में भास्कराचार्य सब एक ही तरह शङकु को कहते है इति ॥६२॥ नी प्रकारान्तरेण तयोः संस्थानं शङकुतलचाह - दृग्मण्डले नतशज्या दृग्ज्य शङ् कुरुन्नतांशज्या । अर्कोदयास्तसूत्राद्दिनशङ्कोर्दक्षिणेन तलम् ।।६३। सु- भा. -दिनशङ्कोदवाशझोस्तलं मूलमर्कोदयास्तसूत्राद्दक्षिणेन भवति ।